________________
स्थापनाद्रव्यार्थ नयस्वरूपम् ]
द्वादशारं नयचक्रम् ।
५९९
तत्रात्मवदतथाभूतस्य तथात्वापादनात् तदेकता चित्रकर्मादिदेवदत्तस्य । यथा च जीवत्वादि पूर्वरूपम् । यथा च जीवत्वं तत्पूर्वम् आकारत त्त्वैकत्वात् । यदि स्थापनया चित्रादि स्थाप्यं देवदत्तोद्देशेन देवदत्तखरूपमापद्यते तथा देवदत्तोऽपि कस्मान्न चित्रादिस्वरूपमापद्यते । तथेन्द्रतामक्षादिरापद्यते नाक्षतामिन्द्र इत्यत्र को विशेषहेतुः ?
नन्वसावपि इन्द्रनामगोत्रकर्मस्थाप्यत्वात् स्थापनानिक्षेपात्मकतां नातिवर्तते । अतो युज्यत एवैतत्, न न युज्यते ।
अथवा स्थापनाया निक्षेपः स्थापनानिक्षेपः । स्थापना आकारो वस्त्वात्मा निक्षिप्यते स्वात्मनि घटादिः कुम्भकारादिभिः, मुमुक्षुभिरात्मा । तथेन्द्रोऽपीन्द्रा
परस्परतो भेदो धर्माभेदादित्यत आह-यथा च जीवत्वं तत्पूर्वं जीवपूर्वं पारिणामिकेन चैतन्येन 10 सर्वपरिणामाभिमुखेनाऽव्यक्ताकारमसद्भावस्थापनं सततं तिष्ठत् स्थाप्यते तथा पुद्गलानामपि वर्णादिपारिणामिका भावा असद्भावस्थापनेन महाश्वेत- सिन्दूरादिवर्णकजातम्, अतस्तयोरेकता, कस्मात् ? आकारतत्त्वैकत्वात् बुद्ध्या [ss] क्रियमाणत्वेनाभेदात् तत्परिणामात्मकत्वात् तथा तथा स्थाननियमादभेद इति ।
1
अत्र चोदयति-यदि स्थापनयेत्यादि । अयमभिप्रायः - यदि स्थाप्याकारानाकार वस्तुनोऽतिरिक्तस्योद्देर्रेयस्य देवदत्तस्य स्वरूपं चित्रादि स्थाप्यवस्तु आपद्यते ततस्तद्वश्चित्रादेः स्थाप्यस्य स्वरूपं कस्माद् देव - 15 दत्तादिरुद्देश्योऽर्थो नापद्यते, तुल्ये स्थापयितृवशाद् व्यतिरिक्तार्थस्वरूपापत्तिहेतुत्वे स्थापनायाः ? तथा इन्द्रतामक्षादिरापद्यते नाक्षतामिन्द्र इत्यत्र को विशेषहेतुः ? इति सद्भावासद्भावस्थापनयोश्चोद्यमेतत् । अत्रोच्यते - नन्वसावपीत्यादि यावद् न न युज्यते । नैतदनिष्टम्, इष्यत एवैतत् अतो न दोषः । यथा चित्र - लेप्यादि स्थाप्यमिन्द्रोद्देशेन इन्द्रो भवति तथेन्द्रोऽप्यक्षादिर्भवति । अपि च सोऽपीन्द्रनाम - ४००-२ गोत्रकर्मस्थाप्यत्वात् स्थापनानिक्षेपात्मकतां नातिवर्तते, 'पुरुषाद् नामकर्म नामकर्मणो देवदत्तादिता' 20 इत्यादिग्रन्थेन भावितत्वात् । तस्मात् स्थापनानिक्षेपत्वे सत्येव जीवकर्मणोर्योगवादिपरिणामवैचित्र्यं व्यक्ताकारवैश्वरूप्यमभिहितचित्रलेप्यादिदृष्टान्तसाधर्म्यं नातिवर्तते । अतो युज्यत एवैतत् न न युज्यते, द्विः प्रतिषेधस्य प्रकृत्यापत्तेः । एवं तावत् ' स्थापनया निक्षेपः' इति तृतीयासमासे स्थापाना निक्षेपद्रव्यार्थनयव्यापिता दर्शिता ।
अथवेत्यादि षष्ठीसमासेऽपि दर्शयितुमाह । स्थापनाया निक्षेप इति समासः कर्मणि षष्ठीं 25 कृत्वा । किं कर्म ? स्थापनैव । का सा स्थापना १ आकारः । कोऽसावाकारः ? वस्त्वात्मा । स एव निक्षिप्यते, क ? स्वात्मनि । कः ? घटादिः । केन ? कुम्भकारादि [भि]रिति व्याख्यातः षष्ठीसमासार्थोऽपि वस्तुतः प्रस्तुते व्यापकत्वप्रदर्शनार्थमाह- मुमुक्षुभिरात्मा स्वात्मनि निक्षिप्यते इति वर्तते, कीदृश इति चेत्, कर्मामिश्रः स्थाप्यते स्वाकारेऽविविक्तः सन् विविक्तरूपत्वेन । तथेन्द्रोऽपी
॥
१णामभिमु प्र० ५ दृश्यतां पृ० ५९८ पं० ४ ॥ प्रस्तुतो यपिकत्व य० ॥
5
Jain Education International
४ शस्य प्र० ॥
२ महाश्वेता प्र० ॥ ३ तथा स्थाननियमा भा० ॥ ६त्म प्र० ॥ ७ (कुम्भकारादिनेति ? ) ॥ ८ 'प्रस्तुत पिकत्व भा० । ९ (कर्ममिश्रः ? ) ॥
For Private & Personal Use Only
www.jainelibrary.org