________________
५९२
न्यायागमानुसारिणीवृत्त्यलकृत [अष्टम उभयनियमारे भावात् सन्मित्रवत् । तथा लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते, व्याकरणशास्त्रे तु शब्दरूपतां प्रतिपन्नः प्रवर्तते, शब्दाधिगमार्थप्रवृत्तिर्विशेषो भवतिवत् । अर्थस्य च गोः सालादि भिन्नं रूपम् , तदर्थत्वाच्छब्दस्य गकारादिवर्णानुपूर्वी श्रोत्रनादमात्रम् । तद्धि न कदाचिदर्थो भवितुमर्हति कल्पितुं वा अव्यवस्थितत्वाद् व्यतिकी5र्णत्वादनियतत्वात् । बाह्यार्थस्तु व्यवस्थितोऽव्यतिकीर्णो नियतश्च । तस्मान्न शब्दोऽर्थरूपतां प्रतिपन्नो वर्तते । प्रतिपन्नोऽपि स्वसम्बन्धादेव सम्बन्धस्य द्विष्ठत्वाच्छब्दार्थयोरेकीभावगतेः, नान्यथा उक्तवत् । साध्वसाधुत्वज्ञानस्य प्रयोजनं धर्मनियमोऽपि पृथगर्थसिद्धिं सूचयति।
तरप्रधानोपसर्जनभावात् शब्दस्योपसर्जनत्वादर्थस्य प्राधान्याद् व्यर्थतैव, किमिव ? सन्मित्रवत्, 10 यथा स्निग्धयोर्मित्रयोः पृथक् सिद्धयोरेककार्यप्रवृत्तयोरितरेतरप्रधानोपसर्जनत्वनियमस्तथा शब्दार्थयोः,
तत्तु त्वद्वचनादेव सिद्धम्, यथोक्तं त्वया-कैचिदेवेति यावदवतिष्ठते । ३९५-२ यथा प्रथमश्लोकोऽस्मन्मतं समर्थयति तथा 'लोकेऽर्थरूपताम्' इत्येषोऽपि । 'गामभ्याज शुक्लाम्'
इति न शब्दे बुद्धिः, किं तर्हि ? अभिधेये लोकसिद्धा । व्याकरणशास्त्रे शब्दरूपतां प्रतिपन्नः
प्रवर्तते । तुर्विशेषणे, शब्दाधिगमार्थप्रवृत्तिर्विशेषो भवतिवदिति, 'भवति' शब्दमधिगमयिष्यन् 15 'भू सत्तायाम् [ पा. धा. १ ] लेट् कर्तरि' इत्यादि करोति तस्माद् भिन्नौ ।
इतश्च भिन्नौ, रूपभेदात् । अर्थस्य चेत्यादि, गोः सानादि "भिन्न रूपम् । तदर्थत्वाच्छब्दस्य गंकारादिवर्णानुपूर्वीशब्दस्य श्रोत्रनादमात्रम् , तदर्थं शब्दप्रयोगाद् गकारादिवर्णानुपूर्वीमात्रोच्चारणम् । तद्धि न कदाचिदर्थों भवितुमर्हति, कल्पितुं वा 'न' इति वर्तते, त्वया योऽभिजस्पः कल्पित एव
स न भवत्यर्थः । कस्मात् ? अव्यवस्थितत्वाद् व्यतिकीर्णत्वादनियतत्वात् । 20 बाह्यार्थस्तु व्यवस्थितः देशकालादिभिन्नशब्दशतसङ्कलेऽपि धटशब्दस्य ऊर्ध्वग्रीवाद्ये स्वाभिधेये प्रयोगात् [अ]व्यतिकीर्णश्च, नियतः प्रतिपादनेऽवश्यवाच्यत्वात् तेनैव शब्देन 'स एव' इति तत्रैव च बुद्ध्युत्पत्तेः । तस्माद् व्यवस्थिताव्यतिकीर्णनियतत्वेभ्यो बाह्योऽर्थोऽन्यः रूपभेदाच्छब्दान्तरात् कल्पिताच्च । तस्मान्न शब्दोऽर्थरूपतां प्रतिपन्नो वर्तते । अभ्युपेत्यापि रूढेरपृथगात्मत्वप्रतिपत्तिमव्यभिचाराद
नयोः "प्रतिपन्नोऽपि स्वसम्बन्धादेव सम्बन्धस्य द्विष्ठत्वाच्छब्दार्थयोरेकीभावगतेः प्रतिनियतोऽभिधानाभिधेय25 सम्बन्धः पार्थक्यमन्तरेण न भवितुमर्हति घटशब्दार्थयोरित्युक्तम् , एकीकरणस्यान्यथाऽसम्भवात् , अत ३९६-१ आह-नान्यथा उक्तवदिति । किश्चान्यत् , शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया [वाक्यप० २।१३१]
१°न्याद्वयर्थतैव प्र० ॥ २ दृश्यतां पृ० ५८१ पं० २ ॥ ३ तुवि० प्र० ॥ ४द्भवति प्र० ॥ ५ लकर्तरि भा० । लडकर्तरि य० । “वर्तमाने लट् ३।२।१२३॥ कर्तरि कृत् ।३।४।६७। लः कर्मणि च भावे चाकर्मकेभ्यः ।३।४।६९।"पा०॥ ६ वेत्यादि प्र० ॥ ७सानादिरूपं भिन्नतदर्थ य०॥ ८ गोः सानादि स्वरूपम्, गोशब्दस्य तु गकारादिवर्णानुपूर्वी स्वरूपमित्याशयः ॥ ९श्रोत्रानादरूपं प्र. । (श्रोत्राधानरूपं ?)॥ १० काल्पः कल्पित एव य० ॥ ११ बाह्यवस्तुव्यव०प्र०॥ १२ ऊर्धग्रीवाद्यं प्र०। (ऊर्धग्रीवादी?) ॥ १३ °वाचत्वात् प्र० ॥ १४ पत्तिव्यभि य०॥ १५ अर्थरूपता प्रतिपन्नोऽपीत्यर्थः (१)॥ १६ स्वं सम्बन्धादेव प्र०॥ १७ पृ. ५८१ पं०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org