________________
भर्तृहरिमनिरासः]
द्वादशारं नयचक्रम् । ___ यदा चैवं तदास्मन्मतमेव प्रतिपन्नम्, अर्थस्य तत्त्वात् । योऽसौ शब्दः सोऽयं न, अस्मादन्य एव सः। एवंविषय एव शब्दः, न शब्दविषयोऽर्थः। अर्यतेऽयं तेन शब्देनार्थः तेनोच्यते गम्यते । अर्थगतिरेव शब्दगतिः।।
एवं च कृत्वा 'योग्यशब्दनिबन्धना हि [विवक्षा श्रोतृबुद्धौ तां तां शक्तिम् ] अध्यारोपयति' इति त्वदुक्तो ग्रन्थो युक्तोऽस्मिन् दर्शने । योग्य एव शब्दो नायोग्यः 'क्रीडित-5 मेवास्तु' इति प्रयुज्यते काकवाशितादिवबुद्धिपूर्वो वा, अर्थविसंवादादेकीकर्तुमशक्यत्वात् । हिशब्दोऽपि च हेत्वर्थे, यस्माद् योग्यशक्ति........ मर्यादया वा।
यदपि चोक्तं तयोरपृथगात्मत्वे इत्यादि श्लोकद्वयं तदपि चास्मन्मतफलमेव । तयोरपृथगात्मत्वं रूढेरतस्य तदुपचारात् पथि गमनवत्, इतरेतरप्रधानोपसर्जन
यदा चैवमित्युक्तक्रमेण पृथक् सिद्धौ प्राधान्ये चार्थस्य तदास्मन्मतं यथार्थाभिधानशब्दत्वमेव 10 प्रतिपन्नम् , अर्थस्य तत्त्वात् । तद् व्याचष्टे योऽसौ शब्दः सोऽयं न अर्थो न भवति शब्दः 'अर्थ एवार्थः' इत्युक्तत्वादिति अस्मादर्थात् प्रत्यक्षनिर्देश्यादन्य एवासौ 'सः' इति परोक्षनिर्देश्यो भेदेन । एवंविषय एव अर्थविषय एव शब्दः, न शब्दविषयोऽर्थः नाप्रधान इत्यर्थः । अर्यतेऽयं तेन शब्देन 'अर्थः', किमुक्तं भवतीति, तेनोच्यते गम्यते, क्र गतौ [ पा. धा. ], तस्यार्थः शब्दस्य विषयः, विषयिणो विषयपरतत्रत्वाद् यार्थस्य गतिः शब्दस्यापि सैव, नात्मनः पृथक् स्वतत्रा । एवं 15 व्याख्यातमर्थप्राधान्यं पार्थक्यं च । ____एवं च कृत्वेत्यादि गुणोत्कर्षमस्मन्मते दर्शयिष्यामः, योग्यशब्देत्यादि यावदध्यारोपयति इति त्वदुक्तो ग्रन्थो युक्तोऽस्मिन् दर्शने । तद्भावयति-योग्य एव शब्दः पृथुबुध्नादिलक्षणस्यार्थस्य घटशब्दः नायोग्यः पटादिशब्दो यः कश्चित् 'क्रीडितमेवास्तु' इति प्रयुज्यते काकवाशितादिवदबुद्धि-३९५.१ पूर्वो वा, कस्मात् ? अर्थविसंवादात्, अर्थेन विसंवादोऽस्य वाच्यवाचकसम्बन्धाभावः, स च 20 एकीकर्तुमशक्यत्वात् सम्बन्धयितुम् । हिशब्दोऽपि चेत्यादि, योग्यशब्दनिबन्धना हि इत्यत्र हिशब्दो हेत्वर्थे, यस्माद् योग्यशक्तीत्यादि तद्वयाख्या गतार्था यावद् मर्यादया वेति ।।
यदपि चेत्यादि । 'सोऽयमित्यभिसम्बन्धात्' इति स्वलक्षणमभिजल्पस्य तदस्मन्मतं समर्थयतीत्युक्तम् । तदनन्तरं यत् स्वलक्षणव्याप्तिप्रदर्शनार्थ लोकगतशब्दार्थसंव्यवहारव्यवस्थापनार्थ चोक्तं तदपि चास्मन्मतम् 'अर्थस्यार्थान्तरत्वं शब्दादापन्नम्' इत्येतत्फलमेव । कतमत् तत् ? इदं श्लोकद्वयम्-25 तयोरपृथगात्मत्वे [वाक्यप० ] इत्यादि । वयमत्र निश्चिनुमः-तयोरपृथगात्मत्वं रूढेः लोकप्रतीतेः अतस्य तदुपचाराद् भिन्नयोरभेदोपचारात् । किमिव ? पथि गमनवत् , यथा 'पन्थाः पाटलिपुत्रं गच्छति' इति पथोऽसद् गमनं पुरुषगत्यभेदोपचारात् तदविनाभावाद् व्यर्थत्वात् तयोरुच्यते तथा शब्दार्थयोरव्यभिचारादविनाभावादभेदोपचाराद् लोकरूढेरपृथगात्मत्वं पृथग्भूतयोरेवेति । किश्चान्यत् , इतरे
१ "ऋ सृ गतौ”-पा० धा० १०९८, १४९८ । “ऋ गतिप्रापणयोः”-पा० धा० ९३६ ॥ २ दृश्यतां पृ० ५८७ पं० २४ ॥ ३ दृश्यतां पृ० ५८२ पं० ९॥ ४ स्वत्वदुक्को य० ॥ ५ पृ. ५९४ ॥ ६ पृ. ५८० पं०३ ॥ ७ लोमगत° प्र०॥ ८र्थानुरत्व प्र० ॥ ९ पृ. ५८१ पं० १॥ १० तद्विनाभावाद्वयर्थता प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org