________________
5
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
वारुप्रस्थकत्वाद्वा समानाधिकरणीकरणाद् दारुण्यपि स नावतिष्ठेत । तथाभूत...
- दहनोऽग्निः ।
६०४
एवं प्रतिपदार्थं भावनिक्षेपः शब्दनयस्यास्योक्तः, न यथर्जुसूत्र [ म् ] । अत्र च शब्दार्थोऽप्यसत्योपाधिसत्यः । यथोक्तम् —
असत्योपाधि यत् सत्यं तद्वा शब्द निबन्धनम्
वाक्यप० २।१२८ ] |
'विशेषा उपाधयः [ कुण्डलादयो विकारा असत्या यस्य सत्यस्य सर्वभेदानुयायिनः सुवर्णादेः सामान्यस्य ] तदभिधीयते विशेषैरिव सामान्यम् । सते हितं
प्रस्थक इति एतच्चायुक्तम्, यस्माद् दारुप्रस्थकत्वाद्वा सँमानाधिकरणीकरणाद् दारुण्यपि से नावतिष्ठेतेत्यतिप्रसङ्गदोषः । कथम् ? यथा द्रव्यत्वाद् दारुप्रस्थकत्वाभेदस्तथा द्रव्यत्वात् पृथिव्युदेका10 द्यभेद् इति दोष एव । स्वमते तु दोषाभावो गुणोत्कर्षश्चेत्यत आह- तथाभूतेत्यादि गतार्थं यावद् दहनोऽग्निः ।
उक्तार्थनिगमनम्-एवं प्रतिपदार्थं सर्वपदार्थेषु भावनिक्षेपः शब्दर्नयस्यास्योक्तः, न ४०३-२ यथर्जुसूत्र [म् ]; नामादिचतुर्विधनिक्षेपाभिलाषिणो यथा ऋजुसूत्रनयस्य वर्तमानपर्यायग्राहिणो मतं तथा न भवतीति शब्दमतं दर्शितम् ॥
अत्र चेत्यादि । शब्दार्थोऽप्यसत्योपाधिसत्यः, नानन्तरनयनिर्दिष्टोऽन्यापोहः । यथोक्तमिति शिष्टान्तरमँतं च दर्शयति-असत्योपाधि यत् सत्यं तद्वा शब्दनिधन्धनमिति । तद्वाचष्टे - विशेषा उपाधय इत्यादि तदीय एव प्रन्थो यावत् तदभिधीयत इति । सुवर्णप्रकृत्युपमर्दे कुण्डलविकारस्य विशेषस्यासत्यस्य सामान्यवादिमते सत्यं प्रकृतिः सामान्यं प्रतिपाद्यम् । तथा पुरुषादिसामान्यस्य प्रतिपादका विशेषा उपाधयस्ते ते प्रकृतिपुरुषेश्वराः स्वागमेषु । विशेषैरिव सामान्यमिति प्रतिपादनसाधर्म्येण 20 दृष्टान्तः । तंत्र शब्द उपनिबद्धो विकार कृतित्ववदिति । तत् संहृत्याऽऽचार्य: 'सते हितं सत्यम्' इति
15
१ “अन्ये त्वाहुः - यदसत्योपाधि सत्यं स शब्दार्थ इति । तत्र शब्दार्थत्वेनासत्या उपाधयो विशेषा वलयाङ्गुलीयकादयो यस्य सत्यस्य सर्वभेदानुयायिनः सुवर्णादेः सामान्यात्मनः तत् सत्यमसत्योपाधि | शब्दनिबन्धनमिति शब्दप्रवृत्तिनिमित्तमभिधेयमित्यर्थः ।”-तत्त्वसंग्रहपञ्जिका पृ० २८४ । सन्मतिवृत्ति पृ० १८० । २ 'विशेषा उपाधयः [ कुण्डलादयो विकारा असत्याः, सत्यं सर्वभेदानुयायि सुवर्णादि सामान्यम् ] तदभिधीयते विशेषैरिव सामान्यम् ।' ईदृशमपि मूलमंत्र सम्भवेत् ॥ ३ सामाना भा० । ( सामानाधिकरण्यकरणाद् ? ) ॥ ४ समानावतिष्ठेते भा० । समानावतिष्ठते य० । ( समानोऽवतिष्ठेते ? ॥ ५. दक्याद्वयभेद भा० ॥ ६ 'नयस्योक्तः भा० ॥ ७ मत्तं दर्शयति भा० ॥ ८ तुलना - "सत्यं वस्तु तदाकारैरसत्यैरवधार्यते । असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ॥ अध्रुवेग निमित्तेन देवदत्तगृहं यथा । गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ॥ सुवर्णादि यथा भिन्नं स्वैराकारैरपायिभिः । रुचकाद्यभिधानानां शुद्धमेवैति वाच्यताम् ॥” - वाक्यप० ३।२।२-४ आसां कारिकाणां विस्तरार्थो वाक्यपदीयस्य हेलाराजरचितवृत्तितोऽवगन्तव्यः ॥ ९ उपाध्यायास्थते य० ॥ १० श्वराष्वागमेषु भा० । श्वराविष्वागमेषु य० । (श्वरादयः स्वागमेषु ? ) (श्वरा आगमेषु ? ) ॥ ११ तत् शब्द भा० ॥ १२ प्रकृतित्वदवदिति प्र० । ( प्रकृतित्वादिति ? ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org