________________
नामद्रव्यार्थनयनिरासः] द्वादशारं नयचक्रम् । [ ]। क्रियाभेदेन 'दिवु क्रीडाविजिगीषाव्यवहारयुतिस्तुतिमोदमदस्वप्मकान्तिगतिषु' [पा० धा० ११०७]......स वृक्षः । इहापि क्रियाकारकभेदाभ्यां पुष्यति......खपुष्पे । उपोद्घात......भेदलक्षणायाः अधिकरणयोग......व्याख्यायाः का कथं वाऽनुपपत्तिर्लिङ्गाद्यभेदेऽपि? अनेकार्थेकशब्दग्रहणेनापि व्याख्यानाद् लिङ्गाद्यभेदेऽप्यर्थाधिगतिः । यथाह-वाग्दिग्भूरश्मि.........॥ [ ]......दृष्ट्या वा।
अत एव च व्याकरणाध्ययने यत्न आस्थेयः। उक्तं हि
'अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोधः शब्दानां नास्ति व्याकरणाहते ॥ [वाक्यप० १॥ १३]
अथवा आचार्येणैव क्रियाभेदेन दिवु क्रीडेत्यादि व्याख्यातमेव यावत् स वृक्ष इति गतार्थम् ] 110 इहापीति सिद्धं व्याख्यानं प्रदर्य प्रस्तुतं योजयति क्रियाकारकभेदाभ्यां पुष्यतीत्यादि यावत् खपुष्प इति गतार्था व्याख्या । अथवान्या व्याख्या-उपोद्धातेत्यादि यावद् भेदलक्षणाया इति व्याख्यायाः का कथं वेहाऽनुपपत्तिर्लिङ्गाद्यभेदेऽपि इति सम्भन्स्यते । अथवायमपरो व्याख्यामार्गः, तद्यथा-अधिकरणयोगपदार्थेत्यादि यावत् का कथं वानुपपत्तिर्लिङ्गाद्यभेदेऽपीति । सोदाहरणं त्वस्य व्याख्यानं तत्रा(न्त्रा)र्थसाहादिभ्योऽधिगन्तव्यम् ।
15 ___ इतश्च व्याख्या[ना]ल्लिङ्गाद्यभिन्नार्थगतिरुपपद्यते, अनेकार्थैकशब्दग्रहणेनापीत्यादि । व्याख्यातृभिरेकः शब्दोऽनेकार्थ इति ब्रुवद्भिर्व्याख्यानाद लिङ्गाद्यभेदेऽप्याधिगतिरभ्युपगतैवेति । तद्
१ अत्र वक्ष्यमाणाद् 'अर्थप्रवृत्तितत्त्वानाम्' इति श्लोकात् पूर्व वाक्यपदीये प्राप्तरूपविभागाया यो वाचः परमो रसः। यत् तत् पुण्यतमं ज्योतिस्तस्य मार्गोऽयमाञ्जसः ॥ १।१२ ॥ इति श्लोको दृश्यते । तस्य व्याख्यायां भर्तृहरिणा 'तथा चोक्तम्' इत्युल्लिख्य 'शब्दार्थसम्बन्धनिमित्ततत्त्वं वाच्याविशेषेऽपि च साध्वसाधून् । साधुप्रयोगानुमितांश्च शिष्टान्न वेद यो व्याकरण न वेद ॥' इति श्लोक उद्धृतः । किन्तु नयचक्रवृत्तौ प्रतीकानां स्फुटमदर्शनादनयोरन्यतरः श्लोकोऽत्र मल्लवादिना विवक्षितोऽन्यो वा कश्चिदिति निर्णेतुं न पार्यते ॥ २"अर्थप्रवत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोधः शब्दानां नास्ति व्याकरणाहते ॥ [वाक्यप० १।१३ ], अर्थस्य प्रवृत्तितत्त्वं विवक्षा, न तु वस्तुस्वरूपतया सत्त्वमसत्त्वं वा । विवक्षा हि योग्यशब्दनिबन्धना। योग्यं हि शब्द प्रयोक्ता विवक्षाप्रापितसंनिधानेष्वभिधेयेषु प्रत्यर्थमुपादत्ते । तद्यथा-उपलिप्समानः प्रतिविषयं योग्यमेवेन्द्रियमुपलब्धौ प्रणिधत्ते। .........अथवार्थप्रवृत्तेः किं तत्त्वम् ? अर्थरूपाकारः प्रत्ययात्मा बाह्येषु वस्तुषु प्रत्यस्तः । स च शब्दनिबन्धनः । तत्त्वावबोधः शब्दानाम्, शब्दस्य तस्वमवैकल्यम् , अनपगतसंस्कार साधुस्वरूपम् , तद्भ्यस्याविकलम् । अन्ये तु तत्प्रयुयुक्षया प्रयुज्यमाना विकलाः स्युरपभ्रंशा इति ।” इति भर्तृहरिरचितायां वाक्यपदीयस्ववृत्तौ ॥ ३ क्रियामेदोन दिव क्रीडे प्र० । “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु"-पा० धा० ११०७॥४ गतार्था भा० ॥५व्याख्याः भा०॥
1 "अर्थस्य प्रवृत्तिर्व्यवहारः, तस्य तत्त्वानि । अर्थश्च प्रवृत्तिश्चेति वा द्वन्द्वः, अर्थो द्रव्यं प्रवृत्तिः क्रिया तयोस्तत्त्वात् , तेषां शब्दो निबन्धनम् । तत्त्वावबोध इति साधुत्वावबोधः । योग्यशब्दनिबन्धनेति योग्यस्तद्विवक्षाप्रतिपादनसमर्थः शब्दः। ............प्रत्ययात्मेति बुद्धिस्वरूपम् । बाह्येष्विति बुद्धिरेवोपदर्शिताभिधेयाकारा तेषु प्रत्यस्तेत्युच्यते । बाह्यत्वेन ग्रहण न तु बाह्य वस्त्वस्तीति । सति बाह्येऽर्थे तनिबन्धना विवक्षा पूर्वत्र तत्त्वमित्युक्ता, सम्प्रति बुद्धिरेवेति विशेषः।" इति। वृषभदेवरचितायां टीकायाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org