________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [ अष्टम उभयनियमारे यत् तेन भूयते यदसौ भवति नटपरमार्थनृपत्ववत् । भवित्रा भूयते, न भवनेन । तेन भूयते चेत् खपुष्पमपि भवेत् भवनस्य द्रव्यत्वापत्तेः।।
न तु भवनमविशेष कचिदपि भवद् दृष्टम्, विशेषेण तु भवित्रा वशीकृतं दृष्टम् , क्रिया-घट-व्रीहि-देवदत्तादौ कारक-रूपादि-मूलादि-बालादिभेदं दृश्यत एव । 5 इत्युभयं नियम्यते। इह विशेषः प्रधानं भावः, सामान्यमुपसर्जनम्, शिबिकावाहकयानेश्वरयानवत्, विशेषभवनमेव भावभवनम् ।
३७२-१ भवति । किमिव ? नटपरमार्थनृपत्ववत् , यथा नटः परमार्थतो नट एव सन् राज वेषधारी राजक्रियास्वा
ज्ञापनादिषु च वर्तमानो नटत्वप्रधानस्तद्विशेषपरमार्थ एवं घटाख्यो विशेषो जलधारणादिभवनेषु वर्तमानो
घटत्वप्रधानस्त द्विशेषपरमार्थो भवतीति भविता घटः कर्ता, तेन का भवित्रा भूयते स एव भवनीभवति 10न भवनेन न कळ भूयते, न भवनं घटो भवति, उपसर्जनत्वात् कर्तृ भवितुं न शक्नोति । तेन भवनेन
भूयते चेत् खपुष्पमपि भवेत् , यद्यभवद् भवेत् अभवित्रा भवनमनुभूयेत खपुष्पेणाप्यनुभूयेत । न ह्यभवितृत्वात् खपुष्पं भवनमनुभवति तथा भवनमभवितृत्वाद् नानुभवतीत्यर्थः । कस्माद् नानुभवति भवनं भवनमिति चेत् , उच्यते-भवनस्य द्रव्यत्वापत्तेः, द्रव्यशब्दस्य कर्तृप्रत्ययान्तत्वाद् भवति' इति ,व्यं
भव्यं 'कृत्यल्युटो बहुलं कर्तरि' इति लक्षणाद् यदि भवति द्रव्यं स्यात् । अनिष्टं चैतदिति । 15 एवं तर्हि भविताप्यभवनः खपुष्पवद् न स्यादिति तुल्यमनिष्टापादनम् । यथा भवित्रा विना
भवनं नास्ति, तद्विशिष्टं दृष्टम् , तथा भवितापि भवनेन विना नास्ति, तद्विशिष्टो दृष्ट इति । एतच्च ने तु भवनमविशेषं सामान्यमानं वचिदपि भवद् दृष्टम् , विशेषेण तु भवित्रा वशीकृतं दृष्टम् , सत्यमेतत् , वयमपि न ब्रूमः-भवनं नास्त्येवेति, किं तर्हि ? विशेषप्रधान स्वोपसर्जनं तु दृष्टमिति
न तुल्यत्वमनयोः । क तद् दृश्यत इति चेत्, उच्यते-क्रियाघटेत्यादि । क्रियायां कारकं कर्ता, 20 घटे रूपादिः, व्रीहौ मूलादिः, देवदत्तादौ बालादिः, एते भेदा यस्य तद् भवनसामान्यं भेदप्रधानं ३७२-२ दृश्यते लोके विशेषेणोपसर्जनीकृतं प्रधानेन ।
इत्युभयम् अस्मात् कारणाद् विधिनियमश्च नियम्येते 'सामान्यमुपसर्जनमेव विशेष एव प्रधानम्' इति विधिनियमौ नियतौ, न यथा पूर्वत्रोभयमते कामचारो वा विधिविधीयते नियम्यते च नियमो विधीयते नियम्यते चेति तुल्यकक्षौ, अनन्तरातीतनयमतवदुभयं 'चोभयम्-भावोऽपि भावो
१ दृश्यतां पृ० ३७७-२॥ २ दृश्यतां पृ० ३७७-२॥ ३ भवता भा० । भावता य० । (भावना । ?)। 'भवता भूयते' इति मूलसत्त्वे तु भा० पाठोऽपि संगच्छतेऽत्र ॥ ४ भवतीभवति य० ॥ ५ कर्ता प्र.॥६ भवनमिति चेत् भा०॥ ७ “द्रव्यं च भव्ये। ५।३।१०४। द्रव्यशब्दो निपात्यते भव्येऽभिधेये, दुशब्दादिवार्थे 'यत्' प्रत्ययो निपात्यते । द्रव्यम् । भव्य आत्मवान् अभिप्रेतानामर्थानां पात्रभूत उच्यते । द्रव्योऽयं राजपुत्रः । द्रव्योऽयं माणवकः ।"-पा० काशिका ॥ ८ "कृत्यल्युटो बहुलम् । ३।३।११३ । 'भावेऽकर्तरि च कारके' इति निवृत्तम् । कृत्यसंज्ञकाः प्रत्यया ल्युट् च बहुलमर्थेषु भवन्ति, यत्र विहितास्ततोऽन्यत्रापि भवन्ति । भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति ।.."करणा
वे च ल्युट अन्यत्रापि भवति ।..."बहुलग्रहणादन्येऽपि कृतो यथाप्राप्तमभिधेयं व्यभिचरन्ति ।"-पा० काशिका। ९ ननु भवन य० ॥ १० द्वयमपि प्र० ॥ ११ ब्रूतो भा० । ब्रूवो य० ॥ १२ (वोभयं? )॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org