________________
भर्तृहरिमतनिरासः ]
द्वादशारं नयचक्रम् ।
५८५
प्रत्याय्यत्वात्, अभिजल्पार्थावयववत्, प्रयोजकत्वाच्चास्याः शक्तेरेव विवक्षाबीजत्वात् ।
सर्वशक्तिपक्षेऽपि चास्मन्मतमेवोच्यते त्वया, अर्थार्थत्वाच्छन्दप्रयोगस्य व्यवस्थितामव्यतिकीर्णां तां तां शक्तिमुपादाय स्वविषयनियताः शब्दाः प्रयुज्यन्ते लिङ्गादिभिन्नसामानाधिकरण्यक्रियायां व्यतिकरापत्तेः । परमार्थतस्तु वादपरमेश्वर - 5 वाद एवायम्, एकैकद्रव्यानन्तपर्यायत्वात् ।
यत्तु विषयोद्वा विरुद्वैर्धर्मयुक्तमित्यभिधीयते एतन्नातिसम्यक्प्रत्यपेक्षित
एव सिद्धः । अभिजल्पार्थावयववत्, यथा त्वत्प्रयुक्तस्याभिजल्पशब्दस्याभिधेयोऽर्थः समुदायः 'आभिमुख्येन जल्पोऽभिजल्पः' तदिदंसम्बन्धात्मक एकीभावस्त्वया शब्दार्थयोर्व्युत्पादितः, स च प्रत्याय्योऽवयवार्थाभ्याम् ‘अभि’शब्दार्थेन जल्पार्थेन च, 'आभिमुख्येन जल्पोऽभिजल्प:' इति समुदायार्थप्रतिपत्तेर - 10 वयवार्थप्रतिपत्तिपूर्वकत्वात् । मा भूद् विवक्षा प्रयोगयोस्त्वदीययोरानर्थक्यमिति तावभ्युपगन्तव्यौ खपुष्पवैलक्षण्येन शब्दनिरपेक्षौ शक्त्याख्यौ त्वया प्रत्याय्यत्वात् तथा शक्त्याख्योऽर्थः इतरथा अभिजल्पशब्दवैयर्थ्यं स्यादिति । किञ्चान्यत्, प्रयोजकत्वाच्चास्या इत्यादि । यदुक्तं त्वया तंत्राशक्तिपक्षे वस्तुगता शक्तिरप्रयोजिका, न हि तस्या वस्तुविषयाभ्यां सन्निधानासन्निधानाभ्यां किञ्चिदपि प्रयोजनमस्ति इति, तदिदमितोमुखं युक्तिजातं विपरिवर्तते, शक्तेरेव विवक्षाबीजत्वात् प्रयोजकत्वाच्च । एवं तावदशक्ति - 15 पक्षोऽस्मन्मतसिद्धेस्त्वद्वचनादेव नास्ति ।
'३९१-१
सर्वशक्तिपक्षेऽपि चास्मन्मतमेवोच्यते त्वया, कस्मात् ? अर्थार्थत्वाच्छब्दप्रयोगस्य 'व्यवस्थिताम्' इत्यादिना तद्यथा-व्यवस्थितां शब्देनानानेयामव्यतिकीर्णामनन्यशब्दवाच्यां तां तां शक्ति स्त्रीपुंनपुंसकादिकां शक्तयन्तरव्यावृत्त्या विवक्षितां विशिष्टामेव उपादाय स्वविषयनियताः शब्दाः प्रयुज्यन्तेऽभिन्नलिङ्गसङ्ख्यादिविशिष्टैकशक्तिविषयनियताः । किं कारणम् ? लिङ्गादिभिन्न सामानाधिकरण्य- 20 क्रियायां व्यतिकरापत्तेः, उक्तं प्राक् - तारा-पुष्य नक्षत्राणां स्त्री-पुं-नपुंसकानां व्यतिकरेण प्रयोगोऽपशब्दः [ ] इति । अयं च सर्वशक्तिपक्षः । परमार्थतस्तु वादपरमेश्वरवाद एवायम् । कस्मात् ? एकैकद्रव्यानन्तपर्यायत्वादस्मन्मतमेव, अहं हि त्वयैव सह विरुध्ये न वादपरमेश्वरेण । तेन च सह को विरोधः ? तस्य हि मतम् - एकैकं द्रव्यमनन्तपर्यायम्, सापेक्षनिरपेक्षाञ्च परिणामाः पर्यायाः शक्य इत्युच्यन्ते, द्रव्याणि चान्योन्यानुगतशक्तित्वात् सर्वशक्तीनि । यथाह
अण्णोष्णाणुगताणं इमं वं तं वत्ति विहयणमयुत्तं ।
जघ दुद्ध-पाणियाणं जावंति (त) विसेसपजाया ॥ [ सम्मति० १।४७ ]
यत्तु " विषयोद्राह इत्यादि । अशक्तेः सर्वशक्तेर्वा [ वाक्यप० २।१३२] इत्येतस्याः कारिकाया विषयः शब्दोत्थापिताः क्रियादिपरिकल्पना इति, एतस्यार्थस्य निदर्शनार्थमुद्राह्यते - विरुद्धैर्धर्मैर्युक्तमित्यभिधीयत
१ तौ अवयवार्थी ॥ २ दृश्यतां पृ० ५८२ पं० ७ ॥ ३ दृश्यतां पृ० ५८३ पं० १ ॥ ४ शक्तयन्तरा प्र० । ( शक्तयन्तराद् ? ) ॥ ५ सापेक्षाश्च भा० ॥ ६ अण्णाण्णा भा० ॥ ७ च प्र० ॥ ८ युक्तं प्र० ॥ ९ 'यायं य० । याय भा० ॥ १० ( विषयोद्धा हे ? विषयोग |हम् ? ) ॥
नय० ७४
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org