________________
५६४
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे भावः। सोऽपि द्रव्यार्थतां हित्वा भवति । तेनापि विशेषेणैव भूयते । स हि भावागमः। शब्दो द्रव्यागमः। तथाह्याहुः-आगमतो जाणये अणुवयुत्ते दव्वसुतं [ ]।
ज्ञानमेव प्रधानम् । तत एव चास्योत्पत्तिः । प्रवृत्तिश्च तादर्सेन, शिबिकावाहकयानेश्वरयानवत् । अतस्त्वदुक्तिवदुपयोगविशेषभवनप्राधान्यं तत्कार्यत्वाच्छ5 बदस्य तत्कारणत्वाच ।
क्षायोपशमिको भावः क्षणे क्षणेऽन्यत्वाद् द्रव्यार्थतां त्यक्त्वा भवति क्षणिकत्वात् । तेनापि विशेषेणैव
भूयते, विशेष एव भवति, उक्तशब्दार्थव्युत्पत्तिर्भवति, भवत् प्रधानं भाव इत्युपक्रम्य यावद् बालादिभेदं ३७८-१ दृश्यते एव इत्यक्षरार्थों गतः । वस्त्वर्थतश्च भावितम्-सामान्यमुपसर्जनं विशेषः प्रधानं भावः शिविका
वाहकयानेश्वरयानवदिति । 10 स हि भावागमः, यस्मात् क्षायोपशमिकभावो ज्ञानं भावागम उच्यते तस्मात् स प्रधानं
भवति, मर्यादयाभिविधिना च गमोऽवबोधः, ततः शब्दस्यागमत्वम् , तत उत्थाप्यते शब्दो ज्ञानात् । तस्माच्छब्दो द्रव्यागमः । तथाह्याहुरिति शब्दद्रव्यागमत्वे ज्ञापकमार्षम्-आगमतो जाणये अणुवयुत्ते दवसुतमिति ।
___इतश्च ज्ञानमेव प्रधानम् , यस्मात् तत एव चास्योत्पत्तिः शब्दस्य ज्ञानादेवोत्पत्तिः, वक्तर्ज्ञानेनो15 स्थापितत्वात् , ज्ञानमेव शब्दस्य कारणम् । प्रवृत्तोऽपि शब्दः परतन्त्री ज्ञानार्थत्वात् , परतत्रो
ज्ञानोत्पादनार्थत्वाच्छ्रोतरीत्यत आह-प्रवृत्तिश्च तादर्थेन । तन्मूलोत्पत्ति-तदर्थत्वाभ्यां ज्ञानं प्रधानमित्येतस्मिन्नर्थद्वये दृष्टान्तः-शिबिकावाहकयानेश्वरयानवदिति वैतनिकानां यानं यात्राप्रेरितमीश्वरेण प्रवृत्तमपीश्वरयानार्थम् , अतोऽपि द्विधापीश्वरप्राधान्यवद् ज्ञानप्राधान्यमिति ।
अतस्त्वदुक्तिवदित्यादि । सामीप्येन सर्वात्मना योग उपयोगः रूपाद्यर्थसमीपे सर्वात्मप्रदेशानां 20 तत्प्रवणता, शब्दोपयोगात्मयोगवक्रताऽवक्रतादेस्तिर्यग्-मनुष्यनामनिर्वर्तितं मृदादि कुम्भकारादि च यथासङ्ख्यं भवति रूपादिमदर्थविरचनात्मकत्वात् कुम्भकारादिकार्यवद् नानो भवति,
___ आत्मा बुझ्या समर्थ्यार्थान् मनो युङ्क्ते विवक्षया । [पा० शिक्षा ६ ] ३७८-२ इत्यादि सर्वं त्वदुक्तोपपत्तिजातमुपयोगविशेषभवनप्राधान्यं साधयति, तत्कार्यत्वाच्छब्दस्य, उप
१ "से किं तं दव्वावस्सयं? २ दुविहं पण्णत्तं तं जहा-आगमओ अ नोआगमओ अ [सू० १२] 1 से किं तं आगमओ दवावस्सयं ? २ जस्स णं आवस्सएत्ति पदं सिक्खितं ठितं जितं मितं परिजितं नामसमं घोससमं अहीणक्खरं अणचक्खरं अव्वाइद्धक्खरं अक्खलिअं अमिलिअं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोढविप्पमुक्कं गुरुवायणोवगयं,से गं तत्थ वायणाए पुच्छणाए परिअट्टणाए धम्मकहाए नो अणुपेहाए। कम्हा? 'अणुवओगो दव्य'मिति कट्ठ[सू० १३] । से तं आगमओ दवावस्सयं..........[सू० १४ ] ...............से किं तं आगमतो दव्वसुअं? २ जस्स णं सुएत्ति पयं सिक्खियं ठियं जियं जीव णो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कटू । .. से तं आगमतो दव्वसुअं[सू३३]।" इति अनुयोगद्वारसूत्रे पाठ उपलभ्यते ॥ २°त्पत्तिभवति भा०॥ ३ दृश्यतां पृ० ८ ५० ७॥ ४ दृश्यतां पृ० ५५५ पं० ७॥ ५ दृश्यतां पृ० ५५६ पं० ५॥ ६ वक्रुझानेनो प्र०॥ ७ परतन्त्राज्ञानोपादानार्थ य० । परतन्त्रज्ञानोपादानार्थ भा०॥ ८दृश्यतां पृ० ५५९ पं. ४ ॥ ९ "समेत्यार्थान्"-पा० शिक्षा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org