________________
५७१
नामद्रव्यार्थनयनिरासः] द्वादशारं नयचक्रम् । विन्यसनवत् पृथगध्ययनम् । एवमेव च कृत्वोक्तम्-प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतः [पा० म० भा० ३।१।६७] । अत एव च प्रकृतिपरः प्रत्ययः प्रयोक्तव्यः प्रत्ययपरा च प्रकृतिः [पा० म० भा० ३।१।२] । अत एव च प्रत्ययार्थानपायित्वाद् मन्यतेः प्रस्तुतसामानाधिकरण्यत्यागेन 'मन्ये' इति उत्तमैकवचनप्रत्ययप्रयोगोऽयथार्थाभिधानम् । प्रत्ययपुरुषायथार्थत्वेऽप्येषैव भावना। इत्यर्थत्रयविषयमयथार्थत्वम् । इदं च द्रव्यतोऽयथार्थत्वम्।।
प्रहासादिदमसत्यमेवेति चेत् , बढेव तर्हि लक्षणानामलक्षणीकरणं लक्ष्या
एवमेव च कृत्वोक्तमिति ज्ञापकमाह । प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूत इति प्राधान्येन प्रत्ययार्थो विवक्षितो गुणत्वेन प्रकृत्यर्थः । अत एव चेति, यदुक्तं भाष्ये-प्रकृतिपरः प्रत्ययः प्रयो-३८२-२ क्तव्यः, प्रत्ययपरा च प्रकृतिरिति प्रत्ययः परो विशेषः प्रधानं यस्याः सा प्रत्ययपरा प्रकृतिः, परशब्दस्य प्रधानार्थता वर्ण्यते ।
10 एवं चानेन न्यायेन प्रत्ययार्थाद् नापैति प्रकृतिः, तत्परत्वात् । अत एव च प्रत्ययार्थानपायित्वाद् मन्यतेरित्यादिना भावयित्वोपसंहरति यावदयथार्थाभिधानमिति । एहिशब्दप्रयोगप्रस्तुतसामानाधिकरण्यत्यागेनास्मत्समानाधिकरणोत्तमैकवचनप्रत्ययायथार्थत्वम् अङ्गीकृतपुरुषार्थवैयधिकरण्यवृत्तत्वात् 'त्वं पचति' इति प्रयोगवदिति साधूक्तम् । एवं तावत् प्रकृत्ययथार्थत्वं प्रत्ययायथा त्व?]द्वारेणानपायित्वादुक्तम् ।
15 प्रत्ययपुरुषायथार्थत्वेऽप्येषैकैव भावना । प्रकृत्यविनाभावित्वात् प्रत्ययस्य प्रत्ययत्वात् एहि मन्ये रथेन यास्यसि इत्यस्मात् तद्विपरीतादपि तद्वदेव प्रतिपत्त्या प्रत्ययादिलक्षणालक्षणीकरण प्रतिपत्तश्चाप्रतिपत्तित्वं यदृच्छाप्रवृत्तत्वादित्यादि यावदयमवधिः समानभावनः प्रत्ययपुरुषार्नुरूपेण योज्यत इति । इत्यर्थत्रयविषयमयथार्थत्वमिति निगमनम् ‘इति'शब्दनिगमनार्थत्वात् , अनया भावनया भावितमेव भवति 'अगमकमसाधु' इत्यपि द्रष्टव्यं बुद्धिचक्षुषा । इदं च द्रव्यतोऽयथार्थत्वम् , यस्मात् 20 'नाहं त्वम्' इत्यस्मद्युष्मद्रव्यविपर्ययेणायथार्थत्वमेतत् । यथा चैतत् तथा घटपटादिशेषोपपद विषयो भिन्नव्यवहारो निराक्रियते 'त्वं पचति' इत्यादिकुंटुक्त्वादिप्रयुक्तभिन्नलिङ्गादिविपर्ययार्थशब्दप्रयोगवदिति ।
प्रहासादिदमसत्यमेवेति चेत् । स्यान्मतम्-‘एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पिता' इत्येतदसत्यमेव प्रहासविषयत्वात् । अत एव लक्षणमुक्तम्-प्रहासे च मन्योपपदे मन्यतेरुत्तम ३.३-१ एकवच [पा० १।४।१०६] इति, तथा द्विवचनबहुवचनविषयावप्युदाहृतौ ‘यास्यथः, यास्यथ' इति । 25
१एवमेवं च भा० ॥ २ प्रकृति य०॥ ३दृश्यतां पृ० ५७० पं. ३ ॥ ४ प्येषैव भावना' इत्यपि पाठः सम्भवेदत्र ॥ ५ दृश्यतां पृ० ५६९ पं० ५॥ ६°रूण भा० । (रूप्येण ?)॥ ७ इत्यस्य प्र०॥ ८°यथार्थमत्वतत् प्र०॥ ९ कुटुक्त्वादि भा० प्रतौ नास्ति ॥ १० “एहि मन्ये ओदनं भोक्ष्यस इति, भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदन भोक्ष्येथे भोक्ष्यध्वे ।"-पा०सिद्धान्तकौमुदी ॥३।१०१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org