________________
५६३
नामद्रव्यार्थनयमतम्]
द्वादशारं नयचक्रम् । नाम, घटस्य ततो भवनात्, मृद्वत् । अनया [यथा घटो भवति तथा नाना घटो भवति ] घटक्रियात्मकत्वं वा भावकत्वम् । रूपाद्युपयोगभवनमन्तर्निविष्टशब्दानुबद्धं तच्छब्दात्मकम् । तस्मान्नामद्रव्यस्यानुपसर्जनतैव । एष नामद्रव्यार्थनयः। ___अस्यापि नियमः । उपसर्जनत्वेनेष्यते, न प्राधान्येन । अर्थार्थत्वाच्छब्दप्रयोगस्यार्थः प्रधानम् , न शब्दः । अर्थस्यापि ज्ञानोत्पत्तिनिमित्तत्वाद् ज्ञानमेव प्रधानम् । । न हि नानो घटादि भवति । ततस्तु श्रोत्राभिघात एवोत्पद्यते । तथा च यदि नानो घटोत्पत्तौ द्रव्यत्वं स्यात् ततो घटार्थिनो भवतु घट इति प्रब्रवीरन् ।।
तस्मात् प्रवृत्ति-निवृत्तिकारणमार्थिनां तदभावार्थिनां च क्षायोपशमिको
भवनात् , 'ततो भवति' इति प्रतिपादितत्वात् सिद्धो हेतुः । यद् यतो भवति तत् तस्य कारणं दृष्टम् , यथा मृद् मृदो भवतो घटस्य कारणं तथा नाम घटस्य कारणमित्येतमर्थमुपनयति--अनयेत्यादि । यथा 10 घटस्य मृद् द्रव्यं भवति तथा नामेत्यर्थः । घटक्रियात्मकत्वं वा भावकत्वं नाम्न इति वर्तते, शब्दो द्रव्यभावं घटकरणात्मकत्वात् पूर्वोक्तात् प्रतिपद्यते, तस्माद् घटं भावयति नाम, नानो घटो भवतीत्यर्थः ।
___ रूपाधुपयोगेत्यादि । अथवा रूपाद्युपयोगो रूपादिज्ञानम् , तस्य भवनमन्तर्निविष्टशब्दानुबद्धं तच्छब्दात्मकम् , 'रूपणाद् रूपम् , रस्यत इति रसः, घायत इति गन्धः, श्रोत्रग्रहणं शब्दः' इति लक्षणात तस्योपयोगस्य शब्दात्मकत्वाद् रूपादीनां च तदात्मकत्वाच्छब्दो रूपादिरपि भवति । तस्माद् नामद्रव्य-18 स्यानुपसर्जनतैव प्राधान्यमेवेत्यर्थः । एष नामद्रव्यार्थनयः पूर्वपक्षः।।
___ अत्रोत्तरमुभयनियमभङ्गारः शब्दनयो वक्ष्यत्यतः-अस्यापि नियम इत्यादि । एषोऽपि नामद्रव्यार्थभावो नियतः उपसर्जनत्वेनेष्यते न प्राधान्येन, प्राधान्येन तु विशेषो नियत इत्युक्तः । न ब्रूमः-३७७२ 'शब्दो निमित्तमात्रव्यापतो ज्ञानोपकारी नास्ति' इति । ज्ञानस्यैव प्रधानस्योपकारकत्वेन वर्तते ज्ञानेनैव चोत्थाप्यते, अर्थप्रत्यायनार्थत्वाच्छब्दप्रयोगस्य । तस्मादर्थार्थत्वाच्छब्दप्रयोगस्यार्थः प्रधानं न शब्दः, 20 तस्याशब्दार्थत्वात् । अर्थस्यापि ज्ञानोत्पत्तिनिमित्तत्वाद् ज्ञानमेव प्रधानम् । न च ज्ञान-शब्दयोरैक्यम् , प्रत्यक्षप्रतीतिविरोधाभ्याम् । यस्मात् प्रत्यक्षमेव न नाम्नः शब्दाच्छोत्राभिघातकाराद् घटादि भवति, न शब्दः कारणं घटस्य ततोऽनुत्पत्तेः । ततस्तु शब्दाच्छ्रोत्राभिघात एवोत्पद्यते, तस्माच्छब्दः श्रोत्राभिघाते हेतुर्न घटे न ज्ञाने ।
तथा चेत्यादि यावत् प्रब्रवीरन्नित्यनिष्टापादनम् । यदि शब्दस्य घटोत्पत्तौ द्रव्यत्वं स्यात् ततो 25 घटार्थिनो भवतु घट इति प्रब्रवीरन् ; अरिविनाशार्थिनश्च राजानो विजिगीषवो न हस्त्यश्वं बिभृयुः, परबलमेति ‘मा भूत्' इति वा ब्रूयुः । न च तद् दृष्टमिष्टं वा ।
तस्मात् प्रवृत्ति-निवृत्तिकारणमार्थिनां तदभावार्थिनां च क्षायोपशमिको भावः ज्ञानावरणक्षयोपशमनिमित्तं ज्ञानमित्यर्थः, तत एव प्रवृत्तिनिवृत्तिदर्शनात् । सोऽपि द्रव्यार्थतां हित्वा
१ ततोऽर्थार्थिनस्तदभावार्थिनश्च भवतु मा भूदिति वा प्रब्रवीरन्' इत्यपि मूलमत्र सम्भवेत् ॥ २ व्यावृतो प्र०॥ ३ नाम्नीति प्र० ॥ ४°नुपपत्तेः प्र०॥ ५ परबलं मेति भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org