________________
स्थापनाद्रव्यार्थ स्वरूपम् ]
द्वादशारं नयचक्रम् ।
६०१
भावोऽप स्थापनैव । क्रियोपयोगरूपादिनीलादिशिवकादिरूपभेदो भाव आकार एव ।
अक्षाद्यसद्भावस्थापनायामपि रूपान्तरव्यावर्तनेन रूपान्तराकरणादभिप्रेताकारवृत्तो नामबुद्ध्यध्यारोपस्तत्कर्मणः द्रव्यार्थस्थापनेन्द्रस्थूणावत् । एतत्तत्त्वाध्यवसायादेव लिङ्गसमाचारदेवताप्रतिमानमस्करणादि लोके ।
अत्रापि विशेषाकार एव परमार्थः । तस्यैकभवनस्य स्थापनानिक्षेपे कार्ये
भावोऽपीत्यादि । भावनिक्षेपोऽपि स्थापनैव आगमतो 'नोआगमतश्च, आगमतस्तत्प्राभृतज्ञ उपयुक्त इत्युपयुक्तो भावः पारिणामिकः, क्षायोपशमिकश्रेष्टा जीवस्य वीर्यान्तरायक्षयोपशमजो भावः, ४०१ - २ पुद्गलानां तु रूपादिर्युगपद्भावी पारिणामिको भावो नीलादिर्वा तद्विशेषः शिवकादिरयुगपद्भावी वा इत्येवमादिरूपा भेदा यस्य सोऽयं क्रियोपयोगरूपादिनीलादिशिवकादिरूपभेदो भावः । स आकार 10 एव, आभवनमेव पूर्वोक्तविधिना |
एवं निक्षेपत्रयं स्थापनानिक्षेप एव सङ्क्षेपतो रूपान्तरव्यावर्तनेन रूपान्तराकरणात्मक स्थापनास्वरूपानतिक्रमात् । एतल्लक्षणानुगृहीतत्वाद सद्भाव स्थापनाऽव्यक्ताकाश सती स्थापनेत्यपादयितुकामः पराशङ्कानिवृत्त्यर्थमाह- अक्षाद्यसद्भावेत्यादि । अत्रापि रूपान्तरं चेद् व्यावर्त्य रूपान्तरं नाssकुर्यात् रूपान्तरस्य इन्द्रादेरक्षनिक्षेपप्रतिपाद्यस्यार्वरोधः प्रतिपत्तिर्न स्यात् भवति तु । तस्मादविरुद्धोऽभिप्रेतीकारे वृत्तो 15 नाम्ना शब्देन ' इन्द्र:' इति बुद्ध्या वाध्यारोपः तत्कर्मणः अक्षनिक्षेपस्थापनाकर्मणः, किमिव ? द्रव्यार्थ - स्थापनेन्द्रस्थूणावत् यथा रूपान्तरव्यावृत्त्या रूपान्तर ( रा ? ) करणाद् द्रव्यार्थस्थापनेन्द्रार्था स्थूणा इन्द्रस्तथाऽक्षा दिरिति ।
"
5
एतत्तत्त्वाध्यवसायादेव लिङ्ग- समाचार - देवताप्रतिमानमस्करणादि लोके, नैतदुपपत्त्या प्रतिपाद्यं 'स्थापनैव सर्वम्' इति लोके रूढत्वात् । तथाहि - पाषण्डिनां लिङ्गग्रहणानि यथागममाकार - 20 विशेषप्रसिद्धेस्तत्सहचारिणो नियमा अर्हदुद्रेन्द्रबुद्धादिदेवताप्रतिमा स्थापनानि तन्नमस्कार जपस्तुतिबलिमाल्यादिभिरभ्यर्चनानि च प्रतिविशिष्टाकारनिबन्धनानि दृष्टानि, न हि दृष्टाद् गरिष्ठं प्रमाणमस्तीत्येवं, स्थापनाद्रव्यार्थ नयमतमुक्तम् ।
अत्रापीत्यादि । अस्यापि नयस्योत्तरमिदम् । आकारोऽपि द्विविध:- सामान्याकारो विशेषाकारश्च । तत्र विशेषाकारः स्वरूपमेव परमार्थः, न सामान्याकारः । तस्य परमार्थस्य एकभवनस्य स्थापनानिक्षेपे 25 कार्ये सामान्याकारद्रव्यार्थ उपसर्जनं प्रधानस्य परमार्थस्य सद्भावस्याऽसद्भाव उपकारित्वात्, पाण्यङ्गुलि
१ नोगमश्च य० । नागमश्च भा० । 'ऽनागमतश्च' इत्यपि पाठोऽत्र भवेत् ॥ २ " भावो द्विविधो वेदितव्यः पूर्ववदागमनोआगमभेदात् । तत्प्राभृत विषयोपयोगाविष्ट आत्मा आगमः । जीवादिप्राभृतविषयेणोपयोगेनाविष्ट आत्मा आगमतो भावजीवो भावसम्यग्दर्शनमिति चोच्यते ।" - तत्त्वार्थराजवार्तिक. ११५॥ ३ 'दियुगप प्र० ॥ ४ स्थापनाया आकारस्वरूपत्वाद् रूपान्तरव्यावर्तनेन रूपान्तरस्य आकरणात्मकं यत् स्थापनाखरूपं तदनतिक्रमादित्याशयो भाति ॥ ५ कारसती य० ॥ ६ त्यादयितुकामः प्र० ॥ ७ नाकुर्यात् प्र० । दृश्यतां पृ० ६०२ पं० १४ ॥ ८ वबोधः इति सम्यग् भाति ॥ ९ भवि तु प्र० ॥ १० दृश्यतां पृ० ६०२ पं० २० ॥ ११ रूपान्तरकरकरणाद् भा० । रूपान्तकरणाद् य० । दृश्यतां पृ० ६०१ पं० १२,१४ ॥ १२ त्येव प्र० ॥ १३ अत्रापि भा० ॥ नय० ७६
Jain Education International
For Private & Personal Use Only
४०२-१
www.jainelibrary.org