________________
५८८
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [ अष्टम उभयनियमारे त्वन्मतेन येन सहकीक्रियेत शब्दः] सम्बन्धेन । ...द्रव्यभवनोपसर्जनत्वात् तस्य विशेषस्य प्राधान्यमिति स्थितमेतत् । प्रयुज्यमाननाम्न्यपि बाह्ये येन येन विशेषेण भूयते तदुपसर्जनं तद् नाम, अर्थगत्यर्थत्वाच्छब्दप्रयोगस्य तद्वशप्रवृत्तित्वात्, भृत्यवत् । नाम च वचनादिविशेषवशम् , यथार्थशब्दत्वात् । वृक्ष इत्यत्र यद्यपि पञ्चकं
5 शब्दस्य रूपं स मुख्योऽर्थः, य एकीक्रियते सोऽप्रधानः' इति शब्दादर्थस्य पृथक् सिद्धौ क्रियेतैक्यमनयोः, तत्तु नास्ति त्वन्मतेनार्थाभावात् । सम्बन्धस्यापि च द्विष्ठत्वात् पृथगर्थसिद्धिः, इतरथा सम्बन्धाभावात् । [अतो येन येन विशेषेण भूयते तस्यार्थस्यैव प्राधान्यम् , नाम्नो द्रव्यभवनोपसर्जनत्वात् द्रव्यभवनस्योप-?] सर्जनं तत्, तद्भावाद् द्रव्यभवनोपसर्जनत्वात् तदुपसर्जनमस्यात्यन्तापूर्वस्य मूर्तस्यामूर्तलक्षणं भवनं विशेषोऽमूर्तस्य मूर्तलक्षणम् । तस्मात् तस्य विशेषस्य प्राधान्यमिति स्थितमेतत् । इति स्थिते विशेषप्राधान्ये 10 इत्थमान्तरनाम्न्यप्रयोगार्हे विशेषप्राधान्यं व्याख्यातम् । ३९३-१ प्रयुज्यमाननाम्न्यपि बाह्ये येन येन विशेषेण भूयते यो यो विशेषो भवति तदुपसर्जनं तस्यैव
विशेषस्योपसर्जनं तद् नाम बाह्यम् , अर्थगत्यर्थत्वाच्छब्दप्रयोगस्य, अर्थपरतत्रो हि शब्दः प्रयुज्यते, तदेव हेतुत्वेनाह-तद्वशप्रवृत्तित्वादिति, भृत्यवदिति दृष्टान्तः । भृत्यो हि स्वामिवशप्रवृत्तिः स्वामिपरतत्र उपसर्जनं तथा शब्द उपसर्जनमर्थः प्रधानम् , यत्र प्रयुज्यते तद्वशवर्ती शब्दः, विशेषोऽर्थ एव प्रधानमिति । 15 तद् दर्शयति-नाम च वचनादिविशेषवशम् । वचनं सङ्ख्या, आदिग्रहणाद् लिङ्ग-काल
कारक-पुरुषोपग्रहा गृह्यन्ते विशेषाः, तद्वशं नाम । यथार्थशब्दत्वादिति शब्दलक्षणं स्वसमयसिद्धं हेतुमाह। यो योऽर्थो यथार्थ शब्दस्तदभिधत्ते यथालिङ्गवचनकालकारकपुरुषोपग्रहमभिधत्ते । तथा चाचार्यसिद्धसेन आह-यत्र ह्यर्थों वाचं व्यभिचरति नाभिधानं तंत् [ ] इति । तथा व्याख्यातारोऽपि
१ भावाद प्र०॥ २ अत्र बहुतरः पाठः खण्डितः प्रतिभाति सर्वास्वपि प्रतिषु । अस्माभिः कल्पनयैवेत्थं पूरितः॥ ३ तततद्धावात भा० । ततद्भावात् य०॥ ४ नानाप्रयोगाहे भा० । 'नानां प्रयोगार्ह य० ॥ ५°पग्राह भा० । °पग्राहं य० ॥ ६ “विद्याद् यथार्थशब्दं विशेषितपदं तु शब्दनयम् [ तत्त्वार्थभा० ११३५] । शब्दखरूपमाह-विद्याद् यथार्थशब्दमिति । अनेन तु एवम्भूत इव (एव?) प्रकाशितो लक्ष्यते, सर्वविशुद्धत्वात् तस्येति । यतः स एवमभ्युपैति-यदार्थश्चेष्टाप्रवृत्तस्तदा तत्र घट इत्यभिधानं प्रवर्यं नान्यदेति । साम्प्रतसमभिरूढौ कस्मानानेडिताविति चेत्, उच्यते-तावपि स्मारितावेव । यत आह-विशेषितपदं तु शब्दनयमिति । विशेषितपदमिति विशेषितज्ञानम् , यतः साम्प्रतसमभिरूढयोरन्यादृशं ज्ञानम् । नामादिषु प्रसिद्धपूर्वाच्छन्दादर्थे प्रतीतिः साम्प्रतः । शब्दान्तरवाच्यश्चार्थः शब्दान्तरस्य नाभिधेयो भवतीत्येवं समभिरूढविज्ञानमिति ।"-इति तत्त्वार्थसूत्रस्य सिद्धसेनगणिविरचितायां वृत्तौ १।३५, पृ० १२८ ॥ ७°कारकविशेषोपग्रह प्र० ॥ ८ऽनभिधानं भा० । नभिधानं य० । (अनभिधानं)। “शन्दनयः शब्द एव । सोऽर्थकृतवस्तुविशेषप्रत्याख्यानेन शब्दकृतमेवार्थविशेषं मन्यते । समानलिङ्गादिशब्दसमुद्भावितमेव वस्त्वभ्युपैति, नेतरत् । न हि पुरुषः स्त्री, यदीष्येत वचनार्थहानिः स्यात्, मेदार्थ हि वचनम् । अतः स्वातिः तारा नक्षत्रमिति लिङ्गतः, निम्बाम्रकदम्बा वनमिति वचनतः, स पचति त्वं पचसि अहं पचामि पचावः पचाम इति पुरुषतः । एवमादि सर्व परस्परविशेषव्याघातादवस्तु । परस्परव्याघाताच्चैवमाद्यवस्तु प्रतिपत्तव्यम् , यथा शिशिरो ज्वलनः । तथा विरुद्ध विशेषत्वात् तटस्तटी तटमित्यवस्तु, रक्तनीलमिति यथा । यद् वस्तु तदविरुद्धविशेषमभ्युपयन्ति सन्तः, यथा घटः कुटः कुम्भ इति । तथा चोच्यतेयत्र ह्यों वाचं न व्यभिचरत्यभिधानं तत् । एवमयं समानलिङ्ग-संख्या-पुरुष-वचनः शब्दः ।"-इति तत्त्वार्थसूत्रस्य सिद्धसेनगणिविरचितायां वृत्तौ ११३४, पृ० ११६॥ ९ दृश्यतां पृ० ५७२ दि. ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org