________________
भर्तृहरिमतनिरासः]
द्वादशारं नयचक्रम् । वमादिभिरन्यान्यप्रयोगैरेक एवार्थो व्याख्यायते । एवं सर्वत्र पाकः साध्यरूपतायामेव व्यवस्थितः साधनमाकांक्षतीति तस्मिन्नेव काले कर्मत्वं शेषरूपत्वं चाविरुद्धं तादात्, शेषस्याकारकविवक्षणात्, तस्मादविरुद्धा क्रियादिपरिकल्पना। तस्मादसम्यकप्रत्यपेक्षितखार्थं वचस्त्वदीयमेवम् ।
तस्माच्छब्दस्याप्रधानत्वात् कुतोऽस्य कल्पनाशक्तिः? अत इत्थं कारिका 5 पठितव्या
शक्तेर्वा सर्वशक्तेर्वा स्वार्थेनैव प्रकल्पिता।
एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥ _____ अभिजल्पशब्दार्थत्वमपि खरागेणैवोक्तम् , अभिजल्पगत्यर्थाभावात् । स चाभिजल्पत्वमागतो वाच्यतां यायात् सोऽयमित्यभिसम्बन्धाच्छब्दस्यार्थेन सहकी- 10 करणात्। न च तत्, शब्दस्यैवार्थत्वात् । न हि कश्चित् [अर्थः पृथगस्ति शब्दात्
एवमित्यादि । इत्थं व्याख्यानप्रकारेण सर्वत्र पाकः साध्यरूपतायामेव व्यवस्थितः साधनमाकांक्षतीति तस्मिन्नेव काले कर्मत्वं शेषत्वं च भजते, तस्माद् युक्तमविरुद्धम् , तादर्थ्यात् स एव साध्यरूपोऽर्थः कर्मरूपापन्नः शेषरूपापन्नश्च साधनाधीननिर्वृत्तिक उच्यते । कस्मात् ? शेषस्याकारकविवक्षणात् , सतामेव हि कारकाणामविवक्षा शेष उच्यते, तस्मादविरुद्धा क्रियादिपरिकल्पनाऽर्थशक्ति- 15 विषयैव न शब्दोत्थापिता। तस्मादुद्बाहानुरूपोपसंहाराभावादसम्यक्प्रत्यपेक्षितखार्थ वचस्त्वदीयमेवमित्युपसंहारः । तस्माच्छब्दस्याप्रधानत्वादवस्थितमर्थमनुवर्तमानस्य उपसर्जनत्वात् कुतोऽस्य कल्पनाशक्तिः ? नास्तीत्यर्थः । अत इति उक्तन्यायादित्थं कारिका पठितव्या-शकेर्वा सर्वशक्तेर्वेत्यादि । विशेषाः शक्तय एवोपसर्जनीभूतसामान्याः, तदर्थो हि शब्दप्रयोगः, तस्य विवक्षितत्वात् , 'यथार्थाभिधानं च शब्दः' [तत्त्वार्थभाष्य १३५] इत्यस्मन्मतमित्युभयनियमनयदृष्ट्या । 'सर्वशक्तेर्वा' इति वादपरमेश्वरमतेनोक्तवत् 20 एकस्यैवार्थस्याविरुद्धशक्तिविशेषस्यानेकशक्त्यात्मकस्य वा स्वार्थेनैव प्रकल्पिता न शब्देनाप्रधानेन ३९२-२ नियता व्यवस्थिता क्रिया-कर्म-शेष-कादिपरिकल्पना ।
अभिजल्पशब्दार्थत्वमित्यादि । यदपि च त्वया परिकल्पितम् 'अभिजल्पः शब्दार्थः' इति तदपि खेन गेणैव स्वदृष्टिपरितुष्टयैवोक्तम् , नोपपत्त्या । कस्मात् ? अभिजल्पगत्यर्थाभावात् , 'अर्थगतिरेव शब्दगतिः' इति वक्ष्यते । स च शब्दोऽभिजल्पत्वमागतो वाच्यतां यायात् आत्मानमेवार्थरूपापन्नं 25 ब्रूयात् सम्भाव्येत, कयोपपत्त्या ? इत्यत आह-सोऽयमित्यभिसम्बन्धाच्छब्दस्यार्थेन सहकीकरणात् , अस्मादेव त्वद्वचनात् । न च तद् यदभिजल्पत्वमागतो वाच्यतां यातीति । कस्मात् ? शब्दस्यैवार्थत्वाद न च तत् । असम्भवं दर्शयति-न हि कश्चिदित्यादि यावत् सम्बन्धेनेति । 'येन सहैकी क्रियतेऽर्थेन
१°रुद्ध क्रियादि य० ॥ २ दृश्यतां पृ. ५७३ पं० ११ टि. २ ॥ ३ दृश्यतां पृ० ५८५ पं० ५ । 'वादपरमेश्वरमतेन । उक्तवदेकस्यैवार्थस्या” इत्यपि अन्वयोऽत्र स्यात् ॥ ४ राशेनैव प्र० । (रसेनैव ?)॥ ५ दृश्यतां पृ. ५९१ पं० ३ ॥ ६ सम्भाव्येत भयोरुपपत्या भा० । सम्भाव्येते( तो ? )भयोरुपपत्त्या य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org