________________
नामद्रव्यार्थभवनवादिनः पूर्वपक्षः] द्वादशारं नयचक्रम् ।
अस्य पर्यायनयभेदत्वात् सर्वद्रव्यार्थभवनं प्रतिपक्षः । नामद्रव्यार्थभवनं तावत्-नाम कारणं द्रव्यं तदेव कार्य भवनात्मकत्वात् । घटस्य हि कुम्भकारचेतना कारणम् ; न अमूर्तात्मा अकरणात्। सर्वमपि चैतद् नामैव । कुम्भकारो ह्यात्मान्तःभवत्यभावश्च, अंभावोऽपि [अभावो भवति ] भावश्चेति, सङ्करदोषात् । इहेत्यस्मिन् नये स्वरूपं घटो विशेषः, न पटाद्यभावः । स एव विशेषः प्रधानं भावः, सामान्य क्रिया भवनं प्रकृत्यर्थ उपसर्जनम-5 प्रधानम् । किमिव ? शिबिकावाहकानेश्वरयानवत्, यथा शिबिकावाहकानां यानमीश्वरयानार्थत्वादप्रधानम् अतः शिबिकावाहकाः 'यान्ति' इति नोच्यन्ते तैरुह्यमान ईश्वर एव प्रधानत्वात् 'याति' इत्युच्यते तथा सामान्येन भवताप्यप्रधानेन भविता घट एव भवति' इति प्राधान्यादुच्यते । तस्माद् निरूपितवस्तुस्वरूपमुपनयति विशेषभवनमेव भावभवनमिति दान्तिकमर्थम् । ___इत्थं पर्यायनयभेदोऽयम् । अस्य नयस्य पर्यायनयभेदत्वात् सर्वद्रव्यार्थभवनं प्रतिपक्षः। 10 तत्र विध्यादयो द्रव्यार्थभवनभेदा व्याख्याता दूषिताश्च ‘समनन्तरानुलोमाः पूर्वविरुद्धा "निवृत्तनिरनुशयाः' [ ] इति न्यायक्रमेण । ते च द्रव्यार्थभेदाः । नाम-स्थापनाद्रव्यभवनयोरव्याख्यातयो
र्व्याख्यानं कृत्वा दूषयिष्यति । तत्र नामद्रव्यार्थभवनं तावत् स्वरूपतः नमयति प्रह्वीकरोति सर्वमात्मस्वभावेनेति नाम, कारणं करोतीति, द्रव्यं प्राग्व्याख्यातार्थम् । भवत एंव वा यद् भवनं तद् ,व्यं ३७३-१ कारणं नाम इत्युच्यते । भवत्येव भवत्यवस्थितं विश्वस्य कारणं प्रागुक्तपुरुषादिकारणवदेकमेव नाम शब्दः । 15 आह-करोतीति कारणमुक्तम् , कार्याभावात् किं क्रियते यत् कुर्वत् तत् कारणं कारणं स्यात् ? तस्मात् कार्याभावात् कारणत्वाभावः, कारणत्वाभावात् स्वलक्षणाभावात् खपुष्पवदसदिति; उच्यते-तदेव कार्यकारणमेव नाम कार्य नासत् । कुतः ? भवनात्मकत्वात् । स हि शब्दो भवनात्मकः, भवनानि अवस्थाविशेषाः स्वप्नादिवत् पुरुषस्य बालादिवद्वा पिण्डादिरूपादिवद्वा घटस्य । तस्मात् स एव कारणं स्वावस्थाविशेषाणां कार्याणामिति ।
20 ____ अस्योदिष्टस्य कार्यकारणभावस्य निरूपणार्थमुदाहृत्य घटं घटस्य हीत्याद्यारभते । घटस्य हि कार्यस्य यस्मात् कुम्भकारचेतना कारणं कुम्भकरणसमर्थशरीरसहिता, चेतनारहितस्य अंकरणात् । आत्मा तर्हि कारणमस्तु चेतनत्वादिति चेत्, तद् न अमूर्तात्मा, अंकरणात् । ततः किम् ? कुम्भकारशरीरं कर्तृत्वाद् मूर्तत्वाद् मृदाद्यात्मकत्वाद् घटस्य मूर्तस्य कारणं सम्भाव्येत, मृत्सलिलाद्यात्मकत्वाद्वा घटस्य मृत्सलिलाद्येव कारणं सम्भाव्येत, यदस्तु तदस्तु कार्य कारणं च, सर्वथा चैतन्यरहितस्य मूर्त-25 द्रव्यस्य घटसजातीयस्यापि मूर्तिरहितस्यापि वा चेतनस्यासजातीयघटकारणत्वासम्भवाद् मूर्तचैतन्यात्मकः कुम्भकारः पृथिव्यप्तेजोवाय्वाकाशात्मानः संहत्य कुम्भकाराख्या भवन्ति । तच्च सर्वमपि चैतद् नामैव ३७३-२ शब्द एव, शब्दब्रह्मण एवैकस्य विपरिवर्तस्वरूपं पृथिव्यात्मादि मूर्तामूर्तभेदप्रभेदं जगत् ।
१'अभावोऽपि [भावो भवत्य]भावश्च' इत्यपि पाठोऽत्र भवेत् ॥ २ यामेदश्वभयानवत् प्र० । अत्र 'याने ईश्वर यानवत्' इत्यपि पाठो भवेत् ॥ ३ पर्यय प्र०॥ ४ निवृत्ति य० । दृश्यतां पृ. २२१ पं० ८, पृ० ४५५ पं० ७ । टिपृ. ७२ पं० ७॥ ५(द्रव्यद्रव्यार्थभेदाः?)॥ ६ एव धायद् भा० । एव धावद् य०॥ ७द्रव्यं कारण नाम य० । द्रव्यं नाम भा०। ८क्रियेते प्र०॥ ९ अकारणात् प्र० । 'अकारणत्वात्' इत्यर्थविवक्षायां तु यथाश्रुतः 'अकारणात्' इत्यपि पाठः साधुः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org