________________
wamianmmm
भर्तृहरि-वसुरातमतोपन्यासः] द्वादशारं नयचक्रम् ।
तयोरपृथगात्मत्वे रूढेरव्यभिचारिणि । किञ्चिदेव क्वचिद् रूपं प्राधान्येनावतिष्ठते ॥ लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते ।
शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥ [वाक्यप० २।१२९, १३०, १३१] दर्शनोत्प्रेक्षाभ्यामर्थमुपगृह्य तत्र न्यग्भूतखशक्तिः बुद्धौ परिप्लवमान आन्तरो । विज्ञानलक्षणः शब्दात्मा श्रुत्यन्तरप्रवृत्तिहेतुरभिजल्प इति भर्तृहर्यादिमतम् । वसुरातस्य भर्तृहयुपाध्यायस्य मतं तु स च स्वरूपानुगतमर्थमन्तरविभागेन संनिवेशयतिmm 'पुनर्वसू नक्षत्रम्' इत्यादिसंख्याविरोधाद्ययुक्तेर्विज्ञानमपि तद्विषयमयुक्तम्' इत्यादिवचनखेदोऽयमकस्मात् क्रियते त्वया । किं कारणम् ? अभिजल्पो हि शब्दार्थः, हिशब्दो यस्मादर्थे, शब्दार्थस्याभिजल्पत्वाद् 10 न लिङ्गादिविचारखेदेनार्थः, असद्विषयत्वात् , खपुष्पविषयविचारखेदवत् । स्यान्मतम्-कोऽसाव भिजल्प २८० इति, अत्रोच्यते स च शब्द एव, स चाभिजल्पः शब्द एव ।
कथमिति चेत्, उच्यते-सोऽयमित्यभिसम्बन्धादिति श्लोकः । 'योऽर्थः सोऽयं शब्दो घटः' इत्यभेदोपचारसम्बन्धाद् यदा शब्दस्य रूपमथेनैकीकृतं भवति तैदा यथा 'इन्द्रकः, चन्द्रकः' इतीन्द्रचन्द्राद्यप्रत्यक्षार्थानभिज्ञोऽपि इन्द्र-चन्द्रशब्दरूपापन्नं गोपालादिमर्थ प्रत्याययम् दृश्यते 'सोऽर्थेन एकीभूत: 15 शब्द एव. 'अभिजल्पः' इत्युच्यते । एवं शब्दार्थयोः क्षीरोदकवदपृथगात्मत्वम् । तयोरपृथगात्मत्वे सत्य[व्य]भिचारिणि अन्योन्याविनाभावित्वेऽपि रूढिवशादेव किश्चिद् रूपं प्राधान्येनावतिष्ठते शब्दरूपमर्थरूपं वा यथा लौकिका अर्थप्रधानाः शाब्दाः शब्दप्रधाना इति, तमर्थं प्रविभागेन दर्शयति-संव्यवहारकाले [लोके]ऽर्थरूपतामिति श्लोको गतार्थः । 'अग्निमानय' इत्युक्ते लोके दहनादिलक्षणेऽर्थे सम्प्रत्ययः, न शब्दे । शास्त्रे तु स्त्रीभ्यो ढंक [ पा० ४।१।१२०] इति स्त्रीवाचकेषु सार्थेषु शब्देषु, भुजो कौटिल्ये 20 [पा० धा० १४१८] इत्येवमादिषु अर्थेष्वेव सम्प्रत्ययः । तद्व्याख्या-दर्शनोत्प्रेक्षाभ्यामित्यादि । प्रधानादिदर्शनेन पुरुषस्य उत्प्रेक्षया वार्थमभिधेयत्वेन उपगृह्य पूर्वोक्तचन्द्रादिवत् साकारं तत्र न्यग्भूतस्वशक्तिः अस्वतश्रीकृताभिधानसामर्थ्यः बुद्धौ परिप्लवमानः 'अयमित्थमनेन शब्देनोच्यत' इत्यान्तरो विज्ञान-३८८-२ लक्षणः शब्दात्मा श्रुत्यन्तरस्य बाह्यस्य ध्वन्यात्मकस्य प्रवृत्तौ हेतुः उत्थापकः सोऽभिजल्पा(ल्पोऽ)भिधेयाकारपरिग्राही बाह्याच्छब्दादन्य इति भर्तृहर्यादिमतम् । वसुरातस्य भर्तृहर्युपाध्यायस्य मतं तु 25 स च स्वरूपानुगतमित्यादि, स च अभिजल्पः स्वरूपानुगतमर्थरूपमन्तरविभागेन सन्निवेशयतीति ।
१“अपि चायमभिजल्पोऽपि बुद्धिस्थ एव । तथाहि-बाह्ययोः शब्दार्थयोर्भिन्नेन्द्रियग्राह्यत्वादिभ्यो भेदस्य सिद्धेस्तयोरैक्यापादनं परमार्थतोऽयुक्तमेवेति बुद्धिस्थयोरेव शब्दार्थयोरेकबुद्धिगतत्वादेकीकरणं युक्तम् । तथाहि-उपगृहीताभिधेयाकारतिरोभूतशब्दखभावो बुद्धौ विपरिवर्तमानः शब्दात्मा स्वरूपानुगतमर्थमविभागेनान्तःसंनिवेशयन् अभिजल्प उच्यते । स च बुद्धरात्मगत एवाकारो युक्तो न बाह्यः तस्यैकान्तेन परस्परं विविक्तखभावत्वात् ।"-सन्मतिवृत्ति १।२, पृ. १८४ । तत्त्वसंग्रहपञ्जिका पृ० २८८ । २°धाययुक्त य०॥ ३ तथा प्र०॥ ४ इन्द्रत्वंचन्द्र भा० ॥ ५सोऽर्थो न प्र०॥६टक प्र.। "स्त्रीभ्यो ढक् । ४।१।१२० । स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते । स्त्रीभ्योऽपत्ये ढक् प्रत्ययो भवति । सौपर्णेयः । वैनतेयः ।"-पा० काशिका॥ ७ दृश्यतां पृ० ३९६-१॥ ८ दृश्यतां पृ०. ३९६-१,२॥ ९ गतेपित्यादि य० । गतेपीत्यादि भा०॥ १० दृश्यतां पृ० ३९७-१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org