________________
स्थापनाद्रव्यार्थनय स्वरूपम् ]
द्वादशारं नयचक्रम् |
५९७
परिसमापनमभिव्याप्तिः प्रस्तुतस्य रूपस्य तेन आकरणम्, तस्मिन् स्थानं मर्या - दया वा । मर्यादा अन्यरूपविलक्षणता । अस्य स्थानस्य प्रयोजना स्थापना । ईषत् तिष्ठत ऐकाग्र्येण स्थानम्, स्वयं तिष्ठतोऽसद्भावेन सर्वत्र विशेष्य स्थाप्यमानं स्थानम्, अनिश्चितैकक्रियप्रयोज्यत्ववत् असद्भावेन वा अतद्भूतरूपेऽपि स्थूणेन्द्रवत्, तथाऽक्षादिषु ।
तस्माद् यथा बालादिविविधद्रव्यनाम भावभेदोपपत्तौ देवदत्ताकारस्याभिन्नकरणमाभवनमित्यर्थः । तंत्राभिविधिं व्याचष्टे - अभिविधिः परिसमापनमभिव्याप्तिः कस्य ? प्रस्तु - ३९८-२ तस्य रूपस्य स्वभावस्य वस्त्वात्मनः तेन अभिविधिना प्रस्तुतरूपपरिसमापनेन आकरणमाभवनम्, तस्मिन् स्थानम्, मर्यादया वेत्यनर्थान्तरं योजयति । का मर्यादा ? अन्यरूपविलक्षणता रूपान्तरव्यावृत्तिर्नियम इत्यर्थः, न ह्यनाकारं किञ्चिदस्ति, सर्वमाकारपरिग्रहेण भवति तिष्ठतीति स्थानमाकारो 10 मर्यादाभिविधिभ्याम् । अस्य स्थानस्य स्वतत्रस्थातृसमवायिनः प्रयोजके हेतुकर्तरि विहितो णिच्, तस्य भावः क्रिया प्रकर्षयोजना प्रयोजना प्रयोजकत्वं हेतुकर्तृत्वं स्थापना । किमुक्तं भवति ! ईषत् तिष्ठतो विप्रकीर्णरूपस्थानस्य स्थातुरैकाग्र्येण स्थानं तदैकाय्याधानम् । तद् व्याचष्टे - स्वयं तिष्ठतोऽसद्भावेन सर्वत्रेति अक्ष-वराटकाद्यसमाप्ताभिप्रेताकारं स्वयमेव तिष्ठदसद्भावेन तिष्ठति, तत्तु विशेष्य स्थाप्यमानं परिसमाप्तं स्थानं स्वविशिष्ट आकारेऽभिव्याप्य तिष्ठति 'इन्द्रोऽयं स्कन्दः' इत्यादि रूपान्तरव्यावृत्त्या मर्यादया 15 नियतं वेति । किमिव ? इत्यत आह- अनिश्चितैकक्रिय प्रयोज्यत्ववत्, यथा पचि-पठि-गम्यादिक्रियावधारणाभावेनानिश्चितक्रियं स्वतन्त्रं कर्तारं हेतुकर्ता ' पच पच' इति नियुङ्क्ते पचावेव स्थापयति क्रियान्तरव्यावृत्त्या तत्रैव स्थाने पंच्याकारे नियमयति से स्थापनानियमः, एवं सर्वत्राऽऽकारे सद्भावस्थापनया नियम : प्रस्तुतरूपस्य परिसमाप्त्या रूपान्तरविलक्षणतया मर्यादया वेति स्थानार्थः । तं व्याख्याय स्थापनार्थो: व्याख्यातः शब्दः व्युत्पत्त्या । एवं तर्हि असद्भावस्थापनाया नियमयितुरभावाद् न व्यापिता लक्षणस्येति 20 चेत्; 'न' इत्युच्यते, सुखप्रतिपाद्यत्वादादौ सद्भावस्थापना इत्थं प्रतिपादिता, तत्समानं प्रतिपादनमितरस्यामपीत्यत आह-असद्भावेन वा अतद्भूतरूपेऽपि स्थूणेन्द्रवत्, तदेव हि वस्तु व्यक्ताव्यक्ताकारपरिणामं स्वयं तथा तथा तिष्ठद् "विशेष्याभीष्टे स्थाप्यते यथा स्थूणैवासंस्कृतावस्थायामप्यव्यक्ततरावयवाकायां विशेष्यमाणा चित्रावस्थां व्यक्तावयवाकारामप्रत्यासीदन्ती 'इन्द्र:' इति स्थाप्यते तस्मात् सापि स्थाने नियम्यते, अतो व्याप्येव लक्षणम् । एतेनाव्यक्ततरावस्था व्याख्यातेत्यतिदिशति तथाऽक्षादि - 25 विति गतार्थम् ।
३९९-१
तस्माद् यथा बालादीत्यादि उक्तोपपत्तिनिगमनं सभावनमुदाहरणं यावद् देवदत्तः । बालत्वस्य कारणद्रव्याणि "पीत्थकादीनि युवत्वादीनां चान्यान्यानीति द्रव्यभेद उपपन्नः, तथा पाचको लावकोऽध्यापक
"
प्र० ॥
१ तत्राभिविध्याचष्टे प्र० ॥ २ रूपस्य भावस्य य० ॥ ३त्यनर्थावरयोजयति प्र० ॥ ४ लक्षणंना ५ स्थापनादि किमुक्तं प्र० ॥ ६ स्थातुरेकाग्रयेण स्थानं तदेकाग्र्याधानम् प्र० ॥ ७ मान परि प्र० ॥ ८ पश्वाकारे भा० । पश्चाकारे य० ॥ ९ सा प्र० ॥ १० ( स्थापनाया ? ) । दृश्यतां पृ० ५९७ पं० २० ॥ ११ विशेषीभीष्टे प्र० ॥ १२ स्थूणवा प्र० ॥ १३ 'काराया विशि° प्र० ॥ १४ पथकादीनि प्र० । ( पीच्छकादीनि ? पीथकादीनि ? ) । दृश्यतां पृ० ५९८ पं० १० ॥
Jain Education International
For Private & Personal Use Only
5
www.jainelibrary.org