________________
५७४
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे योषिति 'दारा गृहाः' इति, एकस्मिंश्च शर्कराकणे 'सिकताः' इति । नित्यमपि वह्ववयववृत्तत्वादिति चेत्, एकघटेऽपि तह्यत एव नित्यं बहुवचनं प्राप्तम् , 'बिन्द्वादाविव 'आपः' । अप्सु वा एकवचनं स्याद् घटवत् ।
अतिशय्येकात्मकनिरासेन विशेषविषयप्रयोगसाधुत्वेष्टौ कस्मात् तत एव 5 न्यायात् बिन्दौ अप्छब्द एकवचनान्तो न प्रयुज्यते विशेषविषयत्वाद् गवादिवत् । स एकवचनान्त एव स्यात्, एकमिति गृहीतत्वात् , तन्तुपटवत् ।
तथा तटस्तटी तटमिति कतमं विशेषमुपादाय लिङ्गभेदः कतमद् वा सामान्यमतिदिश्यते?
ननु स्थितिप्रसवसंस्त्यानविशेषविषयो लिङ्गभेदः । न तटतटीतटानां विषय10 विशेषः, अभिन्नस्वरूपत्वात् , घटघटखात्मवत् ।
'बहुवचनं कया विवक्षयेति वर्तते । एकस्मिंश्च सूक्ष्मशर्कराकणे सिकता इति, किंशब्दस्य क्षेपार्थत्वात् कया विवक्षया किं तया विवक्षया विपरीतार्थयेति । नित्यमपि बह्ववयववृत्तत्वादिति चेत् । स्यान्मतम्-बहवोऽवयवाः परमाणु-द्वथणुकादयो बिन्दावपि, तदपेक्षया बहुवचनम् 'आपः' इति । अत्रोच्यते
एकघटेऽपीत्यादि । अत एव त्वदुक्तात् 'बह्ववयववृत्तत्वात्' इति हेतोरेकस्मिन् घटेऽपि नित्यं बहुवचनं 15 प्राप्तम् , 'बिन्द्वादाविव 'आपः' इत्यनिष्टापादनद्वारेण परोक्तहेतुव्यभिचारः । अप्सु वेत्यादि, अप्छब्दादपि एकवचनं स्यात् , नित्यमपि बह्ववयववृत्तत्वात् , घटवत् , अनिष्टं चैतत् ।
अतिशय्येकात्मकेत्यादि । यथास्माभिरुक्तोऽतिशयी एक एव आत्मा भवति यत् स[त] किञ्चिदिति तस्य निरासेन त्वया विशेषविषयप्रयोगो गाव्यादिवत् 'साधुः' इतीष्टः, तत्रेदं तेऽनिष्टमापाद्यते
कस्मात् तत एव न्यायात् बिन्दौ वर्तमानोऽप्छब्द एकवचनान्तो न प्रयुज्यते, विशेषविषय20 त्वात् , गवादि[वदि]ति ? अतोऽयमपि न्यायो व्यभिचरतीति । किञ्चान्यत् , सोऽप्छब्द एकवचनान्त एव स्यात् , बह्ववयवात्मकत्वेऽपि 'एकम्' इति गृहीतत्वात् तन्तुपटवदिति गतार्थत्वान्न व्याख्यायते ।
एवं तावदयं सङ्ख्याविषयो विचारो न घटते । लिङ्गविषयोऽपि विशेषप्रयोगसाधुत्वन्यायो न घटते । अर्थैकत्वे सङ्ख्याभेदानुपपत्तिवत् लिङ्गभेदानुपपत्तिरपीत्यत आह-तथा तटस्तटीत्यादि । कतमं वात्र विशेषमुपादाय लिङ्गभेदः ? कतमद् वा सामान्यमतिदिश्यते विशेषप्रतिपादनार्थम् ? न 25 सम्भवतीत्यर्थः ।
आह-ननु स्थिति-प्रसव-संस्त्यानविशेषविषयो लिङ्गभेदः ।
३८४-२
१ बिंद्वाविचार्यः भा० । 'बिन्दाविवापः' इति पाठोऽप्यत्र संभवेत् ॥ २ यत्स किंचिदिति प्र० । (यः स किञ्चिदिति ?)॥ ३ तया प्र०॥ ४ (चात्र ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org