________________
६०५
शब्दार्थोपवर्णनमस्मिन्नये] द्वादशारं नयचक्रम् । सत्यम् , कर्मणि चतुर्थी । भवव्यापि रूपादिशिवकादिपर्यायवृत्तितत्त्वं सत्यम् । असत्याः पुनरुपाधयोऽस्य द्रव्यं मृद् घट इत्यादिप्रवृत्तयस्तदाभाः। एवमेव च...... आनीयताम् [ ]। सत्यस्य.... 'तदाख्यानमुपसर्जनम् , गृहोपलक्षणकाकवत् । तथा जातिशब्दो विशेषार्थः । तद्वचनेनोक्तमपि विशेषवस्तु उक्तवत् । सापि चोक्तवत्, वाग्विसर्गकालोपलक्षणनक्षत्रदर्शनश्रुतिवत् । अन्यथा तच्छब्दार्थतायां ।
१०४-१
तद्धितार्थं व्युत्पाद्य विभक्तिमाह-कर्मणि चतुर्थीति षष्ठ्यर्थे, चतुर्थी चाशिष्यायुष्यमैद्रभद्रकुशलसुखार्थहितैः [पा २।३।७३] इति विहितत्वात् हिनोतेर्दधातेर्वा धातोः कर्मणि द्वितीयस्यां प्राप्तायां षष्ठीचतुथ्यौँ विभाष्येते।
अधुना स्वमतं तेन समीकुर्वन् भावयति-भवव्यापीत्यादि । रूपादिशिवकादिपर्याया वृत्तिरस्य तत्त्वस्य तदविकल्पं शिबिकावाहकाँनेनेवेश्वरस्तत्पर्यायवृत्तितत्त्वं याति सततं वर्तते, देशभिन्नं रूपादि 10 कालभिन्नं शिवकादि सत्यम् । असत्याः पुनरुपाधयोऽस्य लिङ्गाद्युपाध्युपायेन निदर्शनम्-'द्रव्यं मृद् घटः' इत्यादिप्रवृत्तयस्तदाभाः रूपादिशिवकादिपर्यायतत्त्वाभासाः । तद्वस्तुव्यापिवदाभासते सामान्यम् , तद्विशेषः परमार्थः सन् ।
एवमेव चेत्यादि एतदर्शनसंवादीदमिति ज्ञापकमेतेन लक्षणेन सङ्गृहीतं यावदानीयतामिति । तद्वयाख्या-सत्यस्येत्यादि यावत् तदाख्यानमुपसर्जनमिति गतार्थम् । दृष्टान्तः-गृहोपलक्षण-15 काकवदिति । कतरद् देवदत्तस्य गृहम् ? इति प्रश्ने प्रतिवचनम्-'यत्रासौ काकः' इति काकशब्दो गृहार्थप्रतिपादनार्थत्वात् काकार्थ एव सन् गृहार्थ इत्युच्यते तथा उदितस्वार्थवत् जातिशब्दो विशेषार्थ इति । तद्वचनेन तदर्थत्वप्रकारेण वचनेन उक्तमपि विशेषवस्तु उक्तेन तुल्यमुक्तवत् न परमार्थत उक्तमेव तद् गम्यते ["इ ?]त्यादि जातिगतानां सत्ता-द्रव्य-पृथिवी-मृद्-घट-कुण्ड-कुण्डिकादिलिङ्गसङ्ख्यादीनां संवादिनां विसंवादिनां च या सामानाधिकरण्यगतिस्तया निरूपितं यादृच्छिकैमर्थवत्त्वमनर्थिकाया 20 एव सत्यास्तस्याः । सापि चोक्तवदिति, तस्या अपि जातेरभिहितन्यायेन परार्थत्वादर्थवत्त्वम् , अनर्थकत्वं स्वार्थेन । किमिव ? वाग्विसर्गकालोपलक्षणनक्षत्रदर्शनश्रुतिवत् , यथा 'नक्षत्रं दृष्ट्वा वाचो विसृजन्ति' इति नक्षत्रदर्शनमत्रातत्रम् , नक्षत्रदर्शनयोग्यः कालोऽत्र तदर्थेन पश्यतिना उक्तवदुक्तः, परमार्थेन तु पश्यतिः स्वार्थे एव वर्तते तथा जातिशब्दो विशेषार्थ इति । अन्यथा मुख्यन्यायेन तच्छब्दार्थताया
१“एतदथैर्योगे चतुर्थी वा स्यात् पक्षे षष्ठी। आशिषि आयुष्यं चिरजीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं, भद्रं, कुशलं निरामयं, सुखं शम् , अर्थः प्रयोजनं, हितं पथ्यं वा भूयात् । आशिषि किम् ? देवदत्तस्यायुष्यमस्ति । व्याख्यानात् सर्वत्रार्थग्रहणम्।"-पा०सिद्धान्तकौमुदी। २ मद्रकुशल य० ॥ ३ सचद्वयापी भा? ॥ ४ यानेनेतेश्वर
यानेनेतिश्वर भा० । 'शिबिकावाहकयानेन इव ईश्वरः' इति पदच्छेदः ॥ ५ द्रव्य मृद प्र०॥६ व्यादिवदा य० । च्यादिवदा भा०॥ ७ सामान्यतद्विशेष: य० । सामान्यद्विशेषः भा० ॥ ८ (परमार्थसन् ?) ॥ ९ संवादितिदमिति प्र० ॥ १० स्वार्थवत भा० । स्यार्थवत य० । (वार्थगतजातिशब्दो?) ॥ ११ अत्र कश्चित् पाठः खण्डितोऽशुद्धो वा भाति ॥ १२ ककर्थबंधनमन भा० । किकिर्थबंधमन य० ॥ १३स्तस्या प्र०॥ १४ दृश्यतां पृ० १३५ पं० १३, टिपृ० ५८ पं० २०-२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org