________________
५८३
भर्तृहरिमत निरासः]
द्वादशारं नयचक्रम् । तां तां शक्तिमध्यारोपयति । सर्वशक्तिपक्षे तु व्यवस्थितामव्यतिकीर्णी तां तां शक्तिमुपादाय स्वविषयनियताः शब्दाः प्रयुज्यन्ते । तस्मादुभयोरपि. सम्भवति।
- इदमप्यस्मदभिप्रायप्रसाधनफलम् । योग्यशब्दनिवन्धना [हि विवक्षा श्रोतबुद्धौ तां तां शक्तिम् ] अध्यारोपयति । तत्र वस्तु तावदनेनैव त्वद्वचनेन शब्दा-5 दन्यत् सिद्धम् । तदिदंसम्बन्धात्मकशब्दार्थयोर्भदाद् यत्रासौ प्रयुज्यते शब्दो वक्तुमिष्यते च शक्तिश्च यत्राध्यारोप्यते तद् वस्तु सर्वस्यास्याधारभूतम् । योग्योऽनुरूपः शब्दः । तस्मादर्थात् सिद्धात् पश्चाद् भवति शब्दः। यथार्थरूपं तथा हि स योग्यः शब्दस्तस्यार्थस्य वाचकः। अर्थनिबन्धना हि विवक्षा, इतरथा वचनस्य
सति प्रयोगः स्यात् । तस्यामसत्यामपि बाह्यार्थशक्तौ मत्पक्षे सम्भवत्येव शब्दप्रयोगः, यस्माद् योग्यशब्द-10 निबन्धनेत्यादि गतार्थ यावच्छक्तिमध्यारोपयति । सर्वशक्तिपक्षे तु मम विशेषेण व्यवस्थितां कुतश्चिदनादेयामव्यतिकीर्णामनन्यशब्दवाच्यामित्यादि यावत् प्रयुज्यन्ते प्रयोगसाफल्यमस्तीति । तन्निगमयतितस्मादुभयोरपीत्यादि यावत् सम्भवतीति पूर्वपक्षः ।
अत्र वयं ब्रूमः-इदमप्यस्मदभिप्रायप्रसाधनफलम् , 'सामान्योपसर्जना विशेषा एव भवन्ति' इत्येतमेव साधयति, एतदस्य त्वद्वचनस्य फलं भविष्यति । तद् भावयितुकामो योग्यशब्देत्यादि प्रत्युच्चार-15 यति यावदध्यारोपयतीति अशक्तिपक्षे शब्दशक्तिप्रदर्शनोपसंहारोऽन्त्यः, तत्फलत्वाच्छेषग्रन्थस्य । तत्र वस्तु तावदित्यादि । अनेनैव तावत् त्वद्वचनेन शब्दादन्यद् वस्तु शक्त्याख्यं शक्तिमद्वा सिद्धम् । तत् पुनर्वस्तु कीदृशमिति चेत्, दर्शयति-तदिदंसम्बन्धात्मकेत्यादि, 'सोऽयमित्यभिसम्बन्धात्' इत्येतस्मादेव ३८०.२ वचनात् तच्छब्दवाच्यं वस्तु इदंशब्दवाच्याच्छब्दादन्यत् अर्थाद्वा तच्छब्दवाच्यादिदंशब्दवाच्यः शब्दोऽन्यः, आधाराधेययोर्भेदात् तदिदंसम्बन्धात्मकशब्दार्थयोः । यत्रासौ प्रयुज्यते शब्दः वक्तुमिष्यते20 चै यद्विषया बुद्धिरुत्पादयितुमिष्टेत्यर्थः शक्तिश्च यत्राध्यारोप्यते तद् वस्तु सर्वस्यास्य शब्दशक्तिबुद्धि-विवक्षाख्यस्यार्थकलापस्याधारभूतम् , आधेयानामाधारप्राणतः सिद्धेः । 'योग्य'शब्दाच्च बाह्यार्थसिद्धिः, योग्योऽनुरूपः शब्दः, केनचिदर्थेन कश्चित् तदनुरूप एव शब्दो युज्यते पृथुबुध्नाद्यर्थेन घटशब्दः । तस्माद् घटाख्यादर्थात् सिद्धात् पश्चाद् भवति शब्दः, 'अनु'शब्दस्य पश्चादर्थत्वात् सिद्धेऽर्थे पश्चाच्छब्देनार्थस्य योगोऽनुरूपः । यथार्थरूपादि(पमि?)त्यादि, अथवा अनुरूपो योग्यः, 35 यथार्थोऽनुशब्दः, यथारूपं यद् यद् रूपं यथारूपमनुरूपं यथा युज्यते तथेत्यर्थः । कथं च युज्यत इत्यत आह-तथा हि स इत्यादि, तेन हि प्रकारेणासौ योगमर्हति योग्यः शब्दः 'तैमर्थं प्रत्याययिष्यामीति प्रयोगदर्शनात् तस्यार्थस्य वाचकत्वोपेत इत्यर्थः, यो ह्यर्थस्यावाचकः स नानुरूपो न योग्य इत्युक्तं भवति त्वयैव । यस्मादर्थनिबन्धना विवक्षा, हिशब्दहेत्वर्थत्वात् । इतरथेति अर्थप्रत्यायनादृते वचनस्य
१ दृश्यतां पृ० ५८५ ॥ २ दृश्यतां पृ. ५८६ ॥ ३°प्रायसाधन य० ॥ ४ दृश्यतां पृ. ५८० पं० ३ ॥ ५चा भा० । चः य० । (वा)॥ ६ योग्यानु प्र.॥ ७ योगानुरूपः प्र०॥ ८"अर्थगत्यर्थः शब्दप्रयोगः । अर्थ संप्रत्याययिष्यामीति शब्दः प्रयुज्यते"-पा०म०भा० २।१।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org