________________
५९६
न्यायागमानुसारिणीवृस्यलकृतं [अष्टम उभयनियमारे एवं चैतच्छन्दनयस्य दर्शनम्-यथार्थाभिधानं शब्दः [ तत्त्वार्थभा० १॥३५ ], तथा नामस्थापनाद्रव्यभिन्नलिङ्गादिवाच्येष्टाकरणाद् भावयुक्तवाची शब्दः [ ] इति । ____ व्यवहारान्तःपातिस्थापनावाच्येष्टाकरणप्रदर्शनार्थ तु स्थापनाद्रव्यार्थखरूपमेव तावदाख्यायते। । स्थीयते यस्मिंस्तत् स्थानम् । केन स्थीयते? विशेषावचनात् सर्वगतिरितिक च स्थीयते? आकारे स्थीयते। मर्यादया करणमभिविधिना वा आकारः। अभिविधिः
एवं चैतदित्यायुक्तार्थोपनयः । तत्र शब्दनयस्य एतद्दर्शनम्-यथार्थाभिधानमेव न्याय्यम् । लक्षणं च यथार्थाभिधानं शब्दः [ तत्त्वार्थभा० १॥३५] । तथा नाम-स्थापना-द्रव्य-भिन्नलिङ्गादिवाच्येष्टाकरणाद् भावयुक्तवाची शब्दः [
] इति च लक्षणान्तरम् । तत्र विभागेन द्रव्यद्रव्यार्थवाच्यं 10 पूर्वनयेषूक्तमिष्टं न करोतीति नैगमादिगोचरमनेनापि व्यावर्तितमेव शब्दनयेन । व्यवहारगोचरनामद्रव्यार्थ३९८-१ वाच्यमपीष्टं न करोतीत्यधुना व्यावर्तितम् । ऋजुसूत्रस्यार्थपर्यायस्य गोचरं च भिन्नलिङ्गादिवाच्यमिष्टं न
करोतीति यथा वचनादि साधु इति मन्यमानः शब्दनयः प्रवर्तते युक्त्या च यथा तस्य मतं शब्दस्य तथा प्रकारान्तं प्रदर्शितम् । तथाचार्यसिद्धसेनोऽप्याह
नाम ठवणा दविएत्ति एस दवट्टियस्स णिक्खेवो।
भावो उ पजवट्ठियपरूवणा एस परमत्थो ॥ [सन्मति० १६] त्ति । __अधुना सामान्यभेदं स्थापनाद्रव्यार्थमव्यावर्तितं व्यावर्तयितुकामः सम्बन्धयति-व्यवहारान्तःपातिस्थापनावाच्येष्टाकरणप्रदर्शनार्थ तु, 'व्यवहारनयान्तःपातिनी स्थापना, तद्वाच्यमिष्टं न करोति' इत्येतत् प्रदर्शयिष्यते, स्थापनाद्रव्यार्थस्वरूपे चाविदिते न शक्यं तत् प्रदर्शयितुमिति स्थापनाद्रव्यार्थस्वरूपमेव तावदाख्यायते । तत्र स्थानक्रियायाः कर्तुस्तिष्ठतः प्रयोजके समवेता ण्यन्तवाच्या 20 ऐयासश्रन्थो युच् [पा० ३।३।१०७ ] इति लक्षणात् क्रिया स्थापना । तां वक्तुकामः स्थानमेव ताँवद् व्याचष्टे-स्थीयते यस्मिंस्तत् स्थानम् , भाव-करणा-ऽधिकरण-कर्मसाधनेष्वधिकरणं तावदाह। वक्ष्यमाणार्थसम्बन्धाद् भावः क्रिया स्थानम् , का तिष्ठता "स्थीयते, अतस्तन्निर्णयार्थ पृच्छति-केन स्थीयत इति । तत्प्रतिवचनम्-विशेषावचनात् सर्वगतिरिति । इतिशब्दो हेत्वर्थे, यस्मात् 'सचित्तस्य देवदत्तादेरचित्तस्य वा घटादेः स्थानम्' इति विशेष्यानुक्तमतः सामान्येन येन केनचित् स्थातव्यम् । 'यस्मिन्' इत्यधिकरणस्योक्तस्य निर्णयार्थ पृच्छति-कच स्थीयत इति । उच्यते-आकारे स्थीयते । और मर्यादाभिविध्योः, मर्यादया करणमभिविधिनाभिव्याप्त्या वाऽऽकारः, भूकृमोः सर्वधात्वर्थव्यापित्वादा
१ पृ० ५७३ ॥ २ पृ० ५८९ पं० ९ ॥ ३ °स्यार्थस्य गोचरं य० ॥ ४ वाचनादि प्र० ॥ ५ (तथा प्रकारान्तरेण?) (तथाप्रकार तत् ?)॥ ६ (तथाचाचार्य?)॥ ७°पनाद्भाव्यनिष्ट न करोति प्र०॥ ८ पृ. १९५ पं० ६ टि. १॥ ९ "ण्यासश्रन्थो युचु ।३।३।१०७॥ अकारस्यापवादः । कारणा । हारणा । आसना । श्रन्थना। घट्टिवन्दिविदिभ्यश्चेति वाच्यम् । घटना । वन्दना । वेदना । इषेरनिच्छार्थस्य । अन्वेषणा । परेर्वा । पर्येषणा, परीष्टिः।"-पा०सिद्धान्तकौमुदी ॥ १० यावद प्र०॥ ११ पृ. ५९७ पं० १२॥ १२ स्थीयतेतस्त १३ "आङ् मर्यादाभिविध्योः ।।१।१३॥” इति सूत्रमपि पाणिनीयव्याकरणेऽस्ति ॥ १४ व्याप्ताव्याकारः प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org