________________
५८०
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे - यदप्युच्येत-लिङ्गादिविचारखेदोऽयमकस्मात् क्रियते त्वया । अभिजल्पो हि शब्दार्थः । स च शब्द एव ।
सोऽयमित्यभिसम्बन्धाद् रूपमेकीकृतं यदा।
शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ । दर्शयति-यथाह-वाग्-दिग्-भू-रश्मीत्यादि श्लोकोऽयमाचार्येणैव व्याख्यातः यावद् दृष्ट्या वेति ग्रन्थे
नैव । एवं निरवशेषव्याख्येयविषयव्यापिता व्याख्यायाः प्रदर्शिता । अत एव चेत्यादि । व्याकरणं हि ३८७२ लक्ष्याधिगतये लक्षणं 'कथं नाम शब्दादर्थे ज्ञानमविपरीतं स्यात्' इति । तस्माद् व्याकरणाध्ययने यत्न आस्थेयः ।
उक्तं हीत्यादि श्लोकद्वयं व्याकरणस्तवनार्थ निदर्शयति । 'वागादिषु गोशब्द एकोऽनेकार्थः, 10 एकस्मिन् पृथुबुनादिलक्षणेऽर्थे घट-कुट-कुम्भादिशब्दोऽनेकः प्रवृत्तः' इत्येवमादेः प्रकाश्यस्यार्थस्य प्रकाशकं व्याकरणं स्थावर-जङ्गमानामिव प्रकाश्यानां सूर्यः । तथा न व्याकरणमन्तरेण वाच्यस्य सूक्ष्मस्य ज्ञानं वाचकस्य च शब्दस्य, यः शब्दः शब्दकर्मको वाचमेव ब्रूते हसतिजल्पत्यादिस्तद्विषयं च ज्ञानं न सम्भवति । तच्च सर्व व्याकरणज्ञो वेद । तथा अर्थप्रवृत्तितत्त्वानामित्यादि । अर्था अभिधेयाः, प्रवृत्तयः क्रियाः पुरुषहितहेतवोऽहितहेतवो वा, तेषामुभयेषां तत्त्वानि खान्यविपरीतानि रूपाणि शब्दैरेव ज्ञायन्ते । 15 शब्दानां पुनस्तत्त्वं व्याकरणाहते न ज्ञायते । अथवार्थस्य प्रवृत्तितत्त्वानि यथास्वमेकैकस्यानन्तधर्मात्मविपरिणामाः, तानि शब्दैर्जायन्ते, शब्दा व्याकरणेनेति । अथवा अर्थी धर्मार्थकाममोक्षार, तद्धेतवः प्रवृत्तयः, तासां तत्त्वानि यथाखं साध्यसाधनभावाः । इत्यादिव्याख्याविशेषेषु तद्विषयसम्यग्ज्ञानस्य शब्दाः कारणानि, शब्दज्ञानस्य तु व्याकरणमिति ।.
यदप्युच्येतेत्यादि । 'स्त्रीपुंनपुंसकव्यक्तीनां विरुद्धानां पुष्यनक्षत्रतारार्थानामयुक्तमैकाधिकरण्यम् ,
१“शब्दो वाऽप्यभिजल्पत्वमागतो याति वाच्यताम् । [वाक्यप० २।१२८ ], अभिजल्पत्वमध्यासरूपत्वमागतः शब्द एव स्वरूपलक्षणः शब्दस्य वाच्यः । अभिजल्पस्वरूपमाह-सोऽयमित्यभिसम्बन्धाद्रपमेकीकृतं यदा। शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ [वाक्यप० २।१२९], सोऽयमित्यभिसम्बन्धोऽध्यासाख्य उच्यते, तेन पदार्थस्वरूपमाच्छादितमेकीकृतमिव प्रत्याय्यते तदाऽभिजल्पः शब्द उच्यते, अध्यासवशाच्छब्दार्थयोरेकात्मत्वेऽप्यर्थांशस्यैव प्राधान्यमुपयोगवशात् । तयोरपृथगात्मत्वे रूढेरव्यभिचारिणि । किश्चिदेव क्वचिद्रूपं प्राधान्येनावतिष्ठते ॥ [वाक्यप० २।१३० ], तयोः शब्दार्थयोरध्यासवशाद् रूढेनियमादेवाव्यभिचारिणि अपृथगर्थत्वे एकरूपत्वे सति किञ्चिदेव रूपं योगवशात् क्वचिदेव लोके शास्त्रे वा प्राधान्येन उद्रिक्ततयाऽवतिष्ठते । तत्र लोकेऽर्थांशस्यैव प्राधान्यमित्यपि दर्शयितुमाहलोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते । अर्थरूपतां प्रतिपन्नोऽर्थेन सहैकत्वमिव प्राप्तः शब्दः प्रवर्तते 'अयं गौरित्यादि। तत्रार्थ एव बाह्यतया प्रधानमवसीयते । शास्त्रे तु शब्दस्योभयरूपतापि विभागेन परिदृश्यत इत्याह-शास्त्रे तभयरूपत्वं प्रविभक्तं विवक्षया ॥ [ वाक्यप० २।१३१], शास्त्रे हि स्वरूपप्रधानो निर्देशः क्वचिच्चार्थप्रधानोऽपीत्युभयरूपता शब्दस्य दृश्यते।" इति पुण्यराजविरचितायां वाक्यपदीयवृत्तौ । “अन्ये तु ब्रुवते 'शब्द एवाभिजल्पत्वमागतः शब्दार्थः' इति । स चाभिजल्पः 'शब्द एवार्थः' इत्येवं शब्देऽर्थस्य निवेशनम् 'सोऽयम्' इत्यभिसम्बन्धः, तस्माद् यदा शब्दस्यार्थेन सहकीकृतं रूपं भवति तं स्वीकृताकारं शब्दमभिजल्पमित्याहुः ।"-सन्मतिवृत्तिः १२, पृ० १८०-१८१ । तत्त्वसंग्रहपञ्जिका पृ० २८४-२८५॥ २ दृश्यतां ५२४ टि. १ । “स्वर्गेषुपशुवाग्वजदिक्रेत्रघृणिभूजले । लक्ष्यदृष्टया स्त्रियां पुंसि गौर्लिङ्गं. चिह्नशेफसोः ॥ ३।३।२५॥” इति अमरकोशे ॥ ३ यावद्दष्टया भा० । यावद्दष्या य०॥ ४ पवेत्यादि य०॥ ५ खानि अविपरीतानि रूपाणीत्यर्थः ॥ ६ ( यदप्युच्यत इत्यादि ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org