________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं । अष्टम उभयनियमारे सामान्याकारद्रव्यार्थ उपसर्जनम् । परमार्थतस्तु अविकल्प्यतत्त्वत्वाद् न पाण्यादीनि स्वरूपतः । कुतस्तेषां स्थापना द्रव्यतः ?
क्षेत्रतो युगपद्भाविपर्यायेषु विशेषव्यतिरेकेणार्थाभावाद् नास्ति स्थापना । कालतो बालाद्ययुगपद्भाविपर्यायेष्वपि विशेषव्यतिरेकेणार्थाभावात् कथं स्थापना 5क्रियतां कस्य वा? असद्भावस्थापनायाश्च [ द्रव्यार्थत्वात् सद्भावस्थापनायाश्च पर्यायार्थत्वात् द्रव्यार्थप्राधान्ये ] इतरनिराकरणम् । योऽपि नामबुद्धयध्यारोप उक्तः सोऽपि नामद्रव्यार्थपर्यायार्थयोर्विषयः। स च विशेषभवनमेव। द्रव्यद्रव्यार्थस्तु विध्यादिभङ्गेषु व्याख्यातो दूषितः।
इतस्तु भाव[युक्तवाची शब्दः, नामस्थापनाद्रव्यवाच्येष्टाकरणात् ] । स्थित10 मेवम्................ 'युगपत्तत्त्वम् ।
त्वक्-पर्व-सन्धि-वर्ण-रेखा-ऽवयव-परमाणु-रूपादिभेदेष्विव प्रत्येक विशेषतत्त्वभवनस्य इतरदुपसर्जनम् । परमार्थतस्तु तेदत्यन्तविशेषे तत्त्वमविकल्प्यमस्ति, न तानि पाण्यादीनि स्वरूपतः, कुतस्तेषां स्थापना द्रव्यतः ? तथा क्षेत्रतो युगपद्भाविपर्यायेषु विशेषव्यतिरेकेणार्थाभावाद् नास्ति स्थापना, आकार
आभवनमाकार्ये आकर्तरि वार्थे नास्ति स्थापनाया आकारत्वात् । कालतोऽप्ययुगपद्भाविपर्यायेषु बालादि15 ध्वेकमेकं विशेषभवनं परमार्थः, तद् भावयति बालाद्ययुगपद्भावीत्यादि यावत् कथं स्थापना क्रियतां कस्य वा ? इति गतार्थम् ।
किश्चान्यत् , सद्भावस्थापनायाः पर्यायार्थत्वादसद्भावस्थापनाया द्रव्यार्थमात्रत्वात् ते द्वे प्ररूपयता त्वया पर्यायार्थप्राधान्यावलम्बि[त्व]मित्थं निराकृतम् , द्रव्यार्थप्राधान्ये वा पर्याया निराकृता अंक्षाद्यसद्भावेत्यादिना ग्रन्थेनेति तद् दर्शयति-असद्भावस्थापनायाश्चेत्यादि यावदितरनिराकरणम् । 20 योऽपि नामबुद्ध्यध्यारोप उक्तः अभिप्रेताकारवृत्त इत्यादि सोऽपि नयान्तरयो मद्रव्यार्थ४०२२ पर्यायार्थ]योर्विषयः । तत्र नामद्रव्यार्थविषयो नामाध्यारोपः, पर्यायार्थविषयो बुद्ध्यध्यारोपः-आगमतो
जाणए उवउत्ते भावसामाइयं [ ] ति । स च विशेषभवनमेव । द्रव्यद्रव्यार्थस्त्वित्यादि अतिक्रान्तेषु 'विध्यादिभङ्गेषु द्रव्यद्रव्यार्थो व्याख्यातो दूषितः पुनर्न वाच्यः।
इतस्तु भावेत्यादि, अस्मिंश्च शब्दनये उभयनियमभङ्गलक्षणे विशेष एवैको भवतीति शब्दार्थ25 व्याख्यानेन द्रव्यद्रव्यार्थवाच्यं नामस्थापनाद्रव्यार्थवाच्यं चेष्टं न करोतीति भावितमेव । अतो नयस्वरूपमुपनयति-"स्थितमेवमित्यादि यौवद् युगपत्तत्त्वमिति ।
१ पर्थ प्र० ॥ २ तदंत्यविशेषे य० ॥ ३ द्रव्य प्र० ॥ ४ बालादिष्टेकमेकविशेषभवनं य० । बालादिष्टेकमेकमेकविशेषभवनं भा० । 'बालादिष्वेकमेव विशेषभवनं' इत्यपि पाठः स्यादत्र॥ ५ त द्वे भा० । त द्वे य० ॥ ६ पृ० ६.१५० ३॥ ७°बुद्ध्याध्या' प्र० । दृश्यतां पृ. ६०१ पं० १६॥ ८ “से किं तं भावसामाइए ? २ दुविहे पं०, तं०-आगमओ अ नोआगमओ अ । से किं तं आगमओ भावसामाइए? जाणए उवउत्ते।" इति अनुयोगद्वारसूत्रे १५० ॥ ९विबुद्ध्यादि प्र० ॥ १० शब्देनयेनुभयमभङ्गलक्षणे प्र० ॥ ११ द्रव्यंद्रव्यार्थ प्र० ॥ १२ स्थितमेतमित्यादि य० । स्थितमित्यादि भा० ॥ १३ यावद्यगत्तत्वमित्येव तस्य य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org