________________
नामद्रव्यार्थनयनिरासः]
द्वादशारं नयचक्रम् । गोचरविशेषोपपत्तौ वा सोऽपि नास्ति, न हि तटो गोचरः प्रसवस्य, संस्त्यानात्मकत्वात्, स्त्रीवत् । न तटी गोचरः संस्त्यानस्थ, प्रसवात्मकत्वात्, पुरुषवत् । [न तटं गोचरोऽनुभयत्वस्य, संत्यानप्रसवात्मकत्वात्,] स्त्रीपुंसवत् । अथवा........ तटीवत् । एवं लिङ्गाभाव एव । ततश्चासत्त्वमप्येषाम् , अक्रियाव्ययत्वे सत्यलिङ्गत्वात्, खपुष्पवत् ।
अथोच्येत-नन्वेवं संस्त्यानात्मकत्वादित्यादिना त्रिलिङ्गत्वं व्यवस्थापितमेव
"संस्त्याने स्त्यायतेइँट् स्त्री सूतेः सप् प्रसवे पुमान् ।” ।
"उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥” [पा० म० भा० ४।१।३] स्थितिर्नपुंसकम् , स्त्री स्यानम् , प्रसवः पुमान् , ए[ते] चार्थाः सर्वमूर्ति (ते)षु सम्भवन्ति, अत्र यो विशेषो विवक्ष्यते तद्विषयो लिङ्गभेद इति । एतच्च न तट-तटी-तटानां विषयस्य विशेषः, 10 एकत्वादर्थस्य स एव विशेषो नास्ति, यद्विषयो लिङ्गभेदः स्यात् स नास्ति, अभिन्नस्वरूपत्वात्, घट-घटस्वात्मवत् , यथा घट एव घटस्वात्मा तथा तट एव तटी तटं च, अभिन्नस्वरूपत्वाद् नास्ति विशेषः । आह-गोचरविशेषोपपत्तेभित्त्यादिसंस्थाना तटी कटकादिसंस्थानस्तटः कुड्यादिसंस्थानं तटमिति तस्माद् विषयविशेषोपपत्तेर्लिङ्गविशेषोपपत्तिरिति । अत्रोच्यते-गोचरविशेषोपपत्तौ वा सोऽपि विशेषो३४५., नास्ति, यस्माद् न तटो गोचरः प्रसवस्य, संस्त्यानात्मकत्वात् , संस्त्यानात्मकत्वं तस्यार्थस्य सिद्धं 15 त्वयैवाभ्युपगतत्वात् व्यात्मकत्वस्य, स्त्रीवदिति स्तन-केशवत्याः प्रसवाभाववदिति । एवं शेषे साधने गतार्थे यावत् स्त्री-पुंसवदिति । एष बाह्यख्यादिनिदर्शनबलेन गोचरनिषेधः कृतः । अधुना तस्यैवार्थस्य त्रित्वापेक्षया क्रियते-अथवेत्यादि साधनानि गतार्थानि यावत् तटीवदिति । एवं लिङ्गाभाव एव तटत्वादीनां प्रसवादिधर्माभावे गोचरविशेषाभावादित्युपनयः । न लिङ्गाभाव एव दोषः, किं तर्हि ? ततश्चासत्त्वमप्येषां मूलोद्वर्तनेन, [अ]क्रिया-ऽव्ययत्वे सति अलिङ्गत्वात् , खपुष्पवत्, मा भूत् 20 पंचत्यादिस्वराद्याख्याताव्ययाभिधेयार्थवत् सत्त्वाशङ्केति 'अक्रियाव्यय विशेषणम् । अथोच्यतेत्यादि । परेणोच्येत परिहारः-नन्वेवं प्रपञ्चनेन गोचरलिङ्गनिराकरणव्याख्यानेन 'संस्त्यानात्मकत्वादित्यादिना त्रिलिङ्गत्वं स्वं स्वं 'लिङ्गव्यवस्थापनहेतुं परिगृह्णता व्यवस्थापितमेव त्वया । यथा 'न तटी, संस्त्यान
१ अत्र मूलं यथायोगमूह्यम् ॥ २स प्रसवे प्र० । “किं पुनलोंके दृष्ट्वा एतदवसीयते-इयं स्त्री अयं पुमान् इदं नपुंसकमिति ? लिङ्गम् । किं पुनस्तत् ? स्तनकेशवती स्त्री स्यालोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥... .....तटे च सर्वलिङ्गानि दृष्ट्वा कोऽध्यवसास्यति ।.....तस्मान्न वैयाकरणैः शक्यं लौकिकं लिङ्गमास्थातुम् । अवश्यं च कश्चित् खकृतान्त आस्थेयः । कोऽसौ स्वकृतान्तः?..... संस्त्याने स्त्यायतेईट स्त्री सूतेः सप् प्रसवे पुमानिति ।"-पा०म०भा० ४।१।३। “संस्त्यान इति भावसाधनत्वं दर्शयति । सूतेरिति 'सू' इत्येतस्य धातोः 'सप्' प्रत्ययो भवति, सकारस्य पकारो भवतीत्यर्थः । औणादिको 'मसुन्' प्रत्ययः । हुवश्च बाहलकात् ।........."संस्त्यानमिति तिरोभावः । प्रवृत्तिराविर्भावः । साम्यावस्था स्थितिः।”-पा० म० भा० प्रदीप.॥ ३ अथ चेत्यादि प्र०॥ ४ पचत्यादि आख्यातम् , खरादि अव्ययम् ॥ ५ अथोच्यते प्र० ॥ ६व्यामत्रनयनो द्रव्यसंस्त्यानात्मकत्वादिना भा० ॥ ७ 'संस्त्यानात्मकत्वादिना' इति भा० पाठोऽपि समीचीनो भाति । दृश्यतां पृ० ५७५ पं० १॥ ८ लिङ्ग व्यव भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org