________________
नामद्रव्यार्थभवनवादिनः पूर्वपक्षः] द्वादशारं नयचक्रम् । ज्ञापि तथोपश्रूयते-सव्वजीवाणं पि यणं अक्खरस अणंतभागो णिचुग्घाडितओ [नन्दीसू० ४२]।
अतो यथैव कुम्भकारकरणशब्दचेतनावैचित्र्यवृत्तितारतम्याध्यासनसमुपहितरूपा घटता नाम्नः साक्षाद् भवति तथा तथा, तथा तत्प्रभवमेव कुम्भकारशरीरमृदादि शब्दोपयोगात्मयोगवक्रताऽवक्रतादेः, रूपादिमदर्थविरचनात्मकत्वात्
व्यावृत्तिभ्यां वृत्तत्वात् । स्तम्भाद्याश्रयोपसर्पणं हितप्रवृत्तिवृत्तत्वं गम्यिादिभयादन्यतो गमनमहितव्या-5 वृत्तिवेत्तत्वं चेति सिद्धो हेतुर्वनस्पतिष्वपि । म्यादीनां तु त्रास-स्तम्भ-भ्रान्ति-पलायित-गतागतादिक्रिया भयाद्यविनाभाविन्यः सिद्धा एव, अतो हिताहितप्रवृत्तिव्यावृत्तिवृत्तता विद्यते शब्दानुविद्धचैतन्याविनाभाविनी यथा कुम्भकारे, तस्मात् तेषूभयेषु साध्यते । सुप्तदग्धादिषु तु जङ्गमेषु व्यक्तमेव पाणिप्रस्फोटनादि क्रियालिङ्गम् , तेन विज्ञानमविनाभावित्वात् सिद्धमेव, शब्दानुविद्धत्वं तु साध्यत इति । नैतत् स्वाभिप्रेतोपपत्तिबलादेव, किं तर्हि ? भगवदर्हदाज्ञापि तथोपश्रूयते-सव्यजीवाणं पीत्यादि । 10 'अक्खराणक्खरसुता'दिभेदेन श्रुतज्ञानप्ररूपणायामेकेन्द्रियादिस्वामिकमुक्तं सूत्रे । तथा भाष्येऽपि
तं पि जति आवरिजेज तेण जीवो अजीवतं पावे।
सुट्ठवि मेहसमुदए होइ पभा चंदसूराण ॥ [नन्दीसू० ४२ ] अतो यथैवेत्यादि उक्तार्थोपसङ्घहरूपेण दृष्टान्तदण्डको यावत् साक्षाद् भवति तथा तथेति । कुम्भकारः शब्दानुविद्धचेतनात्मकः, तक्रियापि तदात्मिका विचित्रा पिण्डशिवकाद्यर्थपरिस्पन्दभेदा शब्द-15 चेतनैव, तस्या वैचित्र्येण वृत्तेस्तारतम्येन उत्तरोत्तरोत्कर्षपरम्परया अध्यासनम् , तेन समुपहितं रूपमस्या ३७४-२ घटतायाः सा कुम्भकारकरणशब्दचेतनावैचित्र्यवृत्तितारतम्याध्यासनसमुपहितरूपा घटता, सा साक्षादू नानो भवति तथा तथा तेन तेन प्रकारेण पिण्डशिवकादिरूपादिपृथुबुध्नादिना चेति दृष्टान्तः । दार्टान्तिकोऽर्थोऽधुना-तथा तत्प्रभवमेव शब्दचेतनाप्रभवमेव कुम्भकारमनुष्यशरीरं मृदादि मृत्सिकता-लोष्ट-वज्रा-ऽश्म-शिलादिपृथिवीकायतिर्यक्शरीरं च, आदिग्रहणादप्तेजो-वायु-वनस्पतितिर्यक्शरीरं 20 देवशरीरं नारकीयं च । तद् भावयति-शब्दोपयोगेत्यादि । शब्दात्मक उपयोगः श्रुतज्ञानं व्यक्ताव्यक्तम् , तत्सम्बन्धाद्व(यः) कायवाङ्मनःकर्मयोगः शुभोऽशुभो वा स आश्रवः पुण्यपापयोः, एकेन्द्रियादिजातिनाम्नस्तिर्यग्भेदस्य योगवक्रता विसंवादनं च, तद्विपरीतं योगावक्रत्वमविसंवादनं [च] शुभस्य मनुष्य-देवपञ्चेन्द्रियजात्यादिनाम्नः, आदिग्रहणादविसंवादनग्रहणात् । 'आदेः' इति पञ्चमीनिर्देशाद्धेतोरित्यर्थः । 'कुम्भकारशरीरमृदादि तथा तथा तत्प्रभवमेव' इति वर्तते । उक्तमिदं प्रक्रियायुक्त्या, न पुनर्हेतुना शब्दानु-25 विद्धचैतन्यात्मकत्वमिति चेत् , एतर्हि ब्रूमः-रूपादिमदर्थविरचनात्मकत्वात् , रूप-रस-गन्ध-शब्द-स्पर्श
१ दृश्यतां पृ० ३७८-१ ॥ २ वृत्तित्वं प्र० ॥ ३ क्रम्यादीनां भा० ॥ ४ मु भा० । मू य० ॥ ५ दृश्यतां पृ० १९० पं० ७, पृ. ३५१ पं० ४, टिपृ० ६७ पं० ७॥ ६°दये होइ पहा य० ॥ ७ इयं गाथा सम्प्रति नन्दीसूत्रेण मिश्रितोपलभ्यते । नयचक्रवृत्तिकृतस्तु सा नन्दीसूत्रभाष्यगाथात्वेन सम्मता प्रतीयते। दृश्यता टिपृ. ६८ पं० २-७ ॥ ८ तत्सम्बन्धाद्व काय° य० । तत्सम्बन्ध काय° भा० । 'तत्सम्बद्धकायवाड्मनःकर्मयोगः' इत्यपि पाठोऽत्र भवेत् ॥ ९ “कायवाङ्मनःकर्म योगः । स आश्रवः । शुभ पुण्यस्य । अशुभः पापस्य.।"-तत्त्वार्थ सू० ६।१-४॥ १० “योगवक्रता विसंवादनं चाशुभस्य नाम्नः। विपरीतं शुभस्य।"-तत्त्वार्थसू० ६।२१-२२॥ ११ तथा तथा तथा भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org