________________
__ 10
नामद्रव्यार्थनयनिरासः]
द्वादशारं नयचक्रम् । लक्षणं हि नाम शब्दानां प्रकृतिप्रत्ययादिविभागान्वाख्यानम् । प्रकृत्याद्यर्थाव्यवस्थायां लक्षणाव्यवस्थानात् कुतस्तजन्यलक्ष्यतत्त्वप्रतिपत्तिः शब्दव्यवस्था च, अविविक्तीभावितस्खलक्षणविषयत्वात् , अविविक्तीभावितस्वलक्षणविषयस्थाणुपुरुषप्रतिपत्तिव्यवस्थावत् ।
'स वृक्ष आस्ते' इति प्रतिपद्य पुनः 'एहि मन्ये रथेन यास्यसि' इत्यस्मात् । तद्विपरीतादपि तद्वदेव प्रतिपत्त्या प्रकृत्यादिलक्षणालक्षणीकरणं प्रतिपत्तेश्चाप्रतिपत्तित्वं यदृच्छाप्रवृत्तित्वात् । संवादात् प्रतीतिविरुद्धम् , 'पुनर्वसू'शब्दो द्वयर्थो द्विवचनान्तत्वात्' इति प्रत्ययो नक्षत्राभिधेयविषयप्रत्ययेन विसंवदति, स चानेन । किमिव ? कुमारब्रह्मचारिपितृत्ववत् , यदि कुमारब्रह्मचारी कथं पिता ? अथ पिता कथं कुमारब्रह्मचारीति ? तद्वदिहेति ।
तद् भावयति-लक्षणं हि नामेत्यादि । शब्दानां लक्षणं प्रकृतिप्रत्ययादिविभागान्वाख्यानम् , त द्धि 'लक्ष्याशब्दान् व्यवस्थापयामि' इति । तेषां च प्रकृत्यादि विभागानामव्यवस्था, प्रकृत्याद्यर्थायथार्थत्वात् । तस्यां च शब्द विषयप्रकृत्याद्यर्थाव्यवस्थायां तदाश्रितलक्षणाव्यवस्था । लक्षणाव्यवस्थानात् कुतस्तजन्यलक्ष्यतत्त्वप्रतिपत्तिः शब्दतत्त्वप्रतिपत्तिः शब्दव्यवस्था च? न स्तः । कस्मात् ? अविविक्तीभावितस्वलक्षणविषयत्वात् । दृष्टान्तः-विविक्तीभावितेत्यादि, यथा 'विविक्तौ सन्ता[व]-15 'विविक्तौ भावितौ स्वलक्षणाभ्यां स्थाणुपुरुषौ, तत्र या स्थाणौ पुरुषप्रतिपत्तिर्व्यवस्था च मिथ्याप्रतिपत्तिव्यवस्थे ते, कस्मात् ? अविविक्तीभावितस्वलक्षणविषयत्वात् , तथा शब्दानां लक्ष्याणां प्रतिपत्तिव्यवस्थे । लक्ष्याप्रतिपत्त्यव्यवस्थाभ्यां चाभिधानाभिधेयविषयप्रत्ययद्वयविसंवादात् 'कुमारब्रह्मचारी पिता' इति प्रत्ययवद् नक्षत्र-पुनर्वस्वाद्येकद्वित्वादिविरोध इति सम्बन्धः ।
३८१-२ एवं तावत् सङ्ख्याविषयप्रकृतिप्रत्ययप्रतिपत्तिविरोध उक्तः । अतः परं पुरुषविषय उच्यते, तद्यथा- 20 स वृक्ष आस्त इत्यादि यावदप्रतिपत्तित्वम् । 'सः' इति शेषोपपदे 'आस्ते' इति पुरुषविषयप्रकृतिप्रत्ययसंवादेन स्वयं प्रतिपद्य पुनः 'एहि मन्ये' इति तद्विपरीतप्रतिपत्त्या प्रकृत्यादिलक्षणमलक्षणीकृतं प्रतिपत्तिश्चाप्रतिपत्तीकृता तद्वदेवेति लक्ष्यतत्त्वाप्रतिपत्त्यव्यवस्थाद्वारेणेति । कस्मात् ? यदृच्छाप्रवृत्तित्वादसमीक्षित
१ दृश्यतां पृ० ५७१ पं० १७ । २ कुतस्तजन्यलक्ष्यतत्रे प्रतिपत्तिः शब्दतत्त्वप्रतिपत्तिः शब्दव्यवस्था च भा० । कुतस्तद्यन्यलक्ष्यतो प्रतिपत्तिः शब्दव्यस्था च य० । 'कुतस्तजन्यलक्ष्यतत्त्वप्रतिपत्तिः शब्दव्यवस्था च ?' इत्येवमपि पाठोऽत्र भवेत् ॥ ३ अविभक्ती प्र०॥ ४ विविक्ती सन्ता य० मध्ये नास्ति ॥ ५°विवक्तौ प्र० ॥ ६ दृश्यतां पृ० ५७१ पं० १८ ॥ ७ “शेषे प्रथमः । १।४।१०८। शेष इति मध्यमोत्तमविषयादन्य उच्यते । यत्र युष्मदस्मदी समानाधिकरणे उपपदे न स्तः तत्र शेषे प्रथमपुरुषो भवति । पचति। पचतः । पचन्ति ।"-पा० काशिका । “शेष उपपदे प्रथमो विधीयते। उपोचारितं पदमुपपदम् ।"-पा०म० भा० १।४।१०८॥ ८ “प्रहासे च मन्योपपदे, उत्तम एकवच ।१।४।१०६। प्रहासः परिहासः क्रीडा । प्रहासे गम्यमाने मन्योपपदे धातोर्मध्यमपुरुषो भवति, मन्यतेश्चोत्तमः, स चैकवद् भवति । एहि मन्ये ओदनं भोक्ष्यस इति, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पिता । मध्यमोत्तमयोः प्राप्तयोरुत्तममध्यमौ विधीयते । प्रहास इति किम् ? एहि मन्यसे ओदनं भोक्ष्य इति । सुत्रु मन्यसे, साधु मन्यसे ।"-पा० काशिका । एहि मन्ये रथेन यास्यसि रथेन यास्यामीति त्वं मन्यसे इत्यर्थः । ९ (यदृच्छाप्रवृत्तत्वा ?) । दृश्यतां पृ० ५७१ पं० १८॥
नय० ७२
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org