________________
नामद्रव्यार्थनय निरासः ]
द्वादशारं नयचक्रम् |
५६५
अथोच्येत - सामान्यमविशेषः, उभयोः परस्परकारणत्वाविशेषत्वात् । अथ कस्मादुपयोग एव नामत्वमापद्यते ? इति उपयोगत्व प्राप्तेर्नाम्नः सर्वत्र विशेष - प्रधानत्वम् ।
तस्यापि वा नामशब्दस्य उरःप्रभृतीत्यादि [ना] नामद्रव्यार्थं हित्वा द्रव्यद्रव्यार्थोऽङ्गीकृतः मूर्तद्रव्याभ्युपगमात् । मूर्तममूर्तस्य द्रव्यं न भवति । नामशब्दो 5
योगस्य शब्दः कार्यम्, स एव कारणमुपयोगस्य कुम्भकारशरीरादेरिति तत्कारणं तदिति त्वयैव प्रागू भावितं विस्तरेणैतत् ।
अथोच्येतेत्यादि पूर्वपक्षो गतार्थो यावदविशेषत्वादिति । सामान्यमविशेषः, तद्भवनमात्रत्वं न विशेष इत्येतदापन्नमिति भावितोऽर्थ उभयोः परस्परकारणत्वाविशेषत्वादिति ।
अत्रोत्तरम् - अथ कस्मादित्यादि यावत् सर्वत्र विशेषप्रधानत्वमिति । उपयोग एव नामत्वमा - 10 पद्यत इति विशेषस्योपयोगस्य प्रौधान्यमुपयोगत्व प्राप्तेर्नानः । तस्यापि वा नामशब्दस्येत्यादि, 'नामशब्द:' इति 'वीणा-वेणु - तालशब्दादिभ्यो विशिष्यते प्रकृतत्वादौपयोगित्वाच्च तस्य उरःप्रभृती - याद[] नामद्रव्यार्थं हित्वा त्वया द्रव्यद्रव्यार्थोऽङ्गीकृतः, तद्यथोक्तम्
आत्मा बुद्ध्या संमर्थ्यार्थान् मनो युद्धे विषक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ ६ ॥ मारुतस्तुपरि चरन् मन्द्रं जनयति स्वनम् ॥ ७ ॥
[ पा० शिक्षा ]
इत्यादिना मूर्तद्रव्याभ्युपगमात् । आर्षमपि ज्ञापकम्, नोआगमतो द्रव्यं शरीरमुक्तम्, तद्यथाइमेणं सरीरसमुस्सएणं सामाइएत्ति पदं आघवितं पण्णवितं [
अहो
]
इत्यादि । तस्माच्छब्दकारणत्वत्यागेन मूर्तद्रव्यकारणत्वाभ्युपगमस्ते विरोधायापद्यते । अत आह- मूर्तममूर्तस्य द्रव्यं न भवति परिणामिकारणमित्यर्थः । यथा 'मूर्तममूर्तस्य कारणं न भवति' इत्ययमभ्युपगमः 20 तथा नामशब्दस्य मूर्तत्वादमूर्तोपयोगकारण्यं न युज्यते ।
स्यान्मतम् - कथं मूर्तः शब्दो यतोऽस्यार्मूर्तज्ञानकारण्यं न भवेदिति । अत्र ब्रूमः नामशब्दो
३७९-१
१ दृश्यतां पृ० ५५९ पं० ४ ॥ २ भावितार्थो य० ॥
३ प्राधान्यामुप भा० । प्राधान्यानुप य० ॥ ४ वीणावीताल प्र० ॥ ५ वाक्यपदीय[१।११६] स्ववृत्तौ भर्तृहरिणापि 'समर्थ्यार्थान्' इति पाठेनायं श्लोक उद्धृतः । "समेत्यार्थान् " - पा० शिक्षा ॥ ६ " मारुतस्तूरसि चरन् मन्द्रं जनयति खरम् " - पा० शिक्षा ॥ ७ °स्सएण प्र० ॥ "से किं तं नोआगमओ दव्वावस्सयं ? २ तिविहं पण्णत्तं तं जहा - जाणयसरीरदव्वावस्सयं भविअसरीरदव्वावस्सयं जाणयसरीरभविअसरीरवतिरिक्तं दव्वावस्सयं [ सू० १५] । से किं तं जाणयसरीरदव्वावस्सयं ? २ आवस्सएत्ति पयत्था हिगार जाणयस्स जं सरीरयं ववगयचुतचावितचत्तदेहं जीवविप्पजढं सिजागयं वा संथारगयं वा निसीहिआगयं वा सिद्धसिलातलगयं वा पासित्ता णं कोई भणेजा-अहो णं इमेणं सरीरसमुस्सरणं जिणदिट्ठेणं भावेणं आवस्सपत्ति पयं आघवियं पण्णवियं परूविअं दंसिअं निदंसिअं, जहा को दिŚतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी, से तं जाणयसरीरदव्वावस्सयं [ सू० १६] ।......नामनिप्फण्णे सामाइए । से समासओ चउव्विहे पं० तं० णामसामाइए ठेवणासामाइए दव्वसामाइए भावसामाइए । नामठवणाओ पुब्वं भणियाओ । दव्वसामाइए वि तहेव [सू० १५०] ।” इति अनुयोगद्वारसूत्रे उल्लेखः ॥ ८ ° मूर्तिज्ञान
प्र० ॥
Jain Education International
15
For Private & Personal Use Only
www.jainelibrary.org