________________
५९०
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे अतो विशेषानवस्थानादू विशेषो विशेष एव न भवितुमर्हति । ततोऽसौ नैव स्यात्, अविशिष्टत्वादनवस्थानादववशत्वात् खपुष्पवत् । ततश्च सामान्यमपि नैव, प्रवर्तकाभावात् ववशत्वात् विविक्तवृत्तित्वात् मुक्तवत्, अर्थान्तराभाव
भवद्भवनाभ्यां केनचिदबाध्यत्वात् । 5 अथ सोऽप्यस्ति भेदेनार्थः शब्दात् न तर्हि शब्द एव शब्दार्थोऽभिजल्पत्वमागतो वाच्यः। स यथा शब्दस्तथार्थोऽपि सम्बन्धेनैकीक्रियमाणत्वात् पृथक सिद्धः क्षीरोदकवद् द्वयोरप्येकीकृतत्वे तुल्यत्वात् । अपि च प्रागुक्तवत् प्रत्याय्यत्वादभिजल्पावयववदर्थोऽर्थ एव ।
विशेषव्यभिचारे तद्भावना । अतो विशेषानवस्थानाद् विशेषो विशेष एव न भवितुमर्हति 10 सामान्याघ्रातरूपत्वाद् विशेषात्मानवस्थानात् । ततः किम् ? ततोऽसौ नैव स्यात् , भवनमेव नानुभवेत् , अविशिष्टत्वादनन्तरोक्तात्, अविशिष्टत्वमनवस्थानादू भावितवेत् , अनवस्थानमस्ववृत्तित्वादस्ववशत्वाद् भावितवदेव । खपुष्पवदिति सर्वत्र दृष्टान्तः । पृथक् पृथग् वा विशेषाभावे हेतवस्त्रयोऽपि खपुष्पदृष्टान्ताः । ततश्चेत्यादि । ततश्च विशेषाभावात् सामान्यमपि नैव स्यादिति वर्तते । कस्मात् ? प्रवर्तकाभावात् , सामान्यस्य हि प्रकृत्यर्थस्य भवनादेः क्रियात्मनः प्रवर्तकः प्रत्ययार्थः कर्ता स्याद् 15 विशेषः, तदभावान्न प्रवर्तते सामान्यम् । किमर्थं न प्रवर्तयति विशेषः सामान्यमिति चेत्, स्ववशत्वात् , स्ववशो हि विशेषो नासावस्ववशः, कस्मात् ? विविक्तवृत्तित्वात् , किमिव ? मुक्तवत् , यथा मुक्तामानः कर्मपारतश्यापेतत्वाद् विविक्तवृत्तयो न किञ्चित् प्रवर्तयन्ति न केनचित् प्रवर्त्यन्ते किन्तु स्वयमेव वर्तन्ते तस्मादप्रवर्तकत्वसामान्याद् दृष्टान्ताः, तद्वद् विशेषोऽप्रवर्तकः असन्नेव वा । प्रवर्तकाभावान्न सत्
सामान्यं खपुष्पवदिति । तद्व्याचष्टे-अर्थान्तराभाव-भवद्भवनाभ्यां केनचिदबाध्यत्वात्, अर्थान्तरं 20 च नास्ति विशेषात् ।
अर्थाभावे मा भूदेष दोष इति अथ सोऽप्यस्ति भेदेनार्थः शब्दाद् यस्य तद्रूपमने 30५.२ सदेकं क्रियते, किं ततः ? इदं भवति-न तर्हि शब्द एव शब्दार्थोऽभिजल्पत्वमागतो वाच्यः,
किं तर्हि ? विशिष्टा शक्तिः शब्दादन्या सर्वशक्तिर्वार्थोऽन्य इति प्राप्तम् । तत एवेदं चायुक्तं त्वया
यथोच्यते-तं शब्दमभिजल्पं प्रचक्षते, स च शब्दार्थ इति, यस्मात् स यथा शब्दस्तथार्थोऽपि सम्बन्धे25 नैकीक्रियमाणत्वात् पृथक् सिद्धः, किमिव ? क्षीरोदकवद् द्वयोरप्येकीकृतत्वे तुल्यत्वादिति साध्यसाधनधर्मानुगमप्रदर्शनम् । अपि चेत्यादि अर्थार्थत्वमेवोक्तं प्राक् 'प्रत्याय्यत्वात् अभिजल्पार्थावयववत्' इति तदर्थस्मारणं गतार्थं यावदर्थोऽर्थ एवेत्यवधारणम् ।।
१ तद्भावनातो विशेष प्र०॥ २ वचनवस्थान प्र० ॥ ३ भावात् सत् प्र० । (भावान्न स्यात् ?)॥ ४ दृश्यतां पृ० ५६८ पं० १॥ ५ दृश्यतां पृ० ५८० पं० ४॥ ६ दृश्यतां पृ. ५८५ पं० १॥ ७°दर्थोर्थ प्र० । दृश्यतां पृ० ५९० पं० १२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org