________________
वसुरातमत
द्वादशारं नयचक्रम् ।
यत्तु वसुरातो भर्तृहरेरुपाध्यायः सं च स्वरूपानुगतमर्थमन्तरविभागेन संनिवेशयतीत्याह तेन द्वावपि शब्दोऽर्थश्चाभ्युपगतौ । न तु स तेन शब्दनयेनाभिहितानन्यान्यलिङ्गादिसामानाधिकरण्याभावादिदोषान् परिहर्तुं शक्नोति । ननु 'शब्दानुगतार्थमन्तरविभागेन' इति ब्रुवता अर्थतन्त्रः शब्दोऽभिहितः, न शब्दतन्त्रोऽर्थः । ततोऽर्थतन्त्रत्वाच्छब्दप्रवृत्तेः तदवस्था दोषाः ।
यथा च रूपादय एकैकभवनात्मका न पर्यायान्तरमपेक्षन्ते विशेषत्वात् तथा पुष्यतारानक्षत्रादिपुंलिङ्गादयः परस्परविरोधित्वाद् विशेषाणामिति कुतः सामानाधिकरण्यम् ?
यत्तु वसुरातो भर्तृहरेरुपाध्यायः 'सं च स्वरूपानुगतम्' इत्याद्याह तेन द्वावपि शब्दोऽर्थश्चाभ्युपगतौ, सम्बन्धस्य द्विष्ठत्वात् सम्बन्धिनोरभ्युपगतिः । प्राच्यादत्यन्धदर्शनात् तैमिरिक- 10 दर्शनमिदं तत्त्वदृष्टिं प्रत्यासीदति, न दूरापयातम् , अभिजल्पस्वरूपं तु पुनस्तेनापि 'निरस्तम् । 'किञ्च न तु स तेनेत्यादि । एतस्मिन्नपि दर्शने यथा पुष्यशब्दार्थयोरन्तः सन्निवेशनमविभागेन चलिङ्गवचनकारकादिभेदयोरेवमिष्टाल्लिङ्गादेरन्यान्यलिङ्गादीनि अन्यशब्दार्थगतान्यपि सन्निवेशयिष्यति स इति सामान्योपसर्जनविशेषप्रधानवादिना शब्दनयेनाभिहितांस्तत्सामानाधिकरण्याभावादिदोषान् परिहर्तुमशक्त एव तथापि । कस्मात् ? ननु शब्दानुगतेत्यादि । 'स्वरूपमनुगतोऽर्थः, तमर्थमन्तरविभागेन' इति ब्रुवता 15 अर्थतत्रः शब्दोऽभिहितो [न] शब्दतत्रोऽर्थः, यद्यर्थमनुगतः शब्दोऽन्तरविभागेन सन्निवेश्येत ततः शब्दप्रेरितत्वाच्छब्दावधारणादर्थो व्युदस्तः स्यात्, किन्तु तद्विपरीतं शब्दावधारणव्युदसनादर्थप्राधान्याव-३९०२ लम्बनं कृतम् । ततोऽर्थतन्त्रत्वात् अर्थप्रधानत्वाच्छब्दप्रवृत्तेः, प्रवर्तको हि शब्दस्यार्थः, तस्मात् तदवस्था दोषाः । शब्दप्राधान्यावधारणे तु परिहृताः स्युः । तस्मादुक्तवदेव विशेषप्राधान्यवादेऽर्थान्तरनिरपेक्षाणां पुष्य-तारा-नक्षत्रादिविशेषाणां नास्ति सामानाधिकरण्यम् , अतो विशेष एक एव व्यवस्थितः। 20
एषा तावद् वस्तुनोऽर्थपर्यायेषु भावना कृता शब्दगोचरातिक्रान्तेषु, व्यञ्जनपर्यायेष्वनेनातिदेशः क्रियते-यथा चेत्यादि । रूपादयो युगपद्भाव्यभिमता अप्येकैकभवनात्मका न पर्यायान्तरमपेक्षन्ते विशेषत्वादिति दृष्टान्तः । पुष्य-तारा-नक्षत्रादिपुंलिङ्गादयः परस्परविरोधित्वाद् विशेषाणामिति । दार्टान्तिकः । एकमेकमेव भँवनं भवति न द्वितीयमिति कुतः सामानाधिकरण्यम् ? पुष्यः पुमान् स कथं स्त्री भवतीति 'तारा' इति, नपुंसकं वा 'नक्षत्रम्' इति ? एवं वचन-काल-कारक-पुरुषोपग्रहा- 25 दिभेदा न परस्परापेक्षा विशेषैकभवनादिति भावनीयम् ।
१ पृ० ५८१ पं० ७ ॥ २ निरस्त प्र० । (न निरस्तम् ? ?) ॥ ३ (किञ्चान्यत् स तेनेत्यादि ? ?) (किञ्च, वसुरातेनेत्यादि ? ? ?) ॥ ४ सलिङ्ग प्र०॥ ५°ण्यादिभावादि प्र०॥ ६वादिर्थान्तर भा० । वादिनार्थान्तर य० । (°वादिनोऽर्थान्तर° ?)॥ ७ एक भा० प्रतौ नास्ति ॥ ८ भवनं भवनं भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org