________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
एवमपि तु स्थितेऽर्थप्रतिपादनार्थत्वाच्छब्दप्रयोगस्य सर्वसर्वाभिधानलक्षणाव्यवस्थाव्यावर्तनार्थं बहिर्निमित्तनिरपेक्षं संज्ञामात्रसन्निवेशितं स्कन्दादित्वमभ्युपगन्तव्यम् ।
५६२
एवं हि सङ्केतमात्रत्वाच्छन्दार्थ सम्बन्धस्य मुख्यार्थाः सर्वदेशभाषा इत्येतदऽयत्नसिद्धम् । इदमप्यभियुक्तानामत एव स्मरणमुपपन्नम् — अनेकार्था धातवः" देश्यताम् । इति चेतनाचेतनभेदस्य समस्तस्यास्य जगतो भावकं नाम । घटस्य द्रव्यं
३७६-२ त्वात् सर्वेषां ज्ञान - गत्यर्थानां स्कन्दन - शोषण-विसैरण - रोदनेन्दन - सदन स्तम्भनाद्यर्थानां यावतां यस्मिन्नर्थे सम्भवस्तस्य तस्य तथार्थत्वे सर्वसर्वत्वम् । वसनाद् वस्तुवास्तुनी, शयनस्थानासनाघेकार्थत्वाच्च गतिनिवृत्ति - पर्यायाणां शेषधातूनां च वस्त्वर्थानतिवृत्तेः कतमद् द्रव्यं कतमेन निमित्तेन नाभिधीयते ? ततः 10 सर्व सर्वत्वम् ।
स्यान्मतम् - एवं तर्हि सुतरामतिप्रसङ्गापादनद्वारेण त्वयैव सर्वस्य बहिर्निमित्तापेक्षत्वं समर्थितम्, त्वत्पक्षेऽपि च सर्वसर्वाभिधानातिप्रसङ्गो दुर्निवार इति । एतच्चायुक्तमुक्तन्यायेनैव, एवमपि तु स्थित इत्यादि यावत् स्कन्दादित्वमभ्युपगन्तव्यमिति स्वप्रतिपिपाद्विषितार्थप्रतिपादनार्थत्वाच्छब्दप्रयोगस्य प्रसक्तेऽपि सर्वसर्वत्वे सर्वसर्वाभिधानलक्षणाऽव्यवस्था प्राप्तैव सा मा भूदिति तद्व्यावर्तनार्थं स्कन्दादि15 शब्दाः कस्मिंश्चिदर्थे बहिर्निमित्तनिरपेक्षाः संज्ञामात्रत्वेन सन्निवेशिताः सन्तो नियमेन तमेवार्थमभिदधतीति प्राप्तम् इतरथा सर्वसर्वत्वे सर्वाभिधानाव्यवस्थाऽवश्यम्भाविनी । तस्मात् संज्ञासन्निवेशान्न मे कश्चिद् दोष इति । तस्माच्चोद्याभासमेतत् 'समानदोषत्वादिति ।
३७७-१
एवं हीत्यादि अस्य न्यायस्य व्याप्तिप्रदर्शनम् । एवं च कृत्वा सङ्केतमात्रत्वाच्छब्दार्थसम्बन्धस्य मुख्यार्थाः सर्वदेशभाषा इत्येतद्यत्नसिद्धम् 'घटः कुटः कुम्भः ' 'क्षीरं पयः पालि दुग्धम्' 'अग्निरातुरः 20 ँकिचु मंङ्गलः' इत्यादीनां च सङ्केतवशादभिधित्सितैकार्थवाचित्वं सिद्धम्, 'नियतनिरपेक्षत्वात् सङ्केतस्य ॐ स्वोपयोगप्रतिपादन समर्थत्वाच्च तेषां तेषां शब्दानां डित्थादिवत् । इदमप्यभियुक्तानामत एव स्मरणमुपपन्नम्, नान्यथा, यथा - अनेकार्था धातव इति गतार्थं यावद् दृश्यताम् । इति चेतनाचेतनेत्यादि, अनेन प्रकारेण यदुक्तं नाम तच्चेतनाचेतनभेदस्य कुम्भकार - घटादेः पृथिव्यादि-मनुष्य-नारकतिर्यक्-सिद्ध-परमाणु-कालाकाशादेः समस्तस्यास्य जगतो भावकं नाम 'समस्तं जगद् नाम्नो भवति' 25 इति भावितम् । तस्मादेव घटो भवति, घटस्य द्रव्यं कारणम्, घटं भावयति नाम, घटस्य ततो
पा० धा० ९२८ ॥
१ 'दृश्यतामिति । चेतनाचेतनभेदस्य' इत्यपि योजनाऽत्र भवेत् ॥ २ विशरण' इति पाठोऽप्यत्र भवेत् । तुलना "षद विशरणगत्यवसादनेषु" - पा० धा० ८५४, १४२८ ॥ ३ सदन य० मध्ये नास्ति ॥ ४ "ष्ठा गतिनिवृत्तौ "५सङ्गोपादान' प्र० ॥ ६ सर्वसर्व सर्वत्वे भा० ॥ ७ किच्चु भा० ॥ ८ दृश्यतां टिपृ० ६३ पं० २० ॥ ९ नियता भा० । ( निमित्तनिरपेक्षत्वात् ? ) ॥ १० तेषां शब्दानां भा० ॥ ११ “कथमञ्जिरञ्चत्यर्थेऽपि वर्तते ? अनेकार्था अपि धातवो भवन्ति । - पा० म० भा० ८१२।४८ ॥ १२ दृश्यतामिति चेतनाचेतनेत्यादि प्र० । अत्र 'दृश्यतामिति । चेतनाचेतनेत्यादि' इत्यपि योजना भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org