________________
15
५७६
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
त्वया तटः पुंलिङ्गं प्रसवात्मकत्वात् पुरुषवदित्यादि । न, लिङ्गव्यवस्थापन हेत्वभावात् । प्रसवादीनामेकार्थे सन्निधिभावे वा स पुमानेव न स्यात्, स्त्रीत्वात्, देवदत्तादिवत् । न स्त्री, पुंस्त्वात् । न तौ, नपुंसकत्वात्, इतरवत् ।
प्रसवात्मकत्वात्, पुरुषवत्' इत्यात्थ तथा तः ( तटः) पुंलिङ्गम्, प्रसवात्मकत्वात्, पुरुषर्वेदिति, 10 आदिग्रहणात् संस्त्यानानुभयत्वाभ्यामपि त्रयाणां त्रिलिङ्गत्वहेतुत्वमिति । एतच्च न, लिङ्गव्यवस्थापनहेत्वभावात् । ननूक्तम्-त एव हि प्रसवादयो लिङ्गव्यवस्थापनहेतवो न सन्तीति साधितमनन्तरमेव, ३८५-२ तस्मान्न किञ्चिदेतत् | अभ्युपगम्यापिं प्रसवादीनामेकार्थे सन्निधिभावे वा स पुमानेव न स्यात्, स्त्रीत्वात्, देवदत्तादिवत्, तस्य स्त्रीत्वं त्वयाभ्युपगतं त्रिलिङ्गत्वात् । तथा न स्त्री पुंस्त्वात्, न ती स्त्रीपुंस नपुंसकत्वात्, इतरत्वेन दृष्टान्तोऽत्र ।
पर्वत नदी भवनविषयं त्रिलिङ्गत्वं विशिष्टविषयमिति चेत्, न, पुंमादिभिन्नबाह्राद्येकलिङ्गत्वात् अर्धर्चादिषु च विशेषादर्शनादपरिहारात् । नन्वेकस्य दृष्टं त्रिलिङ्गत्वं भूतिर्भवनं भाव इति । न, यदि वयं लोके दृष्टत्वात् प्रतिपद्यामहे तटे दृष्टत्वादेव कस्माद् न प्रतिपद्यामहे ? तदेव दुर्दृष्टम् । अपि चेदं साध्यम् - असावप्येकोsर्थो भावो वेति ।
20
पर्वत - नदीत्यादि । स्यान्मतम् - पर्वतः पुमान्, तद्विषयस्तटः । नदी स्त्री, तद्विषया तटी । भवनं नपुंसकम्, तद्विषयं तटम् । तस्मात् त्रिलिङ्गत्वं विशिष्टविषयमिति । एतच्च न पुमादिभिन्नबाह्राद्ये कलिङ्गत्वात् । एकस्मिन् देहे बाहुः पुमान्, जिह्वा स्त्री, अक्षि नपुंसकमिति नियतलिङ्गत्वान्नैतदपि पुष्कलम् । किञ्चान्यत्, अर्धर्चादिषु च विशेषादर्शनादपरिहारात् 'न' इति वर्तते, अर्धर्चः अर्धर्च गोमयः गोमयमित्यादीनां स्त्रीलिङ्गाभावात् त्रिलिङ्गत्वं नैकार्थम् ।
आह–नन्वेकस्य दृष्टं त्रिलिङ्गत्वम् - भूतिर्भवनं भाव इति, अतोऽव्यभिचार इति चेत्, नेत्युच्यते, यदि वयमित्यादि, यदि लोके प्रयोगो दृष्ट इत्येतावता प्रतिपद्यामहे त्वादृशा इव परंप्रत्येयाः तटे दृष्टत्वादेव कस्माद् न प्रतिपद्यामहे ? किं विवादेन ? तस्मात् तदेव दुर्दृष्टम्, प्रसिद्धिरेव दुष्प्रसिद्धिरित्यर्थः । अपि चेदमित्यादि, 'भूतिर्भवनं भावः' इत्येतेऽपि त्रयोऽर्था यथार्थाभिधानशब्दनयमतेन भिन्नाः, तस्मादेतत् साध्यम् - असावप्येकोऽर्थो [ ना]नेक इति । अपि च भावो वेति एतदपि
१ पुमादिभिन्नादि । अयमत्राशयः - पुंसः स्त्रियाः नपुंसकस्य च देहे विद्यमाना बाहु-जिह्वादयोऽवयवा पुमादिभिन्नविषया अपि एकलिङ्गत्वेन दृश्यन्ते, न हि पुमादिभिन्नविषयत्वेऽपि बाहौ लिङ्गभेदः एवं च विशिष्टविषयत्वं न लिङ्गभेदे हेतुः । किच, अर्धर्चादिषु विशिष्टविषयत्वाभावेऽपि लिङ्गभेदो दृश्यते । तस्माद् 'अथैकत्वे लिङ्गभेदानुपपत्तिः ' [ पृ० ५७४ पं० २३ ] इति पूर्वोक्तो दोषोऽपरिहृत एव ॥ २ दृश्यतां पृ०५७५ पं० २,३ ॥ ३ तथातः पुंलिंगम् प्र० । (तथा अतः पुंलिङ्गम् ? तथात्थ पुंलिङ्गम् ? ) ॥ ४ ( वत्, इत्यादिग्रहणात् ? ) ॥ ५ पुमानेव स्यात् भा० ॥ ६ अत्र देवदत्तो वैधर्म्यदृष्टान्तो भाति । यथा देवदत्तः पुमानेव न तथा तटः पुमानेवेत्यर्थः ॥ ७ स्त्रीत्वं पुंस्त्वात् य० ॥ ८ इतरव्वन भा० । इतरत्वन य० । ' इतरत्वेन दृष्टान्तोऽत्र' इति पाठोऽत्र सम्यग् विभाव्यते । इतरत्वेन वैधम्र्येणेत्यर्थः । ( इतरवत् ? ) ॥ ९ ऋचोऽर्धमर्धर्चः । “अर्धर्चाः पुंसि च |२| ४ | ३ || अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाष्यन्ते । अर्धर्चः । अर्धर्चम् । गोमयः । गोमयम् ।" - पा० काशिका ॥ १० परप्रत्ययाः प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org