________________
नामद्रव्यार्थनयनिरासः] द्वादशारं नयचक्रम् ।
५७३ देवमनुष्या उभौ राशी? ] इत्यादिषु भावतोऽयथार्थता, द्रव्यक्षेत्रकालभावविषयविसंवादवृत्तत्वात् खोक्तार्थनिराकरणार्थत्वात् , उन्मत्तप्रलापवत् ।
ननु पुष्यस्य देवविशेषत्वात् तद्विषयौ नक्षत्रतारासामान्याह्न, घटविशेषविषयमृत्सामान्यार्थवत् । उक्तं हि
यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद्व्यवहारयुक्तो(क्ते)। सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥ [पा० म० भा० १।१।१]
तस्माद् विवक्षापूर्वकत्वाच्छब्दप्रवृत्तेविषयविशेषपरिग्रहेण गावी-गोणी-गोतागोपालिकादिवत् शब्दा गमकाश्चागमकाश्च ।
यद्येवं तर्हि कया विवक्षया 'आपः' इति बहुवचनमेकस्मिन्नपि बिन्दौ, एक
भावार्यथार्थप्रतिपादनं गतार्थं यावदित्यादिषु भावतोऽयथार्थतेति । एवं च न वाचकता शब्दस्य न 10 वाच्यतार्थस्य, अयथार्थत्वात्, उक्तशब्दार्थवत् । यथार्थाभिधानं च शब्दः [तत्त्वार्थभाष्य. १३५] इत्युक्तम् । तत् सर्वमुपसंहृत्य साधनमाह-द्रव्य-क्षेत्र-कालभावविषयविसंवादवृत्तत्वादिति हेतुाख्या-३८३-२ तार्थः । स्वोक्तार्थनिराकरणार्थत्वादिति साधितार्थोपसंहारार्थो हेतुः पृथगयाथार्थ्यप्रतिपादनार्थो वा । उन्मत्तप्रलापवदिति दृष्टान्तः । इदं च साधनमतीतप्रपश्चेन भावितार्थमिति न विव्रियते ।
ननु पुष्यस्येत्यादि पूर्वपक्षो विवक्षाविशेषार्थशब्दप्रयोगन्यायाश्रयेण दोषपरिहारार्थो यावद् 15 गमकाश्चागमकाश्चेति । पुष्यः पुमान् देवो विशेषः, तद्विषयौ तदर्थौ नक्षत्र-तारासामान्यार्थों घटविशेषविषयमृत्सामान्यार्थवत् सामानाधिकरण्यं तस्मादुपपन्नम् । अस्मिंश्च ज्ञापकमाह-उक्तं हीत्यादि भाष्यकारेणोक्तम् । यस्तु प्रयुत इति श्लोकः । विशेषे विवक्षिते प्रधाने गुणभूताशब्दान् प्रयुङ्क्ते यः कुशलोऽर्थगत्यर्थत्वाच्छब्दप्रयोगस्य तद्दर्शयन्नाह विक्क्षापूर्वकत्वाच्छब्दप्रवृत्तेरिति-यथावद्व्यवहारयुक्तौ यो यः शब्दो व्यवहारकाले यस्य यस्य विवक्षितार्थस्य विशिष्टस्य विशिष्ट एव गमक इत्यभि-20 मतः स एव स एव तत्र प्रयुज्यते नान्योऽन्यत्र वा गौणमुख्यादिभावेन स्वाभिधेयप्रत्यायनसमर्थत्वात् सर्वशब्दानाम् । सोऽनन्तमाप्नोति जयं परत्र । कः ? वाग्योगविद् य एवमुक्तविशेषविषयशब्दार्थसम्बन्धज्ञः । दुष्यति चापशब्दैरवाग्योगविद् विशेषविषयप्रयोगानभिज्ञः । तस्माद् विवक्षापूर्वकत्वाच्छब्दप्रवृत्तेविषयविशेषपरिग्रहेण साधुताऽसाधुता च शब्दानाम् , असाधुत्वाभिमतानामपि गव्यादीनां साधुत्वं विशेषविषयत्वात् , साधुत्वेनाभिमतानामपि गव्यादीनामसाधुत्वमिति । तदर्शयति-गावी-25 गोणीत्यादिर्गतार्था भावना शब्दव्युत्पत्त्या । ___अत्राचार्य आह-यद्येवं तह-त्यादि यावत् सिकता इति । एषोऽपि न्यायो व्यभिचाराद् न प्रभवति । उदाहरणैर्व्यभिचारयिष्यन्नविजानन्निव पृच्छति तमेव कया विशेषविवक्षयेति । आप इति बहुवचनमेकस्मिन्नपि बिन्दौ दृष्टम् , नात्र सामान्यविशेषभावोऽस्ति । तथा एकयोषिति दारा गृहाः
१ यथार्थाप्रति प्र० । (यथार्थत्वप्रति ? )॥ २ तत्त्वार्थभाष्ये 'च' नास्ति ॥ ३ °यथार्थ्य भा० । यथार्थ य० ॥ ४०हारयुक्ते' इति पाठोऽत्र समीचीनः सम्भाव्यते। दृश्यतां पृ० १२८ पं० २१॥ ५ग्रहणे य० ॥ ६ (गाव्यादी ? ) । दृश्यतां टिपृ० ५७ पं० २२-२६ ॥ ७ (गवादीना?)॥ ८°त्यादिगतार्था य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org