________________
नामद्रव्यार्थनयनिरासः]
द्वादशारं नयचक्रम् । - अपि च एकस्य त्रैलिङ्यायुक्तिविचारे भूत्यादीनां नानाशब्दानामुपन्यासोऽतिविस्पर्धते, पर्यायनयविषयत्वाच भावशब्दस्यात्र कर्तेवैको भावः तस्मादेकभवनासत्त्वादथैकत्वमपि नैव ।।
__ यदप्युक्तं 'नक्षत्रतारार्थातिदेश...............अयं देवदत्तः, वृक्षोऽर्थो भवति। [ नक्षत्रेण सामान्येन पुष्यस्य अतिदेशः यथा इदमा] देवदत्तस्य । अत्र युक्तौ, 5 देवदत्तस्येदंविषयत्वादतिदेशो युज्यते, न नक्षत्रेण पुष्यस्य अतद्विषयत्वात् । अर्थेन वा वृक्षोऽतिदिश्येत तद्विषयत्वात् । नक्षत्राद्यतिदेश्यो न भवति पुष्यः, अस्त्रविषयत्वात्, स्थाणुपुरुषवत् । यद्यतद्विषयेणाप्यतिदिश्येत घटादावपि नक्षत्राद्यतिदेशवृत्तिर्युक्ता स्यात्, अतद्विषयत्वात्, पुष्यवत् ।
साध्यम्-भावः क्रिया न कर्ता भूत्यादिशब्दाभिधेयः । स च शब्दनयस्य नास्ति, प्रकृत्यर्थस्य न्यग्भूतत्वात् । 10 कर्बर्थस्यैव सद्भावात् मन्मतेन ।
अपि चेत्यादि । तटशब्दस्यैकार्थस्य एकस्य लिङ्गयायुक्तिविचारे नानालिङ्गानां भूत्यादीनां ३८६-१ नानाशब्दा[ना]मुपन्यासो[5]तिविस्पर्धते । इतश्च न घटते तदुपन्यासः, द्रव्यार्थत्वात् सामान्यस्य भूति-भवन-भावाख्यस्यैकत्वात् तद्विषयमुदाहरणं स्यात्, न पर्यायनय विषयम् , पर्यायनय विषयत्वाच्च भावशब्दस्यात्र कतैवैको 'भवति' इति भावो विशिष्ट एवैको घटादिः, न त्वेक एव भूत्यादिरूपो विशेषः 15 कर्ता । तस्मादेकभवनासत्त्वादथैकत्वमपि नैव, सामान्यभवनस्यैकस्य न्यग्भूतत्वात् विशेषभवनस्य भूत्यादिविशिष्टैकरूपत्वात् नास्त्यर्थैकत्वमत्र नयेऽतो द्रव्यार्थकृतं भूत्यादिष्वैक्यं तद् मां प्रत्यसिद्धमित्यर्थः । तस्माददृष्टान्त इति ।
किश्चान्यत् , त्वया यदप्युक्तं नक्षत्रतारार्थातिदेशेत्यादि तदुक्तप्रत्युच्चारणम् । सामान्यार्थातिदेशेन : विशेषार्थातिसर्गे निदर्शनम्-अयं देवदत्त इति, 'वृक्षोऽर्थो भवति' इति द्वितीयम् । ‘शेषं गतार्थ 20 सभावनं यावद् देवदत्तस्येति पूर्वपक्षः । उत्तरपक्षस्तु अत्र युक्तौ देवदत्तस्येदमित्यादिना वैधयं निदर्शयति अतिदेशाभावभावनार्थं यावदतद्विषयत्वादिति प्रथमनिदर्शनस्य । अर्थेन वेत्यादिना द्वितीयनिदर्शनवैधयं दर्शयति । अर्थेन सता वृक्षोऽतिदिश्येत प्रत्यक्षः सन् परोक्षेण धर्मेण विशेषेण, न सामान्येन सता वा खपुष्पादिना वा । नक्षत्रादीनामतद्विषयत्वात् प्रत्यक्षनिर्देश्यस्य पिण्डस्य देवदत्तार्थस्य तद्विषयत्वात् वृक्षस्यार्थविषयत्वाञ्च वैधर्म्यम् । तस्मान्न दृष्टान्तः । नक्षत्राद्यतिदेश्यो न भवति पुष्यः, 25 अखविषयत्वात् , स्थाणुनेव पुरुषः पुरुषेण वा स्थाणुरिति । यद्यतद्विषयेणाप्यतिदिश्येत घटादावपि 'नक्षत्रं,०६-२ तारा घटः' इत्यतिदेशवृत्तिर्युक्ता स्यात् अतद्विषयत्वात् पुष्यवत् इत्यतिप्रसङ्गः।
१ दृश्यतां पृ० ५७३ पं. ३॥ २'देवदत्तस्य इदमा अर्थेन वा वृक्षस्यातिदेशो युज्यते, न तु नक्षत्रेण पुष्यस्य अतद्विषयत्वात्' इत्यपि पाठोऽत्र भवेत् । ३भूयादि य० ॥ ४ दृश्यतो पृ० ५५७ पं० ५॥ ५तिविषयत्वाच्च प्र०॥ ६नयेनो द्रव्यार्थ० प्र० ॥ ७ तस्मादृष्टान्तः य० । तस्मादृष्टान्तः भा० ॥ ८ विशेषं य० ॥ ९°त्तस्येवमित्यादिना प्र०। १० °निर्देशस्य प्र०॥ ११ तस्मान्ना प्र०। (तस्मानासौ ?)॥ १२ नक्षत्रतारा प्र०॥
नय० ७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org