________________
नामद्रव्यार्थनय निरासः ]
द्वादशारं नयचक्रम् |
५६७
आगतं ततद् योऽर्थो द्रव्यं सोऽस्वतन्त्रो विशेषेण तथा तथा भाव्यते, ज्ञानमात्मा च विशेष एव भवति । तत्र यदि [ सेन्द्रियाणि मतिश्रुतावधिमनः पर्यायज्ञानानि ततस्तेषामिन्द्रियकृतत्वादज्ञानत्वात् केवलमेव ] एकं ज्ञानं स्यात् । आत्मनश्च [ अशरीरस्यैव खतन्त्रस्य कर्तृत्वात् ] अशरीरेण सिद्धकेवलिना कृतं कर्म - अन्वेष्यं स्यात् । न हस्तादिमद्रागिकृतमपि स्यात् कर्म, तस्यैव संसारित्वेष्टे.... आत्मनोऽन्यत्वात् । तथा आकाशघटयोरनावृत्यावृत्यात्मकत्वात् कुतो घटाकाशमाकाशघटो वा ? एवं कुतः सान्योन्यानुगमरूपता ?
5
अन्यरूपानुगमात्तु चेतनाचेतनयोरात्मभावत्यागात् द्रव्यस्य सामान्यभवन
अत्रोच्यते - आगतं तर्ह्येतदित्यादि यावद् विशेष एव भवतीति । योऽर्थो द्रव्यं सामान्यं विशेषो वा प्रकृत्यर्थः प्रत्ययार्थो वा भवनं भाव इति योऽस्तु सोऽस्तु सर्वथा सोऽस्वतन्त्रो विशेषेण 10 ज्ञानेन तथा तथा भाव्यते देव्येन्द्रियादि तत् सर्वात्मना ज्ञानमात्मा च विशेषः स भावयति । यद्यपि भवत् सामान्यं भावस्तथाप्युपसर्जनम्, विशेषः प्रधानमित्युक्तं भवति । तत्र यदीत्याद्यनिष्टापादनं परस्य यावदेकं ज्ञानं स्यादिति हेतुहेतुमद्भावेन गतार्थम् । सेन्द्रियाणि मति - श्रुता - Sवधि-मनः पर्यायज्ञानानि, तानीन्द्रियकृतत्वादज्ञानानि स्युः, केवलज्ञानमेवैकं ज्ञानं स्यादिति ।
किञ्चान्यत्, - आत्मा (त्म )नश्चेत्यादि । आत्मैव स्वतत्रश्चेतनत्वात्, न शरीरम्, स्वतन्त्रश्च कर्ता 115 ततश्चाशरीरेण शुद्धेन सिद्धकेवलिना कृतं कर्मान्वेष्यं स्यात्, तच्चात्यन्तदुर्लभं मुक्तसंसारप्रसङ्गादनिष्टं च । न हस्तादिमद्रागिकृतमिष्टमपि स्यात् कर्म, तस्यैव संसारित्वेष्टेः पूर्ववद्धेतुहेतुमद्भावेना- ३८०-१ पादनं यावदात्मनोऽन्यत्वात् । एवं प्राच्योदाहरणद्वयं व्यभिचारितम् । तृतीयमपि तथाकाश-घटयोर्यथासङ्ख्यमैनावृत्या[वृत्या]त्मकत्वात्, आकाशमनावृत्यात्मकं चेदावृत्यात्मक घटीभवति घटश्वानावृत्यात्मकाकाशीभवति आवृत्यात्मक: संस्ततो 'घटाकाशम्' इति स्यात्, तत्तु त्वन्मते न । आकाशमेवामूर्तम्, 20 तद्विपरीतो घटो मूर्त एवेति कुतो घटाकाशमुदाहरणं घटते, घटात्मानापत्तेराकाशस्य, ओकाशानात्मापत्तेर्घस्य आकाशघटो वा तद्विपरीतगुण उदाहरणमिति ?
एवमित्यादि । अनेन प्रकारेण द्रव्यस्य भवने परिगृहीते दृष्टान्तस्य विपर्ययसाधनत्वात् कुतः सान्योन्यानुगमरूपता या त्वया प्रतिज्ञाता एवं मदुक्तन्यायात् त्वन्मतेन च द्रव्यस्य कारणस्य सँदा[ऽऽत्म]रूपापरित्यागात् ? इत्युक्तं परस्यानिष्टापादनम् । अत एव स्वमत विशेषप्रधानभवन - 25 सामान्योपसर्जनभवनप्रतिपादनार्थमाह- अन्यरूपानुगमात्त्वित्यादि । तुशब्दः परमतव्यावृत्तिं स्वमतसिद्धिं च विशेषयति । चेतनाचेतनयोरात्मभावत्यागात् त्वदुक्तात् द्रव्यस्य सामान्यभवनमुंप[सर्जनं] भवदेव
I
।
१ ( इति बा ? ) ॥ २ (द्रव्येन्द्रियादिवत् सर्वात्मना ? ) ॥ ३ मनावृत्त्यात्मकत्वात् आकाशमावृत्त्यनावृत्यात्मकं प्र० । आवृतिरावरणम्, अनावृतिरनावरणमित्यर्थः ॥ ४ वृत्त्या प्र० । एवमग्रेऽपि ज्ञेयम् ॥ ५ (आकाशात्मानात्ते ? ) | घटाकाशस्योदाहरणत्वानुपपत्तिमभिधाय इदानीमा काशघटस्योदाहरणत्वानुपपत्तिमभिदधातिआकाशानात्मेत्यादि ॥ ६ द्रव्यकारणस्य भा० । ७ ‘सदा[स्त्र]रूपापरि” इत्यपि पाठोऽत्र भवेत् ॥ ८ त्वदुक्तत्वात् भा० ॥ ९ अत्र कश्चित् पाठः खण्डितो भाति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org