________________
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे प्रवृत्त्यसम्भवात् । न हि शब्दोऽनामृष्टप्रत्याय्यप्रत्यायकभावो वक्तुमिष्यते । न च विवक्षामात्रेण शब्दः श्रोतृबुद्धौ तां तां शक्तिमाधातुं शक्नोति । एवं चानेन त्वद्वचनेनैव विशेषलक्षणाः शक्तयः परिगृहीता एव त्वया । अस्मन्मतवदेव च विशेषखरूपप्रवृत्त्या विना न कश्चिच्छक्तिमानन्यः। विशेषा एव शक्तयः स्वार्थसत्यः। 5 तासां च तेषु तेषु विवक्षैव व्यञ्जिका । विवक्षैव तां तां शक्तिमध्यारोपयति प्रागात्मनि पश्चात् प्रयोगाच्छ्रोतृबुद्धौ । शब्दनिरपेक्षैव विवक्षाध्यारोप्या शक्तिरर्थे,
प्रवृत्त्यसम्भवात् । न हि शब्द इत्यादि, शब्दो हि समीक्षितप्रत्याय्यप्रत्यायकसम्बन्धो वक्तुमिष्यते, ३९०-१ न ह्यनामृष्टप्रत्याय्यप्रत्यायकभावः। विवक्षायाश्चार्थमन्तरेणासम्भवात् न च विवक्षामात्रेणेत्यादि, च - शब्दो 'विवक्षितेऽनुरूपेऽर्थे प्रयुक्तः श्रोतृबुद्धौ तां तां शक्तिमाधातुं शक्नोति, नान्यथा, शब्दस्यार्थस्य 10 शब्दार्थस्य च शक्तिः शकनात् , शक्नोति वक्तुं शब्दः शक्यते वक्तुमर्थ इति ।
ऐवं चानेनेत्यादि । सोऽयमित्यभिसम्बन्धात् [वाक्यप० २ । १२९] इत्यादिप्रक्रमम् अशक्तेः सर्वशक्तेर्वा [ वाक्यप० २।१३२] इति विकल्प्य त्वदीयमेव वचनं पलायमानस्यापि ते बाह्यवस्तुसद्भावमनतिक्रमणीयं प्रतिपादयति बलात् तदनिच्छतोऽपि धरणिसखिमेगालिकापलायनवत् । अतः स्त्रीपुंनपुंसकैकद्विबहुत्वका दिविशेषलक्षणाः शक्तयः परिगृहीता एव त्वयेति । 15 इतश्च अस्मन्मतवदेव चेत्यादि । त्वद्वचनादेव 'अस्यार्थस्याविद्यमानाः शक्तयोऽध्यारोप्यन्ते'
इति विकल्पोत्थापनादसम्भवं शक्तिमतोऽन्यस्य वयमपि ब्रूमः । या सा विशेषाणां स्वरूपप्रवृत्तिस्तया विना न कश्चिच्छक्तिमान् नामान्यः, किन्तु विशेषा एव विशेषेणास्मदभीष्टाः 'शक्तयः' इति यद्युच्यन्ते त्वया उच्यताम् , को वारयति ? ताश्च स्वार्थसत्यः स्वेन रूपेण सन्ति शक्तयो विशेषरूपेण स्त्री-पुं-नपुंसकादिभावेन
शक्त्यन्तरव्यावृत्तरूपा विशेषा एव वर्तमानाः सन्तीत्यर्थः । तासां च शक्तीनां तेषु तेषु प्रवृत्तिवस्तुषु 20 स्त्रीत्वादिषु विवक्षैव व्यञ्जिका, विवक्षया व्यज्यन्ते प्रकाश्यन्ते सत्य एव शब्दप्रयोगेण, सैव हि विवक्षा
'तटस्तटी तटम्' इत्यादीन सतो विशेषानभिव्यनक्तीत्यर्थः । का विवक्षा ? वक्तुमिच्छा, सैव तां तां शक्ति३९०-२मर्थगतां शब्दमनपेक्ष्य सिद्धामध्यारोपयति प्रागात्मनि वक्तरि, पश्चात् प्रयोगाच्छ्रोतृबुद्धौ, नौसतीम् , . वक्त्रभिप्रायगहणार्थप्रयतनात् 'पुमानयमनेन विवक्षितः, स्त्री इयम् , नेतरे' इत्याद्यनन्यबुद्धिव्यवस्थापनेन ।
अत्र प्रयोगः-शब्दनिरपेक्षैव विवक्षाध्यारोप्या शक्तिरर्थ इति प्रतिज्ञा । प्रत्याय्यत्वात् , 26 प्रत्यायकेन वक्त्रा श्रोतरि प्रत्ययाधानं प्रत्याय्यत्वं शक्त्याख्यस्यार्थस्य सिद्धमेव । यः प्रत्याय्यः स शब्दनिरपेक्ष
१मन्तरेण सम्भवात् य०॥ २ विवक्षितो प्र० । ( विवक्षातो ? )॥ ३ तातां य० । तासां भा० ॥ ४ शब्दस्यार्थशब्दस्यार्थस्य शब्दार्थस्य च भा० । शब्दार्थस्य च य० ॥ ५एवं चनेने प्र० । ( एवं च तेने ?) ॥ ६ दृश्यतां पृ. ५८० पं. ३॥ ७ दृश्यतां पृ. ५८२ पं० १॥ ८ त्वदीयमेव चनं प्र०॥ ९(सृगालिका ?)॥ १० दृश्यतां पृ. ५८२ पं० ६ ॥ ११ इत्यादीनसतो प्र०॥ १२ गत य० ॥ १३ नासंती य० ॥ १४व्यवस्थानेन य० ॥ १५ दृश्यतां पृ. ३९४-२॥
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org