________________
५५८
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे संनिविष्टशब्दानुबद्धचैतन्यस्वरूपत्वाच्छब्दात्मकः, तदनुरूपप्रवृत्तयोऽपि तदात्मिकाः, न तदभावे प्रवर्तते तन्तुवायवत् । न हि काचिदपि चेतनाऽशब्दास्ति । येऽप्यव्यक्तचेतनाः स्थावरा जङ्गमाश्च तेऽपि शब्दाभ्यासवासनाजनितान्तर्निविष्टस्वानुरूपचैतन्याः, हिताहितप्रवृत्तिव्यावृत्तिवृत्तत्वात्, कुम्भकारवत्। भगवदर्हदा
5. अपर आह-शब्दस्वतत्त्वमाकाशम् , आकाशगुणो वा शब्दः श्रोत्रग्राह्यस्यार्थस्य शब्दसंज्ञत्वादिति
केचित् प्रतिपन्नाः । तत् कयोपपत्त्येदमुच्यते-शब्द एव सर्वमिति ? अत्रोच्यते--कुम्भकारो हीत्यादि । हिशब्दो हेत्वर्थे, कुम्भकारस्तावदात्मान्तःसन्निविष्टशब्दानुवद्धचैतन्यस्वरूपत्वाच्छब्दात्मकः, तदनुरूपान्तःशब्दानुबद्धचैतन्यप्रेरितपिण्डशिवकाद्यनुक्रमप्रवृत्तयः क्रिया अपि तदात्मिकाः, तत्प्रवृत्तित्वात् ,
मृत्प्रवृत्त्यात्मकघटवत् तद्भावे भावात् तदभावे चाभावात्, वैधयेण न तदभावे, तदनुरूपान्तःसन्नि10 विष्टचैतन्याभावे न प्रवर्तते तन्तुवायवत् ।
स्यान्मतम्-तदनुरूपचैतन्यात्मकत्वमस्तु प्रवृत्तेश्चैतन्याविनाभावात् , शब्दात्मकत्वं तु साध्यमिति । अत्रोच्यते-किमत्र साध्यम् ? सिद्धमेवैतत्, न हि काचिदपि चेतनाऽशब्दास्ति अनादिकालप्रवृत्तशब्दव्यवहाराभ्यासवासितत्वाद् विज्ञानस्य चैतन्यमेव हि पश्यन्त्यवस्थानं मध्यमावैखोरवस्थयोरुत्थाने
कारणं 'नाम' इत्युच्यते, कारणात्मकत्वात् कार्याणाम् । यथोक्तम्-वैखर्या मध्यमायाश्च पश्यन्त्याश्चैत15 दद्भुतं रूपम् [ वाक्यप० १।१४२ ] इत्यादि ।
स्यान्मतम्-शब्दव्यवहारानभिज्ञेष्वप्यव्यक्तचेतनेषु विज्ञानोत्थापितप्रवृत्तिसम्भवे व्यभिचरतीति चेत् , 'न' इत्युच्यते, येऽप्यव्यक्तचेतना इत्यादि । कृमि-पिपीलिकादीनां जङ्गमानां व्रतती-त्रपु-सीसक३७४-१ चितकर्णिकादीनां स्थावराणां च शब्दाभ्यासवासनाजनितान्तर्निविष्टस्वानुरूपचैतन्यास्तित्वं प्रति
ज्ञायते हिताहितप्रवृत्तिव्यावृत्तिवृत्तत्वात् कुम्भकारवत् , हिताहितयोः प्रवृत्तिव्यावृत्ती 'निमित्त20 सप्तमी सँम्बन्धषष्ठी वा, हिताहितप्रवृत्तिनिवृत्त्योर्वृत्तत्वात् , इत्थम्भूतलक्षणा तृतीया वा हिताहितप्रवृत्ति
१“वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अनेकतीर्थमेदायास्त्रय्या वाचः परं पदम् ॥ [वाक्यप० १११४२], सर्वशब्दनिबन्धनत्वमाह-वैखर्या इति । एतदिति व्याकरणम् , अद्भुतमाश्चर्यं परं पदमिति सम्बन्धः। अनेकप्रकरणस्य शब्दराशेरास्पदं प्रतिष्ठेयाश्चर्यमेतत् । अनेकतीर्थभेदाया इति वैखरीमध्यमापश्यन्तीनामनेकमार्गभेदकतामाह । त्रय्या इति त्रयोऽवयवा वैखर्यादयो यस्या इति त्रयी। परमिति उत्कृष्टम् । पदमिति तत्सारत्वात् ।” इति वाक्यपदीयस्य वृषभदेवकृतायां टीकायाम् । “परैः संवेद्यं यस्याः श्रोत्रविषयत्वेन प्रतिनियतं श्रुतिरूपं सा वैखरी श्लिष्टा व्यक्त वर्णसमुच्चारणा प्रसिद्धसाधुभावा भ्रष्टसंस्कारा च । तथा याऽक्षे या दुन्दुभौ या वेणौ [या] वीणायामित्यपरिमाणभेदा । मध्यमा त्वन्तःसंनिवेशिनी परिगृहीतक्रमेव बुद्धिमात्रोपादाना । सा तु सूक्ष्मप्राणवृत्त्यनुगता क्रमसंहारभावेऽपि व्यक्तप्राणपरिग्रहैव केषाञ्चित् । प्रतिसंहृतकमा सत्यप्यभेदे समाविष्टक्रमशक्तिः पश्यन्ती। सा चलाचला प्रतिलब्धसमाधाना च आवृता विशुद्धा च सन्निविष्टज्ञेयाकारा प्रतिलीनाकारा निराकारा च परिच्छिन्नार्थप्रत्यवभासा संसृष्टार्थप्रत्यवभासा प्रशान्तसर्वार्थप्रत्यवभासा चेत्यपरिमाणभेदा ।.....'तथेतिहासेषु निदर्शनान्युपलभ्यन्ते-...... । पुनश्चाह-'स्थानेषु विधृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना ॥ १ ॥ केवलं बुद्ध्युपादाना कमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ २॥ अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनी' ॥ ३ ॥"-इति भर्तृहरिरचितायां वाक्यपदीयवृत्तौ ॥ २“वल्ली तु व्रतती लता" इति अमरकोशे ॥ ३°सीसकर्णिका भा०॥ ४"निमित्तात् कर्मयोगे"- पा. वा० २।३।३६ ॥ ५“षष्ठी शेषे”-पा०२॥३॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org