________________
नामद्रव्यार्थनयमतम्]
द्वादशारं नयचक्रम् । येऽपि च ते समयान्तरपरिकल्पिताः स्कन्दरुद्रेन्द्राः तेषु एकस्मिन्नितरसंज्ञयोरपि प्रवृत्तिनिमित्तसद्भावात् त्रयोऽपि परस्परसंज्ञानिर्देश्याः स्युः। ___अथान्यतमनिमित्तमात्रं तत्त्वमिष्यते इष्टार्थविवक्षया एवं तर्हि विवक्षितेष्टार्थविषयव्यवहरणादन्तर्निविष्टशब्दानुबद्धचैतन्यनिमित्तः संज्ञाव्यवहारोऽभ्युपगतः, बहिर्निमित्तं तु त्यक्तम् ।
निमित्तप्रत्ययेन संज्ञाप्रवृत्ती यावत्सम्भवं संज्ञासन्निवेशे भावकादयोऽपि ते प्राप्ताः । तथा च यावत् किश्चिद् भवननिमित्तग्रस्तं तस्य सर्वस्येन्द्रस्कन्दादिरर्थः सर्वधातुभ्वर्थत्वात् पर्यायो घटकुटशब्दवत् । सम्भविघटनादिस्कन्दनादित्वाच सर्वसर्वत्वम् ।
सन्निवेशो न निमित्तान्तरात् । अभ्युपेत्यापि समयान्तरपरिकल्पितानां स्कन्दादीनामस्तित्वं निमित्तनियमा-10 भावदोष उच्यते—येऽपि च त इत्यादि । स्कन्देऽपि रोद[नमिन्द]नं च स्तः, अतः स रुद्र इन्द्रो वा किं न भवति ? तथा रुद्रेऽपि स्कन्दनेन्दने * इन्द्रेऽपि रोदनस्कन्दने * ततः स इतर इतरः स किं न भवति ? एकस्मिन्नितरयोरपि संज्ञयोः प्रवृत्तेर्निमित्तमस्त्येव । तस्मात् त्रयोऽपि परस्परसंज्ञानिर्देश्याः सङ्करेण स्युः। अथ मा भूदेष दोष इत्यन्यतमदेव निमित्तमेकं तत्त्वमिष्यतेऽसङ्कीर्णसंज्ञाव्यवहारार्थं 'स्कन्द ३७६-१ एव, न रुद्रो नेन्द्रः' इतीष्टार्थविवक्षया एवं तर्हि अन्यतमनिमित्तमात्रतत्त्वयाऽवधृतया संज्ञया 15 विवक्षितेष्टार्थविषयव्यवहरणादन्तर्निविष्टशब्दानुबद्धचैतन्यनिमित्तः संज्ञाव्यवहारोऽभ्युपगतः, बहिनिमित्तं तु त्यक्तमिति दोषः, तुशब्दादनिष्टसम्परिग्रहेष्टत्यागौ विशेषयति ।
किश्चान्यत्, निमित्यप्रत्ययेनेत्यादि । यदि स्कन्दनादिनिमित्तप्रत्ययेन संज्ञाप्रवृत्तिस्ततो यावसम्भवं याव[न्ति] निमित्तानि भवन-करण-शयन-भाषण-चङ्क्रमण-वर्तन-परिणमनादीनि सम्भवन्ति तावद्भिनिमित्तैः संज्ञासन्निवेशे सति रोदनाद् रुद्रो भवनाद् भवो भावकः करणात् कारक इत्यादिसर्वव्यपदेश-20 भाक्त्वाद् भावकादयोऽपि ते प्राप्ताः। ततश्च तथा च यावदित्यादि, यत् परिमाणमस्य यावत् , यावदेव किञ्चिद् भवननिमित्तग्रस्तं सर्वमित्यर्थः । तस्य सर्वस्य घटपटादेरिन्द्रस्कन्दादिरर्थः सर्वधात्वर्थानां
वर्थत्वात् पर्यायः, तद्वाचिनश्च पर्यायशब्दा एव । किमिव ? घटकुटशब्दवत् । सर्व एव सर्वः, घटः स्कन्दः, पँटः स्कन्दः, स्कन्दवैद्योऽपि स्कन्दः । एवं रुद्रेन्द्रादयश्च । स्कन्दोऽपि घटः पटश्चेत्यादि प्राप्तम् । एवं तावत् सर्वधातुभ्वर्थत्वात् सर्वसर्वत्वमविशेषात् । किञ्चान्यत् , विशेषतोऽपि सम्भविघटनादि-25 स्कन्दनादित्वाच्च सर्वसर्वत्वम् । चेष्टा-कौटिल्याद्यभिसन्ध्यनभिसन्धिपूर्वकपरिस्पन्दार्थत्वात् परिणत्यर्थ
१* * एतदन्तर्गतः पाठो य० मध्ये नास्ति ॥ २ इतरस्य किं प्र०॥ ३'मिष्यता भा० । मिष्यत्तो यः॥ ४ बहिनिमित्तं प्रत्यक्षमिति प्र०॥ ५°भाक्तत्वाद' प्र०॥ ६ त्वर्थत्वात् प्र०॥ दृश्यतां पृ० २४४ पं० ३॥ ७ पटः स्कन्दः भा० मध्ये नास्ति ॥ ८'स्कन्दवद्योऽपि' इति पाठोऽत्र सम्भवेत् , 'घटः स्कन्दः पटः स्कन्दः स्कन्दवत् , योपि स्कन्दः स स्कन्दः' इति च तस्याशयो ज्ञेयः॥ ९ धातुः त्वर्थत्वात् प्र०॥ १० सम्भवविध प्र०॥ ११ सर्वसर्वसर्वत्वम् भा० ॥
नय०७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org