________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
प[सर्जनमेकमेव भवति, न विशेषः ] अर्थान्तराभाव-भवद्भवनाभ्यां केनचिदबाध्यत्वात् ।
यथा च विशिष्टः सामान्यनिरपेक्षो भवति तथा स्वविषयेऽप्येकवृक्षादिभवने द्विवचनादिविशेषान्तरनिरपेक्षेणैव तेनाभिन्नलिङ्गवचनादिना भवितव्यम् । यद्येकं नक्षत्रं कथं पुनर्वसू द्वौ, अथ द्वौ पुनर्वसू कथमेकं नक्षत्रम्, विरोधित्वादेकद्वित्वयोः ? इत्यादि सर्वं यथाविषयं प्रतिविधातव्यं घटपटादिवत् ।
प्रतीतेस्तादर्थ्यमेवेति चेत्, न, प्रत्यवयवप्रतीतेरेव एकत्वाद्यपेक्षयैकवचनादिशब्दप्रयोगप्रसिद्धेः । इदं त्वभिधानाभिधेयप्रत्यययोर्विसंवादात् प्रतीतिविरुद्धं कुमारब्रह्मचारिपितृत्ववत् ।
५६८
10 च भवति, तस्मादर्थान्तराभावादे भवत एव भवनाच्च केनचिदविशेषो न बाध्यते । यथोक्तं त्वया प्राकू 'वृक्षो वृक्षसामान्यमुपसर्जनीकृत्यैक एव भवति न द्वयादिरपि विशेषवशवर्तित्वाद् नाम्नः' [ ] इत्यादि । तस्मादिदमनिष्टं विशेषासत्त्वं प्रसक्तम् । तदसत्त्वात् सामान्यासत्त्वं दृष्टेष्टविरुद्धमापन्नमिति ।
३८०-२
किञ्चान्यत्, यथा च विशिष्ट इत्यादि । यथा च सामान्येन प्रतिपक्षेण विना विशेषस्त15 न्निरपेक्षो भवति भवत्येव विशिष्टस्तथा स्वविषयेऽप्येकवृक्षादिभवने द्विवचनादिविशेषान्तरनिरपेक्षेणैव तेनाभिन्नलिङ्गवचनादिना भवितव्यम् । त्वन्मते न पुनस्तथा भवति स विशेषः, नक्षत्र पुनर्वस्वादिसमानाधिकरणवचनलिङ्गादिभेददर्शनात् । तद् भावयति यद्येकमित्यादि साधनद्वयमनिष्टापादनम् विरोधित्वादेकद्वित्वयोरित्यादि सर्वं यथाविषयं प्रतिविधातव्यमित्यतिदेशाद् लिङ्गकालादावप्यनिष्टापादनसाधनानि द्रष्टव्यानि । यदि पुनर्वसू पुमांसौ न नक्षत्रं नपुंसकम् पुंस्त्वात्, 20 वृक्षवत् । अथ [ नक्षत्रं न पुमांसौ ] नपुंसकत्वात् कुण्डवदित्यादि । तथा 'तारा स्त्रीत्वात्' इत्यादि योज्यम् । घटपटादिवदिति विशिष्टयोर्घटपटयोरिवान्योन्यस्वरूपापत्तिर्नास्ति विशेषाणाम्, सामान्याभावात् । दृष्टं च नक्षत्र - पुनर्वस्वादिषु । तस्मादयुक्तमुक्तम्- सामान्यनिरपेक्षो विशेष एव शब्दार्थो विवक्षितत्वादिति । प्रतीतेस्तादर्थ्यमेवेति चेत् । स्यान्मतम् - लोकप्रतीतत्वाद् नक्षत्रार्थ एव पुनर्वस्वर्थ: पुनर्वस्वर्थ एव च नक्षत्रार्थ इति लोके प्रसिद्धमागोपालादि । तस्मात् सामान्यस्य विशेषत्वाददोषः, इतरथा नैरर्थ25 क्यमेव स्यादिति । अत्रोच्यते - न, प्रत्यवयवप्रतीतेरेवेत्यादि । वयमपि लोकप्रतीतेरेव ब्रूमः, द्वयेकयोद्विवचनैकवचने, बहुषु बहुवचनम् [पा० १।४।२२ - २१ ] इत्यर्थानामवयमवयवं प्रति विवक्षितानामेक३८१-१ त्वाद्यपेक्षयैकवचनादिशब्दप्रयोगप्रसिद्धेर्यद्येकवचनान्तः शब्दोऽभिधानार्थेनाप्येकेन भवितव्यम्, न व्यादिना । अथ व्यादिः, नैकवचनेन शब्देन भवितव्यम् उक्तवत् । इदं त्वभिधानाभिधेयप्रत्यययोर्वि
१ तुलना- पृ० ५६८ पं० २२ ।। २ तुलना-“अर्थान्तराभाव-भवद्भवनाभ्यां केनचिदबाध्यत्वात् " - नयचक्रवृत्ति. ३९४-१ ॥ ३ तुलना पृ० ३९३-२ ॥ ४ कृत्यैव एव भवति भा० । 'कृत्त्यैव भवति य० ॥ ५ तथा च य० ॥ ६ यदि तारा स्त्री न नक्षत्रं स्त्रीवाद् गङ्गावत्, अथ नक्षत्रं न स्त्री नपुंसकत्वात् कुण्डवदिति योज्यम् ॥ ७ दृश्यतां पृ० ५६८ पं० ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org