________________
५६६
न्यायागमानुसारिणीवृत्त्यलकृतं [अष्टम उभयनियमारे मूर्तः कुड्यादिप्रतिहतगतित्वाद लोष्टादिवत् । तद् नाम नोपयोगस्य द्रव्यं मूर्तत्वाद् मृद्वत् । उक्तं हि
ने हि मूर्तममूर्तत्वं नामूर्तमेति मूर्तताम् ।
द्रव्यं त्रिष्वपि कालेषु च्यवते नात्मभावतः ॥ [ ] 5 नन्वन्योन्यानुगतखरूपत्वा निवृत्त्युपकरणेन्द्रियज्ञानतन्वात्मद्रव्यवद् द्रव्यं मूर्तममूर्तस्य ज्ञानस्य । द्रव्येन्द्रियं मूर्तममूर्तस्य ज्ञानस्य द्रव्यम् । शरीरादिकरणाद् भवान्तरात्मनस्तन्वादि द्रव्यम् , घटश्च घटाकाशस्य ।
मूर्त इति [प्रति]पद्यताम् , कुड्यादिप्रतिहतगतित्वात् , यस्य गतिः कुड्यादिभिः प्रतिहन्यते तद्
मूर्त दृष्टम् , यथा लोष्टादीति । तद् नाम नोपयोगस्येत्यादि अर्थप्रदर्शनसाधनम् । उपयोगो न 10 मूर्तद्रव्यहेतुकः, अमूर्तत्वात् , आकाशवत् , न ह्याकाशं मृदादिदण्डादिमूर्तद्रव्यस्य कार्यमिति साधर्म्य
दृष्टान्तः । मृद्वदिति वैध\ण, यद् मूर्तद्रव्यहेतुकं न तदमूर्तं यथा मृदिति । अथवा नामूर्तस्य द्रव्यं नामशब्दः, मूर्तत्वात् , मृद्वत् । यदमूर्तस्यावगाहादेर्द्रव्यं न तद् मूर्तम् , यथा आकाशमिति । उक्तं हीत्यादि ज्ञापकमाह । न हि मूर्तममूर्तत्वं वर्णा दिमत् पु[ग]लद्रव्यं मूर्त सवर्णाद्यात्मकत्वममूर्तत्वं न
गच्छति न तथा परिणमति जीवा-ऽऽकाश-धर्मा-ऽधर्मत्वं न याति । नामूर्तमेति मूर्तत्वम् , नाप्या15 काशाद्यमूर्तं मूर्तत्वं प्रयाति । द्रव्यं त्रिष्वपि अतीतानागतवर्तमानेषु कालेषु, न कदाचिदित्यर्थः, यस्माद्
नात्मभावम् , यावद्रव्यभावी यो धर्मः स आत्मभावः, तमात्मभावं न कदाचित् परित्यजति द्रव्यमिति ।
___अत्राह-नन्वन्योन्यानुगतेत्यादि यावद् घटाकाशस्येति । 'नात्मभावं त्यजति पररूपं नाप्नोति' इत्येतद्युक्तम् , अन्योन्यानुगतस्वंपरत्वात् क्षीरोदकवत् । अन्योन्यानुगतस्वरूपत्वनिदर्शनं निवृत्तीत्यादि 20 यावद् द्रव्यवत् । वत्करणं 'निर्वृत्त्युपकरणेन्द्रियज्ञानवत् तन्वात्मद्रव्यवच्च' इति प्रत्येकं परिसमाप्यते । ३७२-२ द्रव्यं कारणं मूर्तममूर्तस्य ज्ञानस्य, द्विविधं द्रव्येन्द्रियम् - निर्वृत्तिरुपकरणं च, निर्वृत्तिः पक्ष्मपुट-कृष्ण
सारादिद्रव्यनिष्पत्तिः, 'निर्वृत्तमुपकरोति' इत्युपकरणं मसूरकाकारांश्चक्षुर्मध्यप्रदेशाः प्रकाशाञ्जनादयश्वोपैकरणानि । एतद् द्विविधमपि ज्ञानस्य द्रव्यं दृष्टम् । तस्य व्याख्यानम्-द्रव्येन्द्रियं मूर्तममूर्तस्य ज्ञानस्य द्रव्यम् । तथा 'तन्वात्मवत्' इत्यस्य व्याख्या-शरीरादिकरणाद् भवान्तरात्मनः, *कायादित्रिविधयोगकार्य शरीराङ्गोपाङ्गादिनामकर्म, तस्य करणात् तन्वादि भवान्तरे जन्मान्तरे य आत्मा तस्य द्रव्यं कारणं भवति* । घटश्च घटाकाशस्येति मूर्तो घटोऽवगाहानुमेयस्याकाशस्यावगाहात्मन इति ।
१“नामूर्त मूर्ततां याति मूर्त नायायमूर्तताम् । द्रव्यं त्रिष्वपि कालेषु च्यवते नात्मभावतः ॥” इत्यपि पाठोऽत्र सम्भवेत् । तुलना-"नामूर्त मूर्ततां याति मूर्त नायायमूर्तताम् ।" शास्त्रवार्तासमु० ३।४१। 'नामूर्त मूर्ततामेति मूर्त नायात्यमूर्तताम् । द्रव्यं कालत्रयेऽपीत्थं च्यवते नात्मरूपतः ॥"-सन्मतिवृत्ति. १।५३, पृ० ४५६ । २°स्वपत्वात् य० । अत्र 'स्वरूपत्वात्' इति पाठः समीचीनो भाति ॥ ३ ज्ञानस्य द्रव्यं द्रव्येन्द्रियम् भा० ॥ ४रश्चक्षु प्र० ॥ ५°श्वोपकारणानि प्र.। (श्चोपकारकाणि?)। ६* * एतदन्तर्गतः पाठो य० मध्ये नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org