________________
भर्तृहरिमतनिरासः]
द्वादशारं नयचक्रम् । प्रातिपदिकार्थस्तथापि विवक्षापूर्वकत्वाच्छब्दप्रवृत्तेः विवक्षितसंख्याभिधाय्येव वचनं विधीयते । वृक्षस्यैकत्वाचैकवचनम् एकस्य वचनमेकवचनमुच्यते, अनेनार्थः। तथा च लोके वृक्षशब्दप्रयोगे सामान्यमुपसर्जनं विशेषः प्रधानमिति गम्यते, एकार्थगतेद्वर्यादिनिवृत्तेः। इतरथा सर्वगतिरगतिः सन्देहो वा स्यात् । वृक्षे प्रातिपदिक......भवति।
ननु विशेषाणामप्यखवशत्वादनवस्थानात् सामान्यभवनप्राधान्यमेव । दृश्यते हि वचनादिस्तस्माद् विशेषादपयान्, यथा एकवचनं द्विवचनार्थ 'नक्षत्रं पुनर्वसू' .......हेतुः कर्म। सर्वत्राप्येवमेव च ।
प्रस्थिताः-नाम-स्थापना-द्रव्य-भिन्नलिङ्गवाच्येष्टाकरणाद् भावयुक्तवाची शब्दः [ ] इति । अस्यार्थस्य प्रख्यापनमुदाहरणं वृक्ष इत्यत्रेत्यादि सभावनम् । 'स्वार्थो लिङ्ग द्रव्यं सङ्ख्या कर्मादिकारकाणि' 10 इति पैश्चकः प्रातिपदिकार्थश्चतुष्कस्त्रिको वा सङ्ख्या-द्रव्यान्तः । तथाऽऽख्यातस्यापि सर्वस्य नामत्वाविशेषात् 'नमयति अथं गमयति' इत्यादिनिरुक्तेर्यद्यपि पश्चकं सम्भवति तथापि तु वक्तुर्विवक्षितपूर्विका शब्दप्रवृत्तिरिति सामस्त्योपगमं परित्यज्य प्रतिपिपादयिषितं विशेषमेकमेव ब्रूते शब्दः । एकद्विबहुवचनेषु प्राप्तेषु ३९३-२ विवक्षितसङ्ख्याभिधायि एव वचनं विधीयते त्रयाणामन्यतमदेव, नेतरे । वृक्षस्यैकत्वाञ्चैकवचनं व्यक्तिकृतम् , न सर्ववृक्षगतसामान्यं तेनाप्रयोजनात् । एवं द्विबहुवचनयोरपि । 'एकवचनम्' इति समासद्वय-15 सम्भवात् सन्देहेऽवधारयति किमेकस्य वचनमेकवचनमेकं च तद्वचनं च तदेकवचनमिति वा ? एकस्य वचनमेकवचनमुच्यते, अनेनार्थः, कर्मणि षष्ठीति शब्दव्युत्पादनेन । तथा चेत्यादि । एवं च कृत्वा लोके वृक्षशब्दप्रयोगे सामान्यमुपसर्जनं [विशेषः प्रधानमिति गम्यते । कुतः ? एकार्थगतेयादिनिवृत्तेः । इतरथा सामान्यप्राधान्यात् सर्वगतिरगतिः सन्देहो वा स्यात् , युक्ता तु विशेषगतिस्तद्वशवर्तित्वान्नाम्नः । तद्भावना गतार्था-वृक्षे प्रातिपदिकेत्यादि यावद् भवतीति ।
20 अत्राह-ननु विशेषाणामपीत्यादि । तेऽपि हि विशेषाः परतश्रा एव, ततोऽस्ववशत्वाद]नवस्थानात् सामान्यभवनप्राधान्यमेव । न हि वृक्षवदेकवचनमेव दृश्यते सर्वत्र, यदि स्यात् स्याद् विशेषप्राधान्यम् , तस्माद् विशेषव्यभिचारात् सामान्यप्राधान्यमेव न्याय्यम् । मा मंस्था:-विशेषप्राधान्याव्यभिचार इति, दृश्यते हि वचनादिस्तस्माद् विशेषादर्पयान् , वचन-लिङ्ग-काल-कारकपुरुषोपग्रहादिविशेषाणां स्वस्थितिव्यतिक्रमः स्वसमानाधिकरणविशेषाचापगतिर्लोके दृश्यते । तदा-25 हरणानि-यथा एकवचनं द्विवचनार्थ 'नक्षत्रं पुनर्वसू' इत्यादीन्युत्तानार्थानि यावद्धेतुः कर्मेति । सर्वत्राप्येवमेव च, यथान्त्यमुदाहृतमभेदिलिङ्गविशेषव्यभिचारे तथा प्राक्तनेष्वपि वचनादि-३९४-१
१ दृश्यता पृ० ५९६ पं० ८। विशेषावश्यकभाष्यस्य कोट्टार्यवृत्तावपीदमुद्धृतम् । नामवाच्य-स्थापनावाच्य-द्रव्यवाच्यभिन्नलिङ्गादिवाच्यानामभिलषितार्थाविधायित्वाद् शब्दनयो भावयुक्तमेवाभ्युपगच्छतीत्याशयः ॥ २ दृश्यतां पृ० ५६ पं० १३ ॥ ३“अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । १।२।४५। धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दखरूपं प्रातिपदिकसंज्ञं स्यात् ।”-पा०सिद्धान्तकौमुदी ॥ ४ चतुर्थस्त्रिको प्र०॥ ५ दृश्यतां पृ० ५६८ पं० ११॥ ६°पयावचन प्र०॥ ७°क्रम प्र०॥ ८°चागति प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org