________________
५७२
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे णामलक्ष्यीकरणं प्रतिपत्तेश्चाप्रतिपत्तित्वमसत्यत्वात् प्रत्याय्यार्थविपर्ययवृत्तत्वात् प्रहासोक्तिवत् । न च तेष्वसत्यमतिः । पर्वताधिकरणकर्मवच नासत्यमतिः । आधारोऽधिकरणम् . . . . . . . अन्यस्यानाधारत्वाद्वा । भूतमनागतमिति च विरुद्धार्थम् । शतभिषजः नक्षत्रम्, [गोदौ ग्रामः, पुनर्वसू पश्च तारकाः, आम्रा वनम् ,
5 अनोच्यते-बढेव तीत्यादि । बहूनां तर्हि लक्षणानां धातुसम्बन्धे प्रत्ययाः [पा० ३।४।१] व्यत्ययो बहुलम् [पा० ३।१।८५] इत्येवमादीनामलक्षणीकरणम् तल्लक्ष्याणां च ‘अग्निष्टोमयाजी अस्य पुत्रो जनिता' इत्येवमादीनामलक्ष्यीकरणम् । प्रतिपत्तेश्चाप्रतिपत्तित्वं सर्वस्याऽसत्यत्वात् , तदसत्यत्वं प्रत्याय्यार्थविपर्ययवृत्तत्वात् प्रहासोक्तिवदिति गतार्थम् । न च तेषु लक्षणेषु लक्ष्येषु चासत्यमति
र्भवति । किञ्चान्यत् , पर्वताधिकरणकर्मवच्च नासत्यमतिः । 'इह पर्वते वसति' इत्येतस्मिन्नधिकरणार्थे 10 'पर्वतमँधिवसति, अध्यास्ते' इत्यादिकर्मत्वायुक्तेः । अत्र प्रयोगः- 'पर्वतमधिवसति' इत्यादि असत्यमिदम् , स्वकारकव्यधिकरणवृत्तत्वात् , 'देवदत्तो भूयते' इति यथेति । एतस्य भावनार्थ आधारोऽधिकरणमित्यादि यावदन्यस्यानाधारत्वाद्वेति गतार्थो ग्रन्थः । एतच्च क्षेत्रविषयमयथार्थत्वमुक्तम् । तथा कालविषयमयथार्थसाधनम्-'भूतमनागतम्' इति च विरुद्धार्थमिति । अत उत्तरं शतभिषज इत्यादि
१“धातुसम्बन्धे प्रत्ययाः ।३।४।१। धात्वर्थानां सम्बन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङन्तवाच्यक्रियायाः प्राधान्यात् तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श। भूते लट् । अतीतवासकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ।”-पा० सिद्धान्तकौमुदी ॥ २ दृश्यतां पृ० १५४ पं० २६ ॥ ३ चाश्रित्यमति भा० । श्चामृत्यमति य० ॥ ४ “अधिशीस्थासां कर्म ।१।४।४६। पूर्वेणाधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते । अधिपूर्वाणां शीङ् स्था आस् इत्येतेषामाधारो यस्तत् कारकं कर्मसंज्ञं भवति । ग्राममधिशेते। ग्राममधितिष्ठति । पर्वतमध्यास्ते ।.... उपान्वध्याब्वसः । १।४।४८। उप अनु अधि आङ् इत्येवंपूर्वस्य वसतेराधारो यस्तत् कारकं कर्मसंज्ञं भवति । ग्राममुपवसति सेना। पर्वतमुपवसति । ग्राममनुवसति। ग्राममधिवसति । ग्राममावसति ।"-पा० काशिका.। ५ आधारोऽधिकरणम् । १।४।४५। आध्रियन्तेऽस्मिन् क्रिया इत्याधारः । कर्तृकर्मणोः क्रियाश्रयभूतयोर्धारण क्रियां प्रति य आधारस्तत् कारकमधिकरणसंज्ञं भवति । कटे आस्ते । कटे शेते । स्थाल्यां पचति ।”-पा० काशिका। ६"शपत्यर्थमाह्वयति प्रत्याययतीति शब्दः ॥ ८॥ उच्चरितः शब्दः कृतसंगतेः पुरुषस्य खाभिधेये प्रत्ययमादधातीति शब्द इत्युच्यते । स च लिंगसंख्यासाधनादिव्यभिचारनिवृत्तिपरः ॥ ९ ॥ लिङ्गं स्त्रीत्वपुंस्त्वनपुंसकत्वानि । संख्या एकत्वद्वित्वबहुत्वानि । साधनमस्मदादि । एवमादीनां व्यभिचारो न न्याय्य इति तन्निवृत्तिपरोऽयं नयः । तद्यथा-लिङ्गव्यभिचारस्तावत् स्त्रीलिङ्गे पुंलिङ्गाभिधानं तारका स्वातिरिति । पुंलिङ्गे स्त्र्यभिधानम् अवगमो विद्येति । स्त्रीत्वे नपुंसकाभिधानं वीणा आतोद्यमिति । नपुंसके रुयभिधानम् आयुधं शक्तिरिति । पुंलिङ्गे नपुंसकाभिधानं पटो वस्त्रमिति । नपुंसके पुंलिङ्गाभिधानं द्रव्यं परशुरिति । संख्याव्यभिचारः-एकत्वे द्वित्वं नक्षत्रं पुनर्वसू इति । एकत्वे बहुत्वं नक्षत्र शतभिषज इति । द्वित्वे एकत्वं गोदौ ग्राम इति । द्वित्वे बहुत्वं पुनर्वसू पञ्च तारका इति । बहुत्वे एकत्वम् आम्रा वनमिति । बहुत्वे द्वित्वं देवमनुष्या उभौ राशी इति । साधनव्यभिचारः-एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पितेति । आदिशब्देन कालादिव्यभिचारो गृह्यते । विश्वदृश्वास्य सुतो जनिता, भावि कृत्यमासीदिति कालव्यभिचारः। सन्तिष्ठते प्रतिष्ठते विरमति उपरमति [ इति] उपग्रहव्यभिचारः । एवमादयो व्यभिचारा अयुक्ताः । कुतः ? अन्यस्यार्थस्यान्यार्थेन सम्बन्धाभावात् । यदि स्यात् घटः पटो भवतु पटो [वा?] प्रासाद इति । तस्माद् यथालिङ्गं यथासङ्ख्यं यथासाधनादि च न्याय्यमभिधानम् ।" इति तत्त्वार्थराजवार्तिके १॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org