________________
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे प्रवृत्तिहेतुः श्रुत्यन्तरस्य भवितुमर्हति । शब्दार्थयोरेकीभूयान्तर्वर्तमानयोः कान्या श्रुतिः श्रुत्यन्तरमित्युच्येत ? केन च विशेषेण तत्प्रवृत्तिहेतुरुच्यते ?
अस्ति विशेषः । तद्यथा-घटार्थप्रत्यायनाथ ध्वन्यात्मकशब्दोत्पत्तिकार्यदर्शनात् तदनुरूपः कारणभूतोऽनुमीयते घटशब्दः, नार्थः तद्विरूपत्वात् । तस्माच्छुतिः 5 श्रुत्यन्तरस्य प्रवर्तिका श्रुतित्वात् , नार्थो नाप्यात्मा।
_ ननु तस्यापि श्रुत्यन्तरस्य श्रुतित्वात् पूर्वश्रुतिवदर्थप्रवर्तितः शब्दः, अर्थाभावे प्रयोगानर्थक्यात् । आभिमुख्येन जल्पत्यर्थं शब्दः, तमर्थोऽभिजल्पयति, तद्विषय एवाभिजल्प इत्युच्यते । एवं तावद् भर्तृहर्यादिदर्शनमयुक्तम् ।
यथासङ्ख्यं करण-कर्मत्वाच्छब्दार्थयोः । चेतनात्मत्वात् त्वात्मा स्वतन्त्रः, स्वातत्र्यात् कर्ता, स 10 'प्रवृत्तिहेतुः श्रुत्यन्तरस्य भवितुमर्हति । यथोक्तम्-आत्मा बुझ्या समर्थ्यार्थान् [पा०शिक्षा० ॥ ६ ॥] इत्यादि । इदं चायुक्तं 'श्रुत्यन्तरम्' इति विभज्य कथनम् , शब्दार्थयोरेकीभूयान्तर्वर्तमानयोः कान्या श्रुतिः 'श्रुत्यन्तरम्' इत्युच्येत ? तस्माद् विशेषाभावे कथमविभ्रान्तैरविभक्तः सन् विभक्तः शब्दात्मा उच्यते ? केन च विशेषेण ] श्रुत्यन्तराभावेन तत्प्रवृत्तिहेतुरुच्यते ? चैतन्य-स्वातव्यकृतं कर्तृत्वविशेष
मन्तरेण श्रुत्यन्तरासम्भवे कस्य प्रवृत्तिहेतुत्वम् ? 15. अत्राह-अस्ति विशेषः । तद्यथा-घटार्थप्रत्यायनार्थमित्यादि । कारणानुरूपत्वात् कार्याणां
ध्वन्यात्मकशब्दोत्पत्तिकार्यदर्शनादन्तर्निविष्टोऽपि तदनुरूपः कारणभूतोऽनुमीयते शाल्यकुरदर्शनाच्छालिबीजवद् घटशब्दः, नोर्ध्वग्रीवादिलक्षणोऽर्थः तद्विरूपत्वात् । उपादानं च श्रुतेरनुरूपा श्रुतिरेव युक्ता, नार्थो घटादिरूप्यात् । तस्माच्छ्रुतिः श्रुत्यन्तरस्य प्रवर्तिका नार्थो नाप्यात्मेत्ययं विशेष इति ।
अत्रोच्यते-ननु तस्यापि श्रुत्यन्तरस्येत्यादि । एतदप्यनुमानं प्रतितर्कबाध्यम् , विज्ञानसन्निविष्ट20 घटार्थप्रवां सा श्रुतिः श्रुतित्वात् । ननु प्रागुक्तम्-अर्थप्रत्यायनार्थ शब्दः प्रयुज्यते न वायसवासितादिवद् निरर्थकः 'क्रीडितमेवास्तु' इति 'वेत्यादि । तस्माच्छृतित्वात् पूर्वश्रुतिवदर्थप्रवर्तितः शब्दः,
अर्थाभावे प्रयोगानर्थक्यादिति । ३९७१ निरुक्त्यर्थोऽप्यभिजल्पस्य तथा घटते नान्यथा, जप जल्प व्यक्तायां वाचि [पा० धा० ३९७, ३९८ ],
आभिमुख्येन जल्पत्यर्थं शब्दः, तं प्रयुङ्क्तेऽर्थः अभिजल्पयति, तद्विषय एवाभिजल्प इत्युच्यते, यद्या25 भिमुख्येनावस्थितमर्थ जल्पति ततो जल्पः शब्दः, सोऽर्थो विषयोऽस्य तद्विषय एवाभिजल्पः शब्दः, एतदुक्तं
भवति-अर्थविषयः शब्दः शब्दार्थकल्पनायां युक्ततरः स्यात् , अर्थोत्थापितशब्दाभिजल्पत्वपक्षेऽभिजल्पशब्दार्थपरिकल्पना युक्ततरा स्यात्, न तु त्वत्परिकल्पिते शब्दप्रेरिते । एवं तावद् भर्तृहयादिदर्शनमयुक्तम् ।
१ प्रतिपत्तिहेतुः प्र०॥ २ पृ० ५६५ पं० १४ ॥ ३°भूतया य० ॥ ४ 'श्रुत्यन्तराभावे तत्प्रवृत्ति" इति चारुतर भाति ॥ ५ तादिन्निरर्थकः प्र०॥ ६ चेत्यादि प्र० । दृश्यतां पृ० ५९१ पं० ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org