________________
न्यायागमानुसारिणीवृत्त्यलङ्कतं
[ अष्टम उभयनियमारे
कुम्भकारकार्यवत् ।
नाम्न एव च प्रभावाद् घटस्य घटत्वम्, न बहिर्निमित्तापेक्षम् । तथाहिस्कन्दनादिनिमित्तानामनुपपत्तावपि जीवस्य जीवस्य वा निमित्तनिरपेक्षा संज्ञा क्रियते स्कन्दो रुद्र इन्द्र इति । प्रत्यक्षत्वात् सर्वलोकप्रसिद्धशब्दाभिधेयत्वाच्च तद्भूताः प्रत्यक्षाश्च गोपालादयो मुख्यया च वृत्त्योच्यन्ते तस्मात् त एव ते ।
५६०
सङ्ख्या - संस्थानादयो रूपादयः, ते यस्य सन्ति सोऽर्थो रूपादिमदर्थः, तस्य विरचना परस्पर सम्बन्धानुरूप्येण ३७५-१ घटना, स एवात्मा यस्य स्वरूपं मनुष्यतिर्यगङ्गोपाङ्गादिनामनिर्वृत्तकुम्भकारशरीरमृदादेरिति धर्मित्वेन सम्बध्यते । कुम्भकारकार्यवदिति दृष्टान्तः, यथा हि घटपिठरादि कुलालकार्यं तेन तेन मृन्मर्दनादिप्रकारेणान्तःसन्निविष्टशब्दानुविद्धकुम्भकार प्रवृत्त्या निर्वर्तितत्वात् तत्प्रभवं तदात्मकं कुम्भकार प्रवृत्त्यात्मकं रूपा10 दिमदर्थविरचनात्मकत्वात् तथा कुम्भकारशरीरमृदाद्यप्यन्तः सन्निविष्टशब्दानुविद्धचैतन्यप्रवृत्त्यात्मकमिति । अत्राह - प्रत्यक्षत एव दण्डादिबहिर्निमित्तादृते घंटा निर्वृत्तेः कथमिदमवधार्यते - नाम्नः साक्षाद् भवति, न दण्डादिभ्य इति ? अत्रोच्यते - नाम्न एव चेत्यादि । दण्डादीनां सतामप्यकिश्चित्करत्वाच्छब्दचैतन्यस्यैव प्रभावात् तत्प्रेरितप्रयत्न परिस्पन्दजनितनिष्येत्तिघटाख्यस्य वस्तुनस्तद्वस्तुत्वं घटत्वं नान एव महिम्नो लभ्यते न बहिर्निमित्तापेक्षम् । तत्प्रवृत्तीनामपि स्थाने स्थाने शब्दचेतननियोजिताना15 मात्मलाभात् तदात्मत्वम्, इतरथा तेषामतदात्मत्वे स्वरूपप्रवृत्तिरेव दुर्लभा, कुतो घटस्य घटत्वं वस्तुत्वम् ? * तस्मात् सर्वकारकसान्निध्येऽपि कर्तुरौदासीन्ये तदभावे वा क्रियायाः कार्यस्य चाभावः घटौदनपटवागादेः, अतः शब्दप्रभावप्रभवं सकलं जगदिति । तथा हीत्यादि तन्निरूपयति । हिशब्दो निदर्शने, एवं च कृत्वा स्कन्दरुद्रेन्द्राः स्कन्दिर् शोषणे, रुदिर अश्रुविमोचने, इदि परमैश्वर्ये [ पा० धा० ] इति 'स्कन्दनेन निमि३७५-२ तेन स्कन्दः, रोदनेन रुद्रः, इन्दनेन इन्द्रः' इत्येतेषां निमित्तानामनुपपत्तावपि गोपशुपालादेर्जीवस्या - 20 जीवस्य वा काष्ठकुंड्यपाषाणादेर्निमित्तनिरपेक्षा संज्ञा क्रियते 'स्कन्दो रुद्र इन्द्रः' इति, गोपालादीनामेव तैस्तैः शब्दैः समध्यारोपवशाच्चोच्यते । स्यान्मतम् - भवतीति भवो 'रोदितीति रुद्र इन्दतीति इन्द्र इति देवताविशेषाः तन्निमित्तभूतार्थभाजः सन्त्यप्रत्यक्षाः समयान्तरप्रसिद्धाः, तन्मुख्यप्रवृत्तेरितरत्रोपचारो भविष्यतीति । एतच्चायुक्तम्, प्रत्यक्षत्वादित्यादि यावत् तैं एव ते । अप्रत्यक्षास्ते भव - कार्तिकेयादयः समयान्तरप्रसिद्धशब्द परिकैल्पगम्या न सर्वलोकप्रसिद्धशब्दाभिधेया यथा गोपालादयः प्रत्यक्षाः 25 सर्वलोकप्रसिद्धशब्दाभिधेयाश्चेति तेषां सत्त्वं तच्छब्दात्मकत्वं चाप्रत्यक्षममुपचारगम्यं चेत्येतेभ्यः कारणेभ्यस्तद्भूताः स्कन्दादिशब्दभूताः प्रत्यक्षाश्च गोपालादयो मुख्यया च वृत्त्योच्यन्ते तस्मात् त एव ते, गोपालादय एव स्कन्दादयः, न समयान्तरपरिकल्पिताः सन्तीति । तस्माच्छब्दशक्तिप्रभावादेव संज्ञा
१ घटादिनिर्वृत्तेः य० ॥ २ (निष्पत्तेर्घटाख्यस्य वस्तुनस्तद्वस्तुत्वं ? ) ( ° निष्पत्तिर्घट ख्यस्य वस्तुनः, स्तुत्वं ? ) ॥ ३ घटत्वं भा० मध्ये नास्ति ॥ ४ 'महिम्नः' इति पञ्चम्यन्तं पदम् ॥ ५ स्थाने शब्द भा० ॥ ६ स्वस्वरूप भा० ॥ ७ स्कन्दिरशोषणे रुदिरु अश्रु प्र० । “स्कन्दिर् गतिशोषणयोः ९७९, रुदिर् अश्रुविमोचने इदि परमैश्वर्ये ६३ - पा० धा० ॥ ८ ( कु ? ) ॥ ९ रोदतीति प्र० ॥ १० त एव तेषु प्रत्यक्षास्ते भा० । त एव तेषु प्रत्यक्षास्ते य० ॥ ११ कल्पाः भा० ॥
१०६७,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org