________________
५८६
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
स्वार्थम्, सर्वस्यास्याविरुद्वैकार्थत्वात् । ननु सर्व एव [ अविरुद्धोऽर्थः ] यदेव 'ओदनं पचति' इति कर्म तदेव 'पाक ओदनस्य' इति षष्ठ्योच्यते । पाकशब्देन च भावः कृतोच्यते, 'पचति' इति तिङा कर्त्रर्थः, कृदभिहित भावद्रव्यवत्त्वात् कर्तुः साध्यत्वात् । यदा चौदनः प्रतीतो भवति तद्विषयक्रियासन्देहे 'किं करोति' इति प्रश्ने 6 ओदनस्याव्याख्येयत्वादस्यैव पचेर्विधानं 'पचति' इति । तस्यैव पचतेरपूर्वस्य व्याख्याने 'पाकं करोति' इति पचिना प्रतिवचनात् कर्मत्वम् उक्तवत् । 'पाकस्य निर्वृत्तिं करोति' इति कर्तृप्रत्ययार्थं व्याचष्टे । स्थाल्याद्यपि पचने वर्तते । इत्ये
10
इत्यादिः स एव ग्रन्थः प्रत्युच्चार्यः - ई हैकमेवार्थवस्तु इत्यादि यावच्छेषरूपत्वं च पाकस्य इत्युदाहृत्य तस्मादविद्यमाना वा शक्तय इत्यादिना भावयित्वा तदुपसंहारेऽभिहितम् - तस्मादुभयोरपि पक्षयोरित्यादि ३९१-२ यावत् सम्भवतीति । इत्थं प्रत्युच्चार्योत्तरमाहाचार्यः - एतन्नातिसम्यक्प्रत्यपेक्षितस्वार्थम्, कस्मात् ? सर्वस्यास्य उदाहृतस्यार्थस्याविरुद्धैकार्थत्वात् । तद् भावयति - ननु सर्व एवेत्यादि । यदेव 'ओदनं पचति' इति पचिविषयं कर्मोदनाख्यं तदेव 'पाक ओदनस्य' इत्यनया षष्ठयोच्यते, अनभिहिते कर्मणि द्वितीया [ पा० २|३|१-२] एकत्र, एकत्र च कर्तृकर्मणोः कृति षष्ठी [पा० २।३।६५ ] इति षष्ठया तदेव कर्मोच्यते । पाकशब्देन च भावः पच्यर्थः कृता घना उच्यते, 'पचति' इति तिङा कर्त्रर्थः, स एव 'पार्क 61 निर्वर्तयति' इति निदर्श्यते वर्ण्यते नै तिङेति । किं कारणम् ? कृदभिहितभावद्द्रव्यवत्त्वात्, उक्तं हि— कृदभिहितो भावो द्रव्यवद् भवति [ ० म० भा० ३।१।६७ ] इति पाकं करोति इति द्रव्यवत् कर्मणि द्वितीया, ‘निर्वर्तयति' इति च करोतीत्यर्थः । कुतः ? कर्तुः साध्यत्वात्, विलित्तिस्तन्दुलानां पाकः, तद्विषयः कर्ता साध्यते ' विलित्तिनिर्वृत्तिं करोति देवदत्तः, विक्लेदयति, पचति, पाकं निर्वर्तयति' इत्येकार्थत्वात् पचिक्रियाव्यापृतत्वेन साध्यते देवदत्त इत्यर्थः । यदा चौदनः प्रतीतो भवति तद्विषयभुजिपच्यादि20 क्रियासन्देहे ‘किं करोति' इति प्रश्ने ओदनस्य प्रसिद्धस्यानूद्यमानस्याव्याख्येयत्वादस्यैव पचेर्भुज्यादिव्यतिरेकेण विधानं 'पचति' इति, तस्यैव पंचतेरपूर्वस्य व्याख्याने 'किं करोति' इति पृष्टे 'पाकं करोति' इति चिना प्रतिवचनात् कर्मत्वम् उक्तवदिति अनभिहिते कर्मणि द्वितीया कृदभिहितभावद्रव्यवत्त्वादिति । 'पाकस्य निर्वृत्तिं करोति' इति कर्तृप्रत्ययार्थं व्याचष्टे, 'करोति' इति देवदत्तस्य व्यापारं विशिष्टं ३९२-१ स्थाल्यादिव्यापारेभ्यः संम्भवनधारणादीनां प्रकरणात् तत्प्रयोजकत्वात् स्थाल्याद्यपि पचने वर्तते 25 इत्यादिना सामान्यकारकत्वं देवदत्ताधीनस्य विशिष्टस्य कारकान्तरप्रवर्तनाभावं च दर्शयति । इत्येवमादिभिरन्यान्यव्याख्यानप्रयोगैरेक एवार्थो व्याख्यायते, यथा 'वृद्धिरादैच्' [ पा० १|१|१] इत्यस्यार्थः, 'वृद्धि:' इतीयं संज्ञा भवति आदैचां वर्णानाम् आकारस्य च "ऐचोश्चेत्यादिप्रतीतापेक्षव्याख्यानवत् ।
.....
१ दृश्यतां पृ० ५८२० ३ - पं० ५ ॥
२ तस्या विद्यमाना प्र० । ३ पृ० ५८३ पं० २ ॥ ४ ( च तिबेति ? तेन तिबेति ? ) ॥ ५ द्रव्यत्वात् य० ॥ ६ पा० म० भा० २/२/१९, ४1१1३, ५/४/१९, ६।२।१३९ ।। ७ पा० म० भा० २।३।२॥ ८ व्यावृत्तत्वेन प्र० ॥ ९ पचते पूर्वस्य य० ॥ १० दृश्यतां पृ० १९४ टि० १ । पा० म० भा० १।४।२३ ॥ ११ °रन्योन्यान्य' भा० । 'रन्योन्य' य० ॥ १२ आदौचा भा० । आदौच य० । “वृद्धिरादैच् । वृद्धिशब्दः संज्ञात्वेन विधीयते प्रत्येकमादैचां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च । - पा० काशिका 91919 11 १३ एचोवेत्यादि प्र० । तुलना - " तेभ्योऽपि विवृतावेढा ताभ्यामैचौ तथैव च ॥ २१ ॥ " - पा० शिक्षा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org