________________
५७८
न्यायागमानुसारिणीवृत्त्यलकृतं [ अष्टम उभयनियमारे - ननु पुरुषोऽपि.........गवादि गोण्या। सत्यमुच्यते, न तु तद्गतविशेषविरोधेन.........संवादव्युदसनवृत्तिः । एष प्रकृत्यादिविसंवादेष्वपि अशेष आक्षेपपरिहारप्रपञ्च आयोज्यः।
नन्वेवमाख्यातुराख्येयार्थगतविशेषविना तदाख्यानासम्भवाद् नान्तरीयकं 5 विशेषणोपादानम् , तानि च संख्यालिङ्गादिभेदा एव । न, क्रियाव्युत्पत्त्यादिभेदेन व्याख्यानोपपत्तेः । उक्तं हि-क्रियाकारकभेदेन पर्यायवचनेन वाक्यान्तरेण च व्याख्या
ननु पुरुषोऽपीत्यादि अस्वविषयत्वासिद्ध्यद्भावनं यावद् गवादि गोण्येति । तदुत्तरम्-सत्यमुच्यत इत्यादि । शब्दो हि तेन प्रकारेण वाच्यविशेष संवादिनं ब्रवीति, तत्सम्परिग्रहगुणेन सत्यमुच्यते
सोऽर्थविशेषः, न तु तद्गतानां विशेषाणां विरोधेनोच्यते यथा स्त्री-पु-नपुंसकादीनामेकद्विबहुत्वादीनां 10 चैकार्थत्वेनेति संवाद-विसंवाददर्शनो ग्रन्थो यावत् संवादव्युदसनवृत्तिरिति गतार्थः । एवं लिङ्ग-सङ्ख्याविसंवादवृत्तिहेतुप्रसङ्गेन चोद्य-परिहारप्रपञ्च उक्तः । एष प्रकृत्यादिविसंवादेष्वपि अशेष आक्षेप-परिहारप्रपञ्च आयोज्यः समानप्रचर्चत्वात् प्रकृति-प्रत्ययाद्यक्षरविशेषोच्चारणमात्रभेदः प्रेहासादिदमसत्यमेव इति चोद्योपक्रमप्रभृतिर्यावदेतदवधि लिङ्गादिविशेषत्यागेन यथानुपूर्वोत्तरपक्षविरचनो नेय इति ।
नन्वेवमित्यादि । नन्वाख्यातुराख्यानकर्मणि प्रवृत्तस्य आख्येयार्थगतविशेषैरवश्यम्भाविमिर्विना 15 तदाख्यानासम्भवाद् नान्तरीयकं विशेषणोपादानम् , तानि च विशेषणानि सङ्ख्यालिङ्गादिभेदा एव, इतरथा अर्थोपदेशाभावः, अर्थप्रत्यायनार्थत्वाच्छब्दप्रयोगस्य अर्थपरतन्त्रस्यानन्तरीयकत्ववद् लिङ्गादिभेर्दैनान्तरीयकत्वमिति । एतच्च न, क्रियाव्युत्पत्त्यादिभेदेन व्याख्यानोपपत्तेः । तद्दर्शयति-उक्तं हीयादि ज्ञापकेन क्रिया-कारकभेदेनेति,
द्रव्यवदाश्रयवृत्तिः स्वस्था परसाधना व्यभिहित(ता?)श्च । 20
द्वे शून्ये क्षयिणी चेत्यष्टौ ज्ञेयाः क्रियाभेदाः ॥[ ] कारकभेदाः कादयः षडष्टौ वा कालोपायसहितास्त एव । पर्यायवचनेन घट-कुट-कुम्भादिना वाक्यान्तरेण च 'स्थानिवदादेशोऽनल्विधौ [पा. १।११५६]' इत्यस्य स्थान्यादेशपृथक्त्वात् स्थानिवदतिदेशो गुरुवद् गुरुपुत्रे वर्तितव्यम् अन्यत्रोच्छिष्टभोजनात् पादग्रहणाच्च [पा. म. भा. ॥१॥५६] इत्यादि ।
१°ग्रहणगुणेन य० ॥ २ दृश्यतां पृ० ५७१ पं० ६॥ ३"स्यार्थनान्तरीयकत्ववद्' इति पाठोऽत्र सम्यग् भाति ॥ ४°दानान्त° प्र०॥ ५ (व्यवहिता च?)। ६°वचने घट° य० ॥ ७वदितिदेशे प्र० । "किमर्थ पुनरिदमुच्यते? स्थान्यादेशपृथक्त्वादादेशे स्थानिवदनुदेशो गुरुवद् गुरुपुत्र इति यथा । अन्यः स्थानी अन्य आदेशः । स्थान्यादेशपृथक्त्वादेतस्मात् कारणात् स्थानिकार्यमादेशे न प्राप्नोति । तत्र को दोषः ? 'आडो यमहनः' इत्यात्मनेपदं भवतीति हन्तेरेव स्यात् वधेर्न स्यात् , इष्यते च वधेरपि स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीति तस्मात् स्थानिवदनुदेशः । एवमर्थमिदमुच्यते गुरुवद् गुरुपुत्र इति यथा । तद्यथा-गुरुवद् गुरुपुत्रे वर्तितव्यमिति गुरौ यत् कार्य तद् गुरुपुत्रेऽतिदिश्यते एवमिहापि स्थानिवत् कार्यमादेशेऽतिदिश्यते ।........ विशिष्ट स्थानिकार्यमादेशेऽतिदिशति गुरुवद् गुरुपुत्र इति यथा । तद्यथा-गुरुवदस्मिन् गुरुपुत्रे वर्तितव्यमन्यत्रोच्छिष्टभोजनात् पादोपसंग्रहणाच्च । यदि च गुरुपुत्रोऽपि गुरुर्भवति तदपि कर्तव्यं भवति ।"-पा० म०भा० १।१।५६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org