________________
५९८
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
त्वात् तदाकारतो देवदत्त एकः सर्वभेदोऽपि एवं चित्रलेप्यपुस्ता दिभेदोपपत्तावपि तथा तिष्ठतस्तस्य तस्य स्थानस्य प्रयोजनात् सा स्थापना, तत्कर्मणस्तत्त्वापत्तेः । स्थापनया निक्षेपः स्थापनानिक्षेपः, स्थापना सद्भावासद्भावाभ्यां वस्तु निक्षिपति । यथा पुरुषाद् नामकर्म नामकर्मणो देवदत्तादिता तथा च चित्रकरादिः "
15 इत्यादिर्नामभेद:, क्रियायाः क्षायोपशमिकवीर्यात्मकत्वाद् भावभेद चोपपन्नः, विविधशब्दादेवमादिभेदा गृहीताः । सत्यां चैवं द्रव्य - नाम - भावभेदोपपत्तौ देवदत्ताकारस्याभिन्नत्वात् तदाकारतत्त्वो देवदत्त ऐकः सर्वभेदोऽपि नान्योऽन्यश्च आकारपरमार्थत्वाभेदादिति भावयित्वा तेनोदाहरणेन दाष्टन्तिकेषु चित्रादिष्वपि भावयितुमाह - एवं चित्र - लेप्य-पुस्तादिभेदोपपत्तावपि तथा तिष्ठतस्तस्य ३९९-२ तस्य स्थानस्य प्रयोजनात् सा स्थापना । किं कारणम् ? तत्कर्मणस्तत्त्वापत्तेः, चित्रकरकर्मणस्तै10 दिन्द्रत्वापत्तेः पीथकादिद्रव्य- पाचकादिनाम-भावभेदकर्मणां देवदत्ताकारत्वापत्तिवदिति व्यापिता स्थापनायाः । स्याद्वादी तु सद्भावासद्भावद्रव्यनामभावादिभेदतत्त्वं वस्तु वाञ्छन्नेवं ब्रूते । स्थापनाद्रव्यार्थैकान्तवादिनस्तु [न] किञ्चिदाकारव्यतिरिक्तमस्ति, अतो भ्रान्तिमात्रं भेदाः ।
1
एषा च स्थापना निक्षेपानुयोगद्वारान्तर्गतार्थेऽभिहिता । तस्मात् 'स्थापनया निक्षेपः' इति तृतीयासमासे ‘स्थापनानिक्षेपः' इत्यस्य व्याख्यानार्थमाह - स्थापना सद्भावासद्भावाभ्यां वस्तु निक्षिपति | सद्भावेना15 सद्भावेन च स्वात्मनि वस्तु स्थापयतीत्यर्थः । तद्भूतात्मकं वस्तु तद्भावमाकारात्मानमापादयति आत्मानमात्मनेत्युक्तं भवति । किमिव ? यथा पुरुषाद् नामकर्म, प्रागमूर्तात्मा लक्षणतः सन्नात्मा कर्मत्वेन मूर्तात्मना परिवर्तते आभवति । ततश्च नामकर्मणो देवदत्तादिता, तस्मादुपातात् कर्मणो नारक-तैर्यग्योन-देवदत्ताख्यमनुष्यत्वापत्तिरेष दृष्टान्तः । दाष्टन्तिकः तथा च चित्रकरादिरित्यादि । तद्व्याख्या–तत्रात्मवदतथाभूतस्य तथात्वापादनात् तदेकता चित्रकर्मादिदेवदत्तस्येति यथा 20 जीव - कर्मणोरन्योन्यात्मापत्त्या " भिन्नाभिमतयोरेकत्वापत्तिराख्याता तथा चित्रगतवर्णकादिदेवदत्तत्वापत्तिरपीत्यर्थः । अथवाभ्युपगच्छामो जीवकर्मणोरपि भेदम्, एक एव जीवाख्योऽर्थः परिणामिकजीवभव्या४००-१ भव्यत्वादिभावापत्तिपरिणामः क्षायोपशमिकौयिका दिपरिणामश्चैकद्वित्रिचतुरिन्द्रियतिर्यङ्नारकादिः सर्व एव देवदत्तः कर्मात्मैक्यादिति दृष्टान्तः । महाश्वेतत्वादिदेवदत्ताकाराभेदश्चित्रेऽपीति दाष्टन्तिकोऽर्थः । तद् दर्शयति—यथा च जीवत्वादि पूर्वरूपमित्यादि दण्डको गतार्थः । अथवा जीवस्य कर्म *चाभेद क्षायोपशमिकौदयिका दिपृथक्परिणामाभावादेक एव पारिणामिको भावः, अतस्तयोरपि नास्ति
25
१ एकसर्व ० ॥ २ तेनों प्र० ॥ ३ स्तदित्वापत्तेः य० । स्तदिदंत्वापत्तेः भा० । भा० पाठोऽपि समीचीन एव भाति, ‘तदिदन्त्वापत्तेः' तस्य इदन्त्वापत्तेरित्यर्थो भाति । अत्रार्थेऽरुचौ तु 'तदिन्द्रत्वापत्तेः' इति पाठः कल्प्यः ॥ ४ पीथकाद्रव्य ं प्र० । दृश्यतां पृ० ५९७ पं० २८ ॥ ५ विस्तरेणैत जिज्ञासुभिरनुयोगद्वारसूत्रादयो ग्रन्था विलोकनीयाः ॥ ६ अततद्भूतात्मकं प्र० ॥ ७ दृश्यतां पृ० ५९९ पं० २० ॥ ८ त्ताकर्मणो प्र० ॥ ९ पत्तिरेव प्र० । १० भिन्नाभिन्नाभिमतयो भा० ॥ ११ औपशमिकक्षायिक भाव मिश्रच जीवस्य स्वतत्त्वमौदयिकपारिणामिको च । २।१। जीवभव्याभव्यत्वादीनि च २|७|” - तत्त्वार्थसू० । विस्तरार्थिभिरेतद्वयाख्या विलोकनीयाः ॥ १२ ** एतच्चिह्नान्तगतः पाठो य० प्रतौ नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org