________________
५८२
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
अशक्तेः सर्वशक्तेर्वा शब्दैरेव प्रकल्पिता ।
एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥ [ वाक्यप० २।१३२ ]
25
इहैकमेवार्थवस्तु एकस्यामवस्थायामेकस्मिन् काले युगपत् पर्यायेण वोच्यते विरुद्वैधर्मैः : । तद्यथा - ओदनं पचति, पाकमोदनस्य निर्वर्तयति, निर्वृत्तिं पाकस्य करोति । तत्र यदि [ कर्मत्वं कथं शेषरूपत्वमोदनस्य ] शेषरूपत्वं च पाकस्य । तस्मादविद्यमाना वा शक्तयो[ऽस्यार्थस्य शब्देन विवक्षावशात् ] समध्यारोप्यन्ते । सर्वशक्तियोगे वा [ नियतास्ताः शब्दः ] प्रकाशयति । तत्राशक्तिपक्षे वस्तुगता शक्तिरप्रयोजिका । न हि तस्या वस्तुविषयाभ्यां सन्निधानासन्न - धानाभ्यां किञ्चिदपि प्रयोजनमस्ति । योग्यशब्दनिबन्धना हि विवक्षा श्रोतृबुद्धौ
10 सत्यपि बाह्येऽर्थे तन्निरपेक्षं स्वातत्र्यमभिजल्पस्य प्रदर्शयितुमाह-अशक्तेः सर्वशक्तेर्वेत्यादि । या एता गति-स्थिति-जल्पि-चिन्त्यादिधातुवाच्याः क्रिया बाह्यार्थशक्त्यभिमताः तद्वान् वासौ बाह्योऽर्थोऽस्तु अशक्तिरेव वा द्वयोरपि शक्तिमदशक्तिपक्षयोस्ताः क्रियादिशक्तयो नियता एव 'जल्पनादि मनुष्यादीनामेव, सर्पणवाद्याः सर्पशकुनादीनामेव' इति, सर्वा एव तु एकस्य क[स्य ] चिदर्थस्य अनेकाः शब्दैरेव प्रकल्पिताः शब्दशक्त्युत्थापिता इत्यर्थः ।
[ अष्टम उभयनियमारे
15 एतमेवार्थं भाष्येण विवृणोति - इहैकमेवार्थवस्तु इत्यादि । वस्तुत एक ओदन एकस्यां पचनास्थायामेकस्मिन् मुहूर्तादौ काले बहुभिर्वत्तृभिर्युगपदेकेन वा पर्यायेण वक्त्रोच्यते विरुद्धैर्धर्मैः । तद्यथेति निदर्शयति, ‘ओदनम्' इति देवदत्तादिकर्तृसमारूढक्रियं कर्म, 'पाकमोदनस्य' इति षष्ठ्या सम्बन्धमात्रं पाककर्मत्वम्, 'निर्वृत्तिं पाकस्य' इति च पाकसम्बन्धित्वमिति ।
३८९-१
तत्र यदीत्यादिना भावयति यावत् पाकस्येति । बाह्येऽर्थे विरुद्धधर्मसम्बन्धाभावाद् युगपदेककाले 20 न घटते एवम् । नापि क्रमेण प्रयोगे, वस्तुन एकत्वात् पाकसमवायिन ओदनाख्यस्य पाकावस्थायाः
कालस्य च ।
तस्मादित्यादि पारिशेष्यात् अविद्यमाना वेत्यादिना प्रथमविकल्पे दर्शयति शब्दस्यैव शक्तिं यावत् समध्यारोप्यन्त इति । सर्वशक्तियोगे वेत्यादि द्वितीयविकल्पेऽपि शब्दशक्तिमेव दर्शयति यावत् प्रकाशयतीति ।
Jain Education International
तत्राशक्तिपक्षे वस्तुगता शक्तिः 'नास्त्येव' इत्यभ्युपगतत्वादप्रयोजिका शब्दप्रयोगस्य, खपुष्पवदसत्त्वात् । नै हि तस्या इत्यादि भावना गतार्था यावत् किञ्चिदपि प्रयोजनमस्ति प्रयोजने
१ " इदानीमर्थेषु न शक्ति: पृथगस्ति, किन्तु शब्दाधीनेति यथा ते शब्दैर्विधीयन्ते तथैवावगम्यन्त इति स्वमाहात्म्योप स्थापित एव शब्दार्थ इत्यष्टमं पक्ष दर्शयितुमाह- अशक्तेः सर्वशक्तेर्वा शब्दैरेव प्रकल्पिता । एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥ [ वाक्यप० २।१३२], अथवा सर्वशक्तिरर्थो व्यवस्थितः, तस्य प्रतिनियतशक्त्यभिधानं शब्देनेति नवमं पक्ष दर्शयितुमत्रैवोक्तम् - सर्वशक्तेर्वा इति । शक्त्यार्थः कदाचित् क्रियारूपतयाभिधीयते, कदाचित् सिद्धरूपतयेति नियता क्रियादिरूपता शब्दार्थतया प्रतिपाद्यते ।” इति पुण्यराजकृतायां वाक्यपदीयवृत्तौ ॥ २ च्येत प्र० ॥ ३ न हि तस्येत्यादि भा० । न हि स्येत्यादि य० । दृश्यतां पृ० ५८५ ॥
For Private & Personal Use Only
3
www.jainelibrary.org