________________
६००
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे निन्द्रयोविवेकमजानतां पुंसां साक्षात् प्रदश्यते; यस्माद् न तदाकारविनाभूत इन्द्रो घट इव विकुक्षिविनाभूतः।
अथवा स्थापनायां निक्षेपः स्थापनानिक्षेपः। न नाम्नि निक्षिप्यते, स्थापनायामेव निक्षिप्यते । यतो नामापि सहार्थेन तत्तत्रमेव । स्थानकरणजन्मानः शब्दा5कारास्तद्गम्याश्चार्थाकाराः सर्वे स्थापनाविपरिणामविजृम्भितमात्रम् । तदभावे शब्दार्थयोरभावादाकाराग्रहणे च तयोरग्रहणात् ।
द्रव्यमपि स्थापनानिक्षेप एव आकारमयत्वादू द्रव्यस्य । यथा श्रीपर्णीदारु द्रव्यमन्तीनाकारं तस्य तस्याकारविशेषस्य ।
त्यादि अविविक्तविविक्तस्थानलक्षणस्थापनानिक्षेपात्मकत्वं जगतः प्रत्यक्षीक्रियते व्यापित्वाद् लक्षणस्यास्य, 10 इन्द्रानिन्द्रयोविवेकमजानतां पुंसां स इन्द्रः साक्षात् प्रदर्यते । कस्मात् ? यस्माद् न तदाकारे
त्यादि, नयनशबलवर्णताद्याकारमन्तरेण इन्द्राभावात् तदाकारतत्त्व एवेन्द्र इत्युक्तत्वात् । किमिव ? ४०१-१ घट इव विकुक्षित्वादिविनाभूतः, यथा घटो विकुक्षित्वाद्याकाराइते नास्ति तदात्मक एवास्ति तथा इन्द्रोऽपि स्वाकारविनाभूतो नास्ति तदात्मैवास्तीति ।
___ अथवा स्थापनायामित्यादि सप्तमीसमासो वा । स्थापनायां निक्षेपो स्थापनानिक्षेप इति 15 ऐवकारार्थो द्रष्टव्यः, तद् व्याचष्टे-न नाम्नि न शब्दे निक्षिप्यते, किं तर्हि ? स्थापनायामेव निक्षिप्यते ।
कस्मादिति चेत्, अत आह-यतो नामापि सहार्थेन तत्तन्त्रमेव, आकारतत्र एव शब्दोऽर्थश्च । तद् भावयति-स्थानकरणेत्यादि, अकारादयो वर्णाः प्रतिनियतकण्ठोदिस्थांनाकारजन्मानः सङ्गत्या नैरन्तर्येण उच्चरन्तः सुप्-तिङन्तादिविशेषाकाराः तद्गम्याश्च नामाख्यातवाच्यद्रव्यक्रियाकाराः सर्वेऽन्तर्भूताकारतत्त्वस्थापनाविपरिणामविजृम्भितमात्रम् । किं कारणम् ? तदभाव इत्यादि, आकाराभावे शब्दार्थयोर20 भावादाकाराग्रहणे च तयोरग्रहणात् ।
एवं तावन्नामनिक्षेपः स्थापनानिक्षेपान्तर्भूत उक्तः । द्रव्यनिक्षेपोऽपि स्थापनान्तर्भूत इति ब्रूमः, तद्यथा-द्रव्यमपीत्यादि, द्रव्यनिक्षेपोऽपि स्थापनानिक्षेप एव आकारमयत्वाद् द्रव्यस्य, यथा श्रीपर्णीदारु द्रव्यं कारणमन्तीनाकारं तस्य तस्याकारविशेषस्य तदव्यक्तसामान्यव्यक्तेस्तथाऽऽकारसम्परिग्रहमात्रमिति स्थापनैव द्रव्यमपि । एवं नामद्रव्यनिक्षेपौ स्थापना निक्षेप एव ।
१ अविविक्तस्थान भा० ॥ २°वर्मता भा० । वर्त्मता य० ॥ ३ एवकारार्थे भा० ॥ ४ “अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १३ ॥.."संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः ॥१०॥ स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् ।"-पा० शिक्षा ॥ “योऽयं शब्दः......... स्थानकरणाद्यनुगृहीतो विवर्तते ।"-वाक्यप० स्ववृत्ति १।४७ ॥ ५°दिनास्था य०॥ ६ स्थानकरणजन्मानः इति पाठोऽप्यत्र समीचीनो भाति ॥ ७ मुद्गम्या भा० । पदभ्या य०॥ ८चेतयों प्र०॥ ९°व्यक्षेस्तथ भा० । व्यक्षेपस्तथा य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org