________________
५७०
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे 'एहि मन्ये' इति प्रस्तुतक्रियाविसंवादात् 'त्वं यामि, अहं यासि' इति प्रयोगवदयथार्थमगमकमसाधु । प्रस्तुतप्रत्ययविसंवादाद्वा, देवदत्तो भूयत इति प्रयोगवत्। अङ्गीकृतपुरुषार्थवैयधिकरण्यवृत्तत्वात् , त्वं पचतीति प्रयोगवत्।।
अत्र प्रत्ययपरा प्रकृतिः प्रयोक्तव्या, प्रयोगकाले केवलयोः प्रकृतिप्रत्यययोहरसम्भवात् तथाऽनर्थकत्वात् काकवासितवत् । शिक्षणार्थं तु चित्रभक्तिबिन्दु
पौर्वापर्यप्रत्ययत्वाद् ब्रह्मचारिपितृत्ववदित्येव सम्बन्धः । अत्र प्रयोगः-एहि मन्य इत्यादि यावदयथार्थमगमकमसाधु इति प्रतिज्ञास्तिस्रः । प्रस्तुता क्रिया मन्यतिः, तया सामानाधिकरण्यं विसंवदति प्रत्ययस्योत्तमपुरुषाख्यस्य एहिशब्दप्रयुक्तमध्यमपुरुष[वि]संवादादिति हेत्वर्थः । 'त्वं यामि, अहं यासि' इति
प्रयोगवदिति तदर्थनिदर्शनं हेत्वर्थानुरूपेण योनार्थयोर्मध्यमोत्तमविशिष्टयोर्भेदे सति विसंवादादयथार्था10 गमकासाधुत्ववदिति । प्रस्तुतप्रत्ययविसंवादाद्वेति द्वितीयो हेतुः । देवदत्तो भूयत इति यथेति
दृष्टान्तः । देवदत्त इति प्रथमानिर्दिष्टः कर्बर्थः प्रकृत्यर्थमात्रवाचिना भावसाधनेन 'भूयते'शब्देन र्सीमाना
धिकरण्यं नार्हति 'भवति' इत्यनेन तु स्यात् तथा 'एहि'शब्दप्रस्तुतमध्यमपुरुषान्तेन 'मन्ये' इत्युत्तमान्ता३८२-१ यथार्थागमकासाधुत्वान्युपनेयानि । प्रस्तुतप्रत्ययविसंवादस्फुटीकरणार्थमाह-अङ्गीकृतपुरुषार्थवैयधिकरण्य
वृत्तत्वादिति । तस्य निदर्शनम्-त्वं पचतीति यथेति । 'त्वम्' इति युष्मदुपपदे 'पचति' इति शेषोपपद15 विषयप्रथमपुरुषप्रयोगो विसंवदति तथा 'एहि मन्ये यास्यसि' इति ।
अत्र प्रत्ययेत्यादि वाक्यावधिकेऽर्थे पदावधिके वा प्रतिपाद्ये वाक्यं पदं वा प्रतियोगिशब्दार्थापेक्षमेव गमयति केवलस्याप्रयोगात् । पदावधिके तावदयं नियमः-प्रत्ययपरा प्रकृतिः प्रयोक्तव्या, 'प्रकृतेः परः प्रत्ययः' [पा० म० भा० ३।१।२] इति व्यवस्थापितत्वात् प्रयोगकाले केवलयोः प्रकृतिप्रत्यय
योरसम्भवात् , असम्भवश्च तथानर्थकत्वात् भू-लट्-तिप्-शपादीनाम् , किमिव ? काकवासितवत् , यथा 20 वायसवासितादीनां न कश्चिदभिधेयोऽर्थोऽस्ति तथा भू-तिपादीनां केवलानाम् ।
किमर्थं तर्हि भू सत्तायाम् [पा० धा० १] कर्तरि कृत्, लः कर्मणि च [पा० ३।४।६७, ६९ ] इत्यादि प्रकृतिप्रत्ययार्थ (र्थ?)पाठ इति चेत्, उच्यते-शिक्षणार्थ तु चित्रभक्तिबिन्दुविन्यसनवत् पृथगध्ययनम् । 'शिष्यान ग्राहयामि' इति विभज्य प्रकृतिप्रत्ययार्थों देश्यते । यथा एकामेव काष्ठादिभक्तिं लेखयिष्यंश्चित्रकराचार्यः शिष्यान् पूर्वं बिन्दुविन्यासान् कारयति पश्चात संयोजयति ततः सा दर्शनीया 25 चक्षुरमणीया पुष्प-वल्ली-गृह-मनुष्य-स्त्री-हत्यादिसंस्थाना संव्यवहारार्हा भक्तिर्भवति एवं प्रकृतिप्रत्ययार्थोपप्रदर्शनं पृथक् क्रियते, अपृथक्सिद्धसमुदायार्थप्रतिपत्त्युपायत्वात् ।
१ दृश्यतां पृ० ५७१ पं० १८ । (रूप्येण?)॥ २यानर्थ्ययोर्म भा० । यार्थानायोर्म य० । 'या'धातोर्यावौँ तयोर्मध्यमोत्तमविशिष्टयोर्भेद इत्याशयो भाति । (यार्थान्यार्थयोर्म°?) ॥ ३°गमकसाधुत्व प्र० ॥ ४ समाना प्र० ॥ ५ दृश्यतां पृ० ५७१ पं० १३ ॥ ६ “वर्तमाने लट् । ३।२।१२३। तिप्तझिसिप्थस्थमिब्वस्मस्तातां झथासाथांध्वमिवहिमहिङ् । ३।४।७८। कर्तरि शप् । ३।१।६८”-पा०॥ ७ दृश्यतां टिपृ. ५८ टि० १॥ ८ दृश्यतां पृ० १२६ पं० ११ टि. ७ ॥ ९प्रत्ययार्थी प्र०॥ १० दश्येति य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org