________________
शब्दनयस्य भावनिक्षेप इष्टः] द्वादशारं नयचक्रम् ।
६०३ क्रियाफलाविसंवादोऽपि च विशेषैकभवनादेव । तद्युक्तं नामादिव्यवहारमङ्गीकृत्य क्रिया प्रवर्तते । नाग्निना शब्देन पच्यते न च [चित्रलिखितेन, तयोर्व्यवहाराक्षमत्वात् , किं तर्हि ? तथावृत्तिभावेनैव । मानमपि] न यथा मानप्रस्थकेन तथा तन्नाना।
नामप्रत्ययनामकर्मतत्त्वात् तेनैवेति चेत्, न, चेतनभेद[नियतपृथिव्यादि- 5 तत्त्वाभावे योगवक्रतादिविपरिणामाप्रवृत्तेः फलाभावाद् ] नामकर्माद्यनुपपत्तेः । न च चित्रलिखिताग्निप्रस्थकाभ्यां दहनमाने तयोर्व्यवहाराक्षमत्वात् ।
द्रव्यमपि च भव्यं तथा तथा भावे एव घटते, त्वन्मते द्रव्यभवने तु न । तथा प्रस्फुटम् 'अग्निद्रव्यम्' इति पुनपुंसकयोर्भावभेदे सामानाधिकरण्यं दृष्टम् ।
15
एतस्य दर्शनस्य लोकसंव्यवहारव्यापितां दर्शयति-क्रिया-फलाविसंवादोऽपि चेत्यादि । ऐहिक-10 मोदनादि पचिक्रियादेः स्थालीकाष्ठादिसाधनायाः फलम् , आमुष्मिकं स्वर्गादि दानादेरोदनादिसाधनायाः फलम् , न तत्र काष्ठस्थाल्यादीनि नाममात्राणि न चित्रलिखितानि वा, किन्तु तथाभूतानि पचेभागधि(चेर्भागधे)यानि तान्येव विशेषैकभवनानि । तद्युक्तं नाम-चित्रकाष्ठादिव्यवहारमङ्गीकृत्य भावभवनं क्रिया प्रवर्तते । नाग्निना शब्देन पच्यते, न चेत्यादि भाविता) यौवन्न यथा मानप्रस्थकेन तथा तन्नाम्नेति ।
नामप्रत्ययनामकर्मतत्त्वात् तेनैवेति चेत् । स्यान्मतम्-प्रागुक्तचैतन्यनामप्रत्ययायत्तं नामकर्म, तत्तत्त्वानि काष्ठादीनि, अतस्तेनैव नाम्ना लोके व्यवहार इति । एतच्च न, चेतनभेदेत्यादि यावद् नामकर्माद्यनुपपत्तेरिति, अत्रापि चेतनभेदेषु यानि पृथिव्यादितत्त्वानि नियतानि तथाभूतियोग्ये ४०३-१ विशेषात्मनि तेषामभावे तिर्यग्गतिनिर्वर्तनीययोगवक्रतादिविपरिणामाप्रवृत्तेः फलाभावः, तदभावात् कुतो नामकर्म ? कुतः काष्ठादिवनस्पतिपृथिव्यम्यादितिर्यक्शरीरत्वादीनि ? अतो विशेषैकभवनमेव क्रिया-फलादि-20 व्यवहारहेतुः न नामशब्द इति सुष्टुक्तम् । तथा चित्रकर्मेत्यत आह-न च चित्रलिखिताग्नि-प्रस्थकाभ्यां दहन-माने तयोर्व्यवहाराक्षमत्वात् , तथावृत्तिभावस्यैव व्यवहारक्षमत्वात् ।
द्रव्यमपि च भव्यं तथा तथेति । द्रव्यं च भव्ये [पा० ५।३।१०४ ], 'भवति' इति भव्यं तेन तेन प्रकारेण लोकव्यवहारक्षमेण भवनाद् भाव एव घटते, त्वन्मते द्रव्यभवने तु न, अग्निप्रस्थकादि सर्वमेकभाव एव भूतं द्रव्यार्थाभेदात् को द्रव्यशब्देनात्यन्तविरुद्धार्थेन भेदवाचिना 25 तथा तथा भवनार्थेन सम्बन्धः ?
। अस्मिन्नर्थे निदर्शनमाह-तथा प्रस्फुटमित्यादि । 'अग्निद्रव्यम्' इति पुनपुंसकयोर्भावभेदे सामानाधिकरण्यं दृष्टम् , नान्यथा तत् । स्यान्मतम्-द्रव्यशब्दस्य दारुसमानाधिकरणत्वाद् नपुंसकं
१ भा० प्रतिपाठानुसारेण 'तथेह' इत्यपि पाठोऽत्र स्यात् ॥ २ काष्ठानिंदिव्य भा० ॥ ३ यावत्तयथा प्र० ॥ ४ पत्तिरिति भा० ॥ ५ चेतनाभेदेषु प्र० ॥ ६ णातिप्रवृत्तेः प्र० ॥ ७ तथेहिति भा० । (तथेहेति ? ) ॥ ८ भव्यं भव्य प्र०॥ ९ तथा तथा भावनार्थेन य० । तथा भावनार्थेन भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org