________________
५९३
भर्तृहरिमतनिरासः]
द्वादशारं नयचक्रम् । एवमेव च दर्शनोत्प्रेक्षाभ्यामित्यादि शब्दाद् बहिरर्थसिद्धौ घटते । इतरथा किं दर्शनम् ? कोत्प्रेक्षा?.. कुतोऽभिजल्पो हेयः । __ श्रुत्यन्तरप्रवृत्तिहेतुरित्येतदपि त्वत्कल्पिताभिजल्पे नैवोपपद्यते । ध्वनिः शब्दार्थाभ्यां न प्रवर्येत अकर्तृभ्यां करणकर्मभ्याम् । चेतनात्मत्वात् त्वात्मा खतन्त्रः कर्ता
10
इत्येतदप्यस्मन्मतमेवानुधावति । यस्तु प्रयुङ्क्ते कुशलो विशेषे [पा० म० भा०] इत्यादिक्रमेण गोशब्दस्य । सानादिमति साधुत्वं सिद्धेऽर्थे शब्दे सम्बन्धे च पृथक, गोण्यादावसाधुत्वं रूढितः, अर्थविशेषविवक्षायां गोण्या आववने साधुत्वमित्यादि च नान्यथा घटते । तस्य च साध्वसाधुत्वज्ञानस्य प्रयोजनं धर्मनियमः सिद्ध शब्दार्थसम्बन्धे [पा० वा. ] इत्यादिरुक्तः सोऽपि पृथगर्थसिद्धिं सूचयति । लोकेनाभिधेयेऽर्थे शब्दाः प्रयुक्ताः प्रयोजनेन वा, तत्रार्थस्य पृथक् सिद्धौ शब्दस्य च तद्विषयस्य धर्मार्थः प्रयोगनियमः साधोः स्वार्थः शास्त्रेण क्रियते भक्ष्याभक्ष्यनियमवदिति । तस्मान्नाभिजल्पोऽर्थः।।
एवमेव चेत्यादि एतस्यैव कारिकात्रयाभिहितस्यार्थस्य वर्णकदण्डकोऽपि दर्शनोत्प्रेक्षाभ्यामित्यादि, 'प्रधानपुरुषेश्वरादिमयम्' इत्यादिदर्शनानि शब्दाद् बहिरर्थसिद्धौ घटन्ते, वस्तुन्यभिन्ने घटादौ बाह्ये तु पुरुषाणां चोत्प्रेक्षा नित्यानित्यादित्वेन नियमेन सद्भावे, नान्यथा । इतरथेत्यादि, अभिजल्पा-ऽथैक्ये नियतबाह्यार्थाभावे प्रधानादिदर्शनासम्भवः । तत्र किं दर्शनम् ? नास्तीत्यर्थः । कोत्प्रेक्षा? इत्यादि तद्वन्थानुसारेणासम्भवं सोपपत्तिकं दर्शयति यावत् कुतोऽभिजल्पो हेयः ? इति सभावनं गतार्थम् । 15 अर्थाभावे न घटते, अर्थसद्भावे युज्यत इति पिण्डार्थः ।
किश्चान्यत् , 'Qत्यन्तरप्रवृत्तिहेतुः' इत्येतदपि त्वत्कल्पिताभिजल्पे नैवोपपद्यते, अस्मदिष्टे तूपपद्यते । तद्यथा-श्रुतेरन्या श्रुतिः श्रुत्यन्तरम् , अन्तरेकीभूताभिजल्पपृथग्भूतो ध्वनिर्व्यवहारानुपाती ३९६-२ स्यात् , स त्वदिष्टाभ्यां शब्दार्थाभ्यां न प्रव]त अकर्तृभ्यामचेतनाभ्यां करण-कर्मभ्याम् ,
१ पृ. ५७३ पं. ५, पृ० १२८ पं० २१॥ २ पृ० १२८ पं० १८, पृ० ५७३ पं० २५, टिपृ० ५७ पं० २२२६ ॥ ३ टिपृ० २२ पं० ६ । “कथं पुनरिदं भगवतः पाणिनेराचार्यस्य लक्षणं प्रवृत्तम् ? सिद्ध शब्दार्थसम्बन्धे । सिद्धे शब्दे अर्थे सम्बन्धे चेति ।......कथं पुनर्जायते सिद्धः शब्दोऽर्थः सम्बन्धश्चेति ? लोकतः ।....."यदि तर्हि लोक एषु शब्देषु प्रमाणं किं शास्त्रेण क्रियते ? लोकतोऽर्थप्रयुक्त शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते । किमिदं धर्मनियम इति । धर्माय नियमो धर्मनियमः । धर्मार्थो वा नियमो धर्मनियमः। धर्मप्रयोजनो वा नियमो धर्मनियमः”।-पा० म० भा० १1१1१॥ ४भक्ष्याभक्ष्यानियम प्र०। (भक्ष्याभक्ष्यादिनियम!)। "लोके तावदभक्ष्यो ग्राम्यकुकुटः, अभक्ष्यो ग्राम्यसूकर इत्युच्यते । भक्ष्यं च नाम क्षुत्प्रतिघातार्थमुपादीयते। शक्यं चानेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम् । तत्र नियमः क्रियते-इदं भक्ष्यमिदमभक्ष्यमिति । तथा खेदात् स्त्रीषु प्रवृत्तिर्भवति । समानश्च खेदविगमो गम्यायां चागम्यायां च । तत्र नियमः क्रियते-इयं गम्या इयमगम्येति ।......... एवमिहापि समानायामर्थावगतौ शब्देन चापशब्देन च तत्र धर्मनियमः क्रियते-शब्देनैवार्थोऽभिधेयो नापशब्देनेति । एवं क्रियमाणमभ्युदयकारि भवतीति ।"-पा० म० भा० १११।१॥ ५पृ० ५८१ पं. ५-६॥६ अभिन्ने एकस्मिन् वस्तुनि घटादौ बाह्ये नित्यानित्यादित्वेन पुरुषाणामुत्प्रेक्षा घटते, न तु बाह्यार्थाभावे इत्याशयः । अत्रारुचौ तु 'वस्तुनि भिन्ने' इति पाठः कल्पनीयः॥ ७त भा. प्रतौ नास्ति॥ ८'कुतोऽभिजल्पो हेयः हेतुगभ्यः' इत्यर्थे यथाश्रुतमेव साधु । अन्यथा तु 'कुतोऽभिजल्पोऽहेयः' इति 'कुतोऽभिजल्पोऽभिधेयः' इति वा पाठोऽत्र सम्भवेत् । दृश्यतां पृ० ५८१ पं० २५ ॥ ९ भूताविजल्पपृथग्भूतो भा० । भूतो विजभ्यपृथग्भूतो य० । (भूतो विभज्य पृथग्भूतो?)॥ १० प्रवर्तेत प्र०॥
नय० ७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org